________________
पक्षिरवापनीतनीलकण्ठमदाम्, गौरीमिव श्वेतांशुकरचितोत्तमाङ्गाभरणाम, उदधिवेलावनलेखामिव मधुकरकुलनीलतमालकाननाम्, इन्दुमूर्तिमिवोद्दाममन्मथविलासगृहीतगुरुकलत्राम्, वनराजिमिव पाण्डुश्यामलवलीलतालंकृतमध्याम्, दिनमुखमिव भास्वन्मुक्तांशुभिन्नपद्मरागप्रसाधनाम्, आकाशकमलिनीमिव स्वच्छाम्बरदृश्यमानमृणालकोमलोरुमूलाम्, मयूरावलीमिव नितम्बचुम्बिशिखण्डभारविस्फुरच्चन्द्रकान्ताम्, कल्पतरुलतामिव कामफल -
***********
विद्यते येषां मानसजन्मपक्षिणां रव उपभोगानुकूलः शब्दो यया सा । कामिनामुपभोगविषयकालाप उद्दीपकत्वात्कादम्बर्येवोत्पादित इत्यर्थः । ततोऽपनीतो दूरीकृतो नीलकण्ठो मदनदाहको महादेवस्तस्य मदः । मदनसहसोत्पादकत्वस्य पूर्वमुक्तत्वात्पश्चात्कर्मधारयः । ताम् । पक्षे मानसजन्मानो ये पक्षिणस्तेषां रवेण शब्देनापनीतो दूरीकृतो नीलकण्ठस्य मयूरस्य मदो यया सा ताम् । गौरीति । गौरी पार्वती तामिव श्वेतमंशुकं वस्त्रं यस्याः सा । विरचितान्युत्तमाङ्गावध्याभरणानि भूषणानि यया सा । पश्चात्कर्मधारयः । ताम् । पक्षे श्वेता अंशवः किरणा यस्यैवंभूतः श्वेतांशुकश्चन्द्रः स एव रचित उत्तमाङ्ग आभरणं यया । हारस्येति शेषः । उदधीति । उदधिः समुद्रस्तस्य वेलावनं समीपवर्ति काननं तस्य लेखा राजिस्तामिव । मध्विति । मधुकराणां भ्रमराणां कुलं समुदायस्तद्वन्नीलतमा अतिशयेन हरिता अलकाः केशा आनने मुखे.यस्याः सा ताम् । पक्षे मधुकरकुलयुक्तं नीलतमालकाननं यस्याम् । इन्दुमूर्तीति । इन्दुश्चन्द्रस्तस्य मूर्तिस्तामिवोद्दामा उत्कटा ये मन्मथविलासाः कंदर्पविभ्रमास्तैर्गृहीतं स्वीकृतं गुरु महत्कलत्रम् । भार्या यया सा ताम् । कामव्याकुलचेतसा चन्द्रेण बृहस्पतेस्तारापहृतेति पुराणप्रसिद्धम् । वनेति । वनस्य राजिर्लेखा तामिव । उभयोः शब्दसाम्यमाह - पाण्ड्विति । अङ्कुरितयौवनत्वाच्छ्यामलाः कृष्णा वल्ल्यस्त्रिवल्ल्यस्ता एव सरलत्वसाम्याल्लता वल्ल्यस्ताभिरलंकृतो मध्यः कटिप्रदेशो यस्याः सा ताम् । पक्षे लवली लताः ताभिरलंकृतो भूषितो मध्यो मध्यप्रदेशो यस्याः सा ताम् । दिनमिति । दिनस्य वासरस्य मुखमाननं तद्वदिव । भास्वदिति । भास्वन्त्यो दीप्यन्त्यो या मुक्ता मुक्ताफलानि तेषामंशुभिः किरणैर्भिन्नानि मिश्रितानि पद्मरागाणां प्रसाधनानि भूषणानि यस्याः सा ताम् । पक्षे भास्वता सूर्येण मुक्ता येऽशवः किरणास्तैर्भिन्नानि विकसितानि यानि पद्मानि कमलानि तेषां रागो रङ्गः स एव प्रसाधनं यस्याः सा ताम् । आकाशेति । आकाशं व्योम तस्य कमलिनी स्वर्गीयनलिनी तामिव । स्वच्छेति । स्वच्छं निर्मलं यदम्बरं तस्मिन्दृश्यमानं विलोक्यमानं मृणालवत्कोमलमूरुमूलं सक्थिमूलं यस्याः सा ताम् । पक्षे स्वच्छेऽम्बर आकाशे मृणालस्य तन्तुलस्य कोमलं सुकुमारमुरु विस्तीर्णं मूलं बुघ्नं यस्याम् । मयूरेति । मयूराणां कलापिनामावली श्रेणी तामिव । नितम्बेति । नितम्बः कटकस्तच्चुम्बिनि, अर्थाद्वस्त्रे, शिखण्डभारवत्कलापिपिच्छसमूहबच्चन्द्रकाश्चन्द्राकृतयो बिन्दवोऽन्ते प्रान्ते यस्याः सा ताम् । पक्षे नितम्बचुम्बिशिखण्डभारस्तस्मिन्विस्फुरिता देदीप्यमानाश्चन्द्रका मेचका अन्ते यस्याः सा ताम् । कल्पेति । कल्पतरुर्मन्दारः सरलत्वात्स एव लता तामिव । उभयोः सादृश्यमाह - कामेति । कामं वाञ्छितं यत्फलं तस्य प्रदामित्यभङ्ग - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 उत्पादितस्य स्व-भावविलासेन जनितस्य मानसजन्मनः (कामस्य) पक्षिणां ककपक्षयुक्तानां बाणानां रवेण अपनीतो नीलकण्ठस्य (शिवस्य) मदः (तेन कामो दग्धः, कादम्बर्या तु स्वसामर्थेनोत्पादितः) यया तामित्यर्थः । अन्योर्थः स्फुटः । 2 उपमायां लिङ्गभेदो दोषायेति 'दिनमुखलक्ष्मीमिव' इत्युचितः पाठः । प्रभातलक्ष्मीः (शोभा) इति तदर्थः । 3 नितम्बचुम्बी शिखण्डभारः (केशपाशः) यस्याः सा चासौ च विस्फुरन् (शोभमानः) चन्द्र इव कान्ता (कमनीया) चेति स्फुटोऽर्थः । 4 कादम्बरीपक्षे-कामफलं मदनविकाररूपं फलं प्रददातीत्यर्थः ।
पाठा० - १ विरचित. २ मुखलक्ष्मीम्.
(कादम्बरीवर्णनम् ।
पूर्वभागः ।
393