________________
ष्टमन्मथदर्शितसौभाग्यविशेषाम्, उरः समारोपितलक्ष्मीमुदितनारायणावलेपहरणाय प्रतिबिम्बकैर्निजरूपतो लक्ष्मीशतानीव सृजन्तीम्, उत्तमाङ्गनिहितैकचन्द्रविस्मितहराभिमाननाशाय विलासस्मितैश्चन्द्रसहस्राणीव दिक्षु क्षिपन्तीम्, निर्दयदग्धैकमन्मथप्रमथनाथरोषेणेव प्रतिहृदयं मन्मथायुतान्युत्पादयन्तीम्, रजनीजागरखिन्नस्य परिचितचक्रवाकमिथुनस्य स्वप्तुं क्रीडानदिकासु कमलधूलिवालुकाभिर्बालपुलिनानि कारयन्तीम्, 'परिजननूपुररवप्रैस्थितं दुर्लभं च हंसमिथुनं मृणालनगडकेन बद्ध्वानय' इति हंसपालीमादिशन्तीम्, आभरणमरकतमयूखालिर्हेतेर्हरिणशावकाय सखीश्रवणादपनीय यवाङ्कुरप्रसवं प्रयच्छन्तीम्, आत्मवर्धिर्तलताकुसुमनिर्गमनिवेदनागतामुद्यानपालीमशेषाभरणदानेन संमानयन्तीम्, उपनीतविविधवनकुसुमफलपूर्ण -
***********
1
शादस्याः सौभाग्यातिशयो व्यज्यते । उर इति । उरः स्थले समारोपिताऽवस्थापिता या लक्ष्मीस्तया मुदितो हर्षं प्राप्तो यो नारायणस्तस्य योऽवलेपोऽहंकारो मत्सदृशः कोऽपि नास्ति, अन्येषां लक्ष्मीर्वर्तते सा बहिःसंयोग वियोगमात्रेण परं न शरीरान्तर्गतेत्येवंरूपस्तस्य हरणाय निवृत्तेर्निजरूपत आत्मीयदेहस्य । सार्वविभक्तिकस्तस् । तस्य प्रतिबिम्बकैः प्रतिच्छायैर्लक्ष्मीशतानीव सृजन्तीं कुर्वन्तीम् । उत्तमाङ्गे शिरसि निहितः स्थापितो य एकोऽद्वितीयश्चन्द्रः शशी तेन विस्मितो हर ईश्वरस्तस्याभिमानोऽहंकारः एका चन्द्रस्य कला, सापि स्वोत्तमाङ्गे एव, नान्यस्य कस्यचित्, स्वतन्ववयवे बर्हिवा, इत्येवंरूपस्तद्वैपरीत्येन तदभि (मान) नाशाय विशदाह्लादकत्वसाम्येन विलासस्मितैर्दिक्षु चन्द्रसहस्राणीवं क्षिपन्तीम् । तादृशस्मितान्येव चन्द्रसहसरूपतां प्राप्तानीत्यर्थः । निर्दयदग्धेति । निर्दयं निष्करुणं दग्धो ज्वालित एकोऽद्वितीयो मन्मथः कंदर्पो येनैवंभूतो यः प्रमथनाथ ईश्वरस्तस्मिन्यो रोषः क्रोधस्तेनेव प्रतिहृदयं मन्मथस्यायुतानि संख्याविशेषाण्युत्पादयन्तीं निर्माणं कुर्वन्तीम् । रजनीति । रजन्यां यो जागरो जागरणं तेन खिन्नस्यैवंविधस्य परिचितं स्ववशमानीतं यच्चक्रवाकमिथुनं द्वन्द्वचयुग्मं तस्य स्वप्तुं शयनं कर्तुं क्रीडानदिकासु क्रीडातटिनीषु कमलानां नलिनानां धूलयः परागास्ता एव वालुकाः सिकतास्ताभिर्बालपुंलिनानि स्वसैकतानि कारयन्तीम् । अत्र पूर्वोक्तेषु वक्ष्यमाणेषु वा यत्र यत्र द्रव्यगुणक्रियाभिः प्रस्तुतप्रशंसा तत्र सर्वत्र यथोचितं तत्तदतिशया एव व्यङ्ग्याः स्वयं बोद्धव्याः । यथा निजरूपतः प्रतिबिम्बैरित्यत्र रूपातिशयः । यथा वा रजनीत्यत्र कमलातिशयः पुलिनक्रियातिशयश्च । परिजनेति । परिजनः परिच्छदलोकस्तस्य नूपुराणि पादकटकानि तेषां रवः शब्दस्तेन प्रस्थितं चलितं दुर्लभं दुष्प्रापं च हंसमिथुनं चक्राङ्गयुग्मं मृणालं तन्तुलं तदेव निगडकमन्दुकस्तेन बद्ध्वा नियम्यानय मत्समीपं प्रापय । इति हंसपाली हंसारक्षानियुक्तामादिशन्त कथयन्तीम् । पुनः किं कुर्वन्तीम् । आभरणानां भूषणानां मरकतान्यश्मगर्भाणि तेषां मयूखान्किरणालिहत आस्वादयते हरिणशावकाय मृगशिशवे सखीश्रवणाद्वयस्याकर्णाद्यवाङ्कुरप्रसवं हयप्रियोद्गमपुष्पमपनीय दूरीकृत्य प्रयच्छन्तीं ददतीम् । आत्मेति । म स्वयं वृद्धिं प्रापिता या लता वल्ली तस्यां कुसुमनिर्गमः पुष्पप्रादुर्भावस्तस्य निवेदनाय कथनायागतां प्राप्तामुद्य नपाली वनरक्षानियुक्तामशेषाभरणदानेन समग्रभूषणप्रदानेन संमानयन्तीं संमानं कुर्वन्तीम् । उपेति । उपनीतान्यानीतानि विविधान्यनेकप्रकाराणि वनकुसुमफलानि तैः पूर्णं भृतं पत्रपुटं यया सा ताम् । अविज्ञायमानो य आलापः संलापस्तस्य भावस्तत्ता तया हासहेतुं परिहासनिमित्तं पुनः पुनर्भूयोभूयः क्रीडापर्वतस्य पत्रशर्बरी पुलिन्दपत्नीम् ।
टिप्पo - 1 लघुसैकतानि । 2 ' क्रीडापर्वतकपातृशबरीम्' इत्यपि पाठः । क्रीडापर्वतस्य पात्री रक्षिका या शबरीति तदर्थः । हंसपाली उद्यानपाली प्रकरणेन पर्वतपालिकायाश्च स्पष्टं प्रतिभासनात् । प्राकृतपर्वते निवसन्ती शबरी मनुष्यभाषां न जानाति । किन्तु कृत्रिमक्रीडापर्वतरक्षिकाऽपि स्वस्वामिनो भाषां न बुध्यत इति अतिशयकल्पनमेव बाणस्य ।
पाटा० - १ एकलक्ष्मी. २ स्विन्नस्य ३ प्रस्थितं वल्लभं च हंसमिथुनम् प्रस्थितं च वल्लभहंसमिथुनम् ४ लिहतेहरिततृणसूचीलोभेन. ५ भवनहरिण. ६ संवर्धितलताप्रथमकुसुम.
( कादम्बरीवर्णनम्
पूर्वभागः ।
391