SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ पत्रपुटामविज्ञायमानालापतया हासहेतुं पुनः पुनः क्रीडापर्वतपत्रशबरीमालपन्तीम्, करतलविनिहितैर्मुहुर्मुहुरूत्पतद्भिश्च मुखपरिमलान्धैर्नीलकञ्चुकैरिव मधुकरैः क्रीडन्तीम्, पञ्जरहारीतकरुतश्रवणकृतदुष्टस्मितां चामरग्राहिणी विहस्य लीलाकमलेन शिरसि विघट्टयन्तीम्, मुक्ताफलखचितचन्द्रलेखिकासंक्रान्तप्रतिमा स्वेदजलबिन्दुजालंचितनखपदाभिप्रायेण ताम्बूलकरङ्कवाहिनीं पयोधरे पटवासमुष्टिना ताडयन्तीम्, रत्नकुण्डलप्रतिबिम्बसान्द्रदत्तनवनखपदमण्डलाशङ्कया चामरग्राहिणी विहस्य कपोले प्रसादव्याजेन दत्तेनात्मकर्णपूरपल्लवेनाच्छादयन्तीम्, पृथिवीमिव समुत्सारितमहाकुलभूभृद्व्यतिकरां शेषेभोगनिषण्णाम्, मधुमासलक्ष्मीमिव षट्पदपटलापह्रियमाणकुसुमरजोधूसरपादपरागाम्, शरदमिवोत्पादितमानसजन्म - *********** 'पुलिन्दः पत्रशबरः' इति रत्नकोशः । आलपन्ती जल्पन्तीम् । करेति । करतले हस्ततले विनिहितैः स्थापितैर्मुहर्मुहुरिवारमुत्पतद्भिरुत्पतनं कुर्वद्भिर्मुखस्य यः परिमलस्तेनान्धैः । नीलत्वसाम्यादाह - नीलेति । नीलकञ्चुकैरिव मधुकरैभ्रमरैः क्रीडन्ती क्रीडां कुर्वन्तीम् । पञ्जरेति । पञ्जरे वंशदलनिर्मिते पात्रे यो हारीतको मृदङ्कुरस्तस्य रुतश्रवणेन कृतं दुष्टं गूढं स्मितं यया सा ताम् । एवंविधां चामरग्राहिणी विहस्य शिरसि मस्तके लीलाकमलेन विघट्टयन्तीं ताडयन्तीम् । मुक्तेति । मुक्ताफलानि रसोद्भवानि तैः खचिता या चन्द्रलेखिका चन्द्रलेखाकृतिराभरणविशेषस्तस्याः संक्रान्ता प्रतिबिम्बिता प्रतिमा यस्यां सैवंविधां ताम्बूलकरङ्कवाहिनीं स्वेदजलबिन्दुजालेन चितं व्याप्तं यन्नखपदं तस्याभिप्रायेण पयोधरे कुचे पटवासः पिष्टातस्तस्य मुष्टिना ताडयन्तीम् । अत्रायमभिप्रायः - मुक्ताफलानां जलबिन्द्वनुकारित्वाच्चन्द्रलेखिकायाश्च वक्रत्वेन नखक्षतानुकारित्वात्ताम्बूलकरङ्कवाहिनीवक्षसि गौररूपातिशयवति मुक्ताचन्द्रिकायाः प्रतिबिम्बसंक्रान्त्या चौर्यरतपिशुनं स्वेदबिन्दुजालचिते नखपदं कस्येदमित्यभिप्रायेण यत्र तद्दर्शनं तत्रेव चूर्णक्षेपः । एतेन रतगोपनं व्यज्यते । रत्नेति । रत्नकुण्डलस्य यः प्रतिबिम्बः प्रतिच्छायस्तेन सान्द्रं दत्तं यन्नवनखपदमण्डलं तस्याशङ्कयारेकया वा चामरग्राहिणीं वालव्यजनधारिणी विहस्य कपोले प्रसादः प्रसन्नता तद्व्याजेन तन्मिषेण दत्तेनार्पितेनात्मनः स्वकीयस्य यः कर्णपूरपल्लवस्तेनाच्छादयन्तीमाच्छादनं कुर्वन्तीम् । एतेन रत्नकुण्डलस्य वक्रलोहितातिशयवन्नखक्षतिसाम्यं प्रदर्शयन्नाह - समुत्सारितेति । समुत्सारितो दूरीकृतो महाकुलानां भूभृतां राज्ञां व्यतिकरो वृत्तान्तो यया सा ताम् । कादम्बर्याः पितुरपेक्षयान्येषां राज्ञां न्यूनत्वादिति भावः । पक्षे महाकुलभूभृतां कुलाचलाना व्यतिकरः सामर्थ्य यया सा ताम् । शेषा उर्वरिता अन्यजनैरस्पृष्टा ये भोगास्तत्र निषण्णामुपविष्टाम् । पक्षे शेषस्य नागाधिपस्य यो भोगोऽहिकायस्तत्र निषण्णां स्थिताम् । मधुमासेति । मधुमासश्चैत्रमासस्तस्य लक्ष्मीः श्रीस्तामिव । उभयोः साम्यं प्रदर्शयन्नाह - षट्पदेति । षट्पदानां भ्रमराणां पटलैरपहियमाणं यत्कुसुमरजस्तेन धूसर ईषत्पाण्डुः पादयोश्चरणयोः पराग उपरागो यस्याः । 'परागः ख्यात्युपरागयोः' इति विश्वः । पक्षे पादपानां वृक्षाणां राग आरुण्यं यस्याम् । शरदिति । शरद्धनात्ययस्तामिव । उभयोः साम्यमाह - उत्पादितेति । उत्पादितो जनितो मानसं मनस्तस्माज्जन्म यस्य स मानसजन्मा कंदर्पस्तस्य पक्षो - टिप्प० - 1 'भूभृद्व्यतिकरशेषभोगनिषण्णाम् इत्यपि पाठः । 'महाचेतायां सशोकायां नाहं पाणिं ग्राहयिष्यामि' इति प्रतिज्ञानुसारं दूरीकृतः महाकुलाना भूभृतां (राज्ञाम्) व्यतिकरः संसर्गसुखं तस्मात् शेषेषु (अवशिष्टेषु) सुखेषु सक्चन्दनसखीविनोदादिषु स्थितम् । पक्षान्तरे तु ज्ञात एवार्थः, अर्थात् समुत्सारितः स्वसमीपं प्रापितः कुलशैलानां व्यतिकरः सम्बन्धो यया तादृशी च शेषस्य शरीरे निषण्णा चेति । पाठा० . १ पर्वतकशबरीम् पर्वतकपातृशबरीम्. २ आलापयन्तीम्. ३ विनिहतैः; अभिहतैर्मुहुरपसर्पद्विरुपसर्पद्भिश्च. ४ कन्दुकैः. ५ हारीतकलरुत. ६ लेखिकाप्रतिम. ७ जालाञ्चित. ८ स्तनतटे. ९ प्रतिबिम्बमादन्तव्रणमण्डल. १० व्याज. ११ भूभृद्वरव्यतिकर. १२ शेषभोगेषु निषण्णां च. १३ सखीम्. (392 कादम्बरी। कथायाम्
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy