________________
प्रदाम्, पुरः समीपे संमुखोपविष्टाम् ‘कोऽसौ, कस्य वापत्यम्, किमभिधानो वा, कीदृशमस्यरूपम्, कियद्वा वयः, किमभिधत्ते, भेवता किमभिहितः, कियच्चिरं दृष्टस्त्वया, कथं चास्य महाश्वेतया सह परिचय उपजातः, किमयमत्रागमिष्यति' इति मुहुर्मुहुश्चन्द्रापीडसंबंद्धमेवालापं तद्रूपवर्णनामुखरं केयूरकं पृच्छन्ती कादम्बरी ददर्श ।
तस्य तु दृष्टकादम्बरीवदनचन्द्रलेखालक्ष्मीकस्य सागरस्येवामृतमुल्ललास हृदयम् । आसीच्चास्य मनसि - ‘शेषेन्द्रियाण्यपि मे वेधसा किमिति लोचनमयान्येव न कृतानि । किं वानेन कृतमवदातं कर्म चक्षुषा यदनिवारितमेना पश्यति । अहो चित्रमेतदुत्पादितं वेधसा सर्वरमणीयानामेकं धाम । कृत एते रूपातिशयपरमाणवः समासादिताः । तन्नूनमेनामुत्पादयतो विधेः करतलपरामर्शक्लेशेन ये विगलिता लोचनयुगलादश्रुजलबिन्दवस्तेभ्य एतानि जगतिकुमुदकमलकुवलयसौगन्धिकवनान्युत्पन्नानि इत्येवं चिन्तयत एवास्य तस्या नयनयुगले निपपात चक्षुः । तदा तस्या अपि नूनमयं स केयूरकेणावेदित इति चिन्तयन्त्या रूपातिशयविलो -
***********
श्लेषः । पुर इति । पुरोऽग्रे समीपे सविध उपविष्टमासीनं कोऽसौ चन्द्रापीडः, कस्य च राज्ञोऽपत्यं प्रजाः, किमभिधानो वा किंनामा, कीदृशमस्य रूपं सौन्दर्यम्, कियद्वा कियप्रमाणं वयोऽवस्थाविशेषः, किमभिधत्ते किं कथयति, भवता किमभिहितः किं कथितः, त्वया कियच्चिरं कियत्कालं दृष्टः । कथं चेति । केन प्रकारेणास्य पुरोवर्तिपुरुषस्य महाश्वेतया सह परिचयः संस्तव उपजातः । किमयमत्रागमिष्यतीति मुहुर्मुहुश्चन्दापीडसंबद्धं चन्द्रापीडविषयकमेवालापं वार्ता तस्य चन्द्रापीडस्य या वर्णनाप्रशंसा तत्र मुखरं वाचालं केयूरकं पृच्छन्ती प्रश्नविषयीकुर्वन्ती कादम्बरी ददर्शेति प्रागुक्त एवान्वयः ।
तस्य त्विति । तस्य चन्द्रपीडस्य हृदयं चेत उल्ललासोच्छसितं बभूव । कीदृशस्य । दृष्टा वीक्षिता कादम्बरीवदनचन्द्रलेखाया लक्ष्मीर्येन स तस्य । कस्येव । सागरस्येवामृतं पानीयं यथा चन्द्रलेखादर्शनादुल्लसति । आसीदिति । अस्य चन्द्रापीडस्य मनसि चित्त एवमासीद्धभूव । वेधसा ब्रह्माणा मे मम शेषेन्द्रियाण्यपि चक्षुर्व्यतिरिक्तान्यपि करणानि किमिति हेतोर्लोचनमयान्येव न कृतानि न विहितानि । किं वेति । अनेन चक्षुषा लोचनेन किमिति प्रश्ने । अवदातं शुद्ध कर्म कृतं विहितम् । अत्रार्थे हेतुं प्रदर्शयन्नाह - यदिति । यद्यस्माद्धेतोरनिवारितं यथा स्यात्तथैतां कादम्बरी पश्यति विलोकयति अहो चित्रमाश्चर्यमेतत् । यद्वेधसा सर्वरमणीयानां समग्रमनोहराणामेकमद्वितीय धाम गृहमुत्पादितं निर्मितम् । एते इति । एते रूपातिशयपरमाणवो वेधसा कुतः समासादिताः कुतः प्राप्ताः । तन्नून निश्चितमेना कादम्बरीमुत्पादयतो विधेब्रहाणः करतलस्य हस्ततलस्य परामर्शः संबन्धस्तस्माद्यः क्लेशस्तेन ये विगलिताः सस्ता लोचनयुगलानेत्रयुग्मादश्रुजलबिन्दवस्तेभ्यः (कर्मकठिनाभ्यां करतलाभ्यां परामर्शः सर्वावयवैः संपूर्णो देहः सिद्ध इत्याशयेन सर्वाङ्गेषु स्पर्शनं तनिमित्तकः क्लेशः श्रमः अतिसौकुमार्यात् तेन ये नयनजलबिन्दवस्तेभ्यो बिन्दुभ्यो) जगति लोके कुमुदानि कैरवाणि कमलानि नलिनानि कुवलयान्युत्पलानि सौगन्धिकानि कह्लाराण्येतेषां वनान्युत्पन्नानि समुद्भूतानि । 'कारणगुणा हि कार्यगुणमारभन्ते' इत्यतिश्वेतसुकुमारावयवजनितानि कुमुदानीत्यर्थः । इत्येवं चिन्तयतो ध्यायत एवास्य चन्द्रापीडस्य तु तस्याः कादम्बर्या नयनयुगले चक्षुर्निपपात दृढसंलग्नं बभूव । तदेति । तस्मिन्काले तस्या अपि कादम्बर्या अपि नूनं निश्चितं पूर्व केयूरकेण मदनुचरेणावेदितो निवेदितः सोऽयमिति चिन्तयन्त्या ध्यायन्त्या रूपातिशयविलोकने यो विस्मयश्चित्रं तेन स्मेरं विनिद्रं निश्चलं निबद्धं लक्ष येनैवंविधं चक्षुस्तस्मिंश्चन्द्रापीडे - टिप्प० - 1 प्रकोष्टमध्यगतो भागः पुनरुक्तप्रायः । इतस्तात्पर्यमानं ग्राह्यम् । 2 लक्ष्यमित्युचितम् । पाठा० - १ पुरःशयनसमीपे. २ भवतां च. ३ अभिहितम्. ४ संबद्धालापम्; संबद्धालापरूप. ५ कादम्बरी. ६ आनने.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
394
कादम्बरी ।
कथायाम्