________________
पवनक्षोभितस्य रागसागरस्य तरङ्गाभ्यामिवोद्गताभ्यां विद्रुमलतालोहिताभ्यामधराभ्यां रक्तावदातस्वच्छकान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसंपुटच्छविना कपोलयुगलेन रतिपरिवादिनीरत्नकोणचारुणा नासावंशेन च विराजमानाम्, गतिप्रसरनिरोधिश्रवणकोपादिव किंचिदारक्तापाङ्गेन निजमुखलक्ष्मीनिवासदुग्धोदधिना लोचनयुगलेन लोचनमयमिव जीवलोकं कर्तुमुद्यताम्, उन्मदयौवनकुञ्जरमदराजिभ्यां भूलताभ्यां मनःशिलापङ्कलिखितेन च रोगाविष्टेन मन्मथहृदयेनेव वदनलग्नेन तिलकबिन्दुना विद्योतितललाटपट्टाम्, उत्कृष्टहेमतालीपट्टाभरणमयमामुक्तकर्णोत्पलच्युतमधुधारासदेहकारिणं कर्णपाशं दोलायमानपत्रमरकतमाणिक्यकुण्डलं दधतीम्, पाटलीकृतललाटेन सीमन्तचुम्बिनचूडामणेः क्षरतांशुजालेन मदिरारसेनेव प्रक्षाल्यमानदीर्घकेशकलापाम्, देहार्धप्रविष्टहरगर्वितगौरीविजिगीषयेव सर्वाङ्गानुप्रवि -
***********
द्रस्योद्गताभ्यां प्रादुर्भूताभ्यां तरङ्गाभ्यामिव । विद्रुमेति । विद्रुमलतावल्लोहिताभ्यां रक्ताभ्यामधराभ्यां दन्तच्छदाभ्यां तथा रक्तावदातेन स्वच्छा निर्मला कान्तिर्यस्यैवंविधेन । मदिरेति । मदिरारसः कापिशायनद्रवस्तेन पूर्णं भृतं माणिक्यशुक्तिसंपुटं तद्वच्छविः कान्तिर्यस्यैवंविधेन कपोलयुगलेन । तथा रतः परिवादिनी सप्ततन्त्रीभिर्युक्ता वीणा तस्या रत्नमयो यः कोणो वीणादिवादनं तद्वच्चारुणा मनोहरेण नासावंशेन च नासिकावेणुना च विराजमाना शोभमानाम् । गतीति । गतिर्गमनं तस्य प्रसरो विस्तारस्तस्य निरोधिप्रतिद्वन्द्वि यच्छ्रवण तस्य यः कोपस्तस्मादिव किंचिदारक्तेऽपाङ्ग निर्याणे यस्य स तेन । निजेति । निजमात्मीयं यन्मुखं तस्या या लक्ष्मीः श्रीस्तस्या निवासार्थं दुग्धोदधिना क्षीरसमुद्रेणैवंविधेन लोचनयुगलेन नेत्रयुग्मेन लोचनमयमिव जीवलोक कर्तुमुद्यताम् । कपोलावधिश्यामलेखाद्वयसाम्येनाह - उन्मदेति । उद्गतो मदो यस्मादेवभूतं यद्यौवनं स एवानिवार्यत्वात्कुञ्जरस्तस्य मदो दानं तस्य राजीव राजी ताभ्यां भ्रूलताभ्याम् । तथा रागोऽनुरागस्तेनाविष्टेन व्याप्तेन । अथ च राग आरुण्यम् । तिलकारुण्यमिति यावत् । एवंविधेन मन्मथहृदयेनेव कंदर्पस्वान्तेनेव वदनलग्नेन मनःशिलापङ्कलिखितेन तिलकबिन्दुना विद्योतितं प्रकाशित ललाटपट्ट यस्याः सा ताम् । केचित्तु : मन्मथो हृदये यस्मात्, तिलकारुण्यं दृष्ट्वा यूनां हृदये मन्मथावेश एवंविधेनेवेति व्याख्यानयन्ति । पुनः किं कुर्वन्तीम् । दधतीं धारयन्तीम् । कर्णपाशं कर्णाभरणविशेषम् । दोलायमानं पत्रं स्वर्णपत्रं यस्मिन्नेतादृशं मरकतमाणिक्यनिर्मितं कुण्डलं च । आयं विशेषयन्नाह - उत्कृष्टेति । उत्कृष्टा अत्यद्भुता या हेमताली स्वर्णताली तस्याः पट्टाभरणेन निर्मितम् । तस्य च पिङ्गवर्णत्वात्कमलमकरन्दस्याप्येवंभूतत्वात्तसाम्येनाह - आमुक्तेति । आमुक्तं परिधानीकृतं यत्कर्णोत्पलं श्रवणकुवलयं तस्माच्युता सस्ता या मधुधारा तस्याः सदेहकारिणमारेकाजनकम् । पाटलीति । पाटलीकृतं श्वेतरक्तीकृतं ललाटमलिक येनैवंविधेन सीमन्तचुम्बिनः केशवम॑चुम्बिनचूडामणेः शिरोमणेरंशुजालेन किरणसमूहेन । क्षरता सवता अनेकवर्णत्वसाम्यादाह - मदिरारसेनेव प्रक्षाल्यमानो दीर्घ आयतः केशकलापोऽलकसमूहो यस्याः सा ताम् । देहेति । देहार्धे शरीराधैं प्रविष्टो यो हर ईश्वरस्तेन गर्विता गर्वं प्राप्ता या गौरी तद्विजिगीषयेव विजेतुमिच्छयेव । सर्वाङ्गेष्वनुप्रविष्टो हरविरोधी मन्मथस्तेन दर्शितः सौभाग्यविशेषो यस्याः सा ताम् । एतेन सर्वाङ्गानङ्गप्रवेशेन गौर्याः सका - - - - - - - - - - - - - - - - - - - -
- - - - - - - - - - - - - - - टिप्प० - 1 'मिजराफ' इति प्रसिद्धः । 2 कर्णपाशनामको नाद्यावधि श्रुतो भूषणविशेषः । पाशाकारं (शष्कुल्याकार) कर्णमित्यर्थः । उत्कृष्टहेमनिर्मिततालीपत्राकार(भूषणविशेष)व्याप्तम्, दोलायमानं स्वर्णपत्रं यस्मिन्नेतादृशं मरकतमाणिक्याभ्यां निर्मितं कुण्डलं यस्मिन् (बहुविहिगर्भो बहुव्रीहिः) एवंविधं कर्णपाशम् (प्रशस्तं कर्णम्) दधतीमिति तदर्थः । कर्णे कुण्डलं कुण्डले च तदवयवभूतं स्वर्णपत्रम् ('पीपलपत्ता' इत्यादि भाषाख्यातम्) इति बहुव्रीहिद्वयार्थः ।
पाठा० - १ नयनमयम्. २ रागाविष्ट. ३ एकमाश्लिष्टहेमताटीपुराभरणमपरम्. ४ चुम्बितचूडामणेः. ५ रागेण.
390
कादम्बरी ।
कथायाम्