________________
कनविस्मयस्मेरं निश्चलनिबद्धलक्ष चक्षुस्तस्मिन्सुचिरं पपात । लोचनप्रभाधवलितस्तु कादम्बरीदर्शनविह्वलोऽचल इव तत्क्षणमराजत चन्द्रापीडः । दृष्ट्वा च प्रथमं रोमोद्गमः, ततो भूषणरवः, तदनु कादम्बरी समुत्तस्थौ ।
अथ तस्याः कुसुमायुध एव स्वेदमजनयत्, ससंभ्रमोत्थानश्रमो व्यपदेशोऽभवत् । ऊरुकैम्प एव गतिं रुरोध, नपुररवाकृष्टहंसमण्डलमपयशोलेभे । निःश्वासप्रवृत्तिरेवांशुकं चलं चकार, चामरानिलो निमित्ततां ययौ । अन्तःप्रविष्टचन्द्रापीडस्पर्शलोभेनैव निपपात हृदये हस्तः, स एव करः स्तनावरणव्याजो बभूव । आनन्द एवाश्रुजलमपातयत्, चलितकर्णावतंसकुसुमरजो व्याजमासीत् । लज्जैव वक्तुं न ददौ, मुखकमलपरिमलागतालिवृन्दं द्वारतामगात् । मदनशरप्रथमप्रहारवेदनैव सीत्कारमकरोत्, कुसुमप्रकरकेतकीकण्टकक्षतिः साधा -
***********
सुचिरं पपात । लोचनेति । लोचनप्रभा नेत्रकान्तिः । कादम्बर्या इति शेषः । तया धवलितः शुभ्रीकृतः कादम्बर्या दर्शनं सम्यक्तया विलोकनं तत्र विह्वलो व्याकुलोऽचल इव पर्वत इव तत्क्षणं तस्मिन्समये चन्द्रापीडोऽराजताशोभत । तत्र निश्चलत्वसाम्यात्पर्वतानुमानमित्यर्थः । एवमुभयोर्लोचनविषयता प्राप्तयोर्विशेषोक्त्या विभावना वा व्यभिचारिभावा अनुभावाश्च वक्तुमुपक्रमते - दृष्ट्वेति । दृष्ट्वा विलोक्य प्रथममादौ रोमोद्गमो रोमाञ्चः समभूत् । तदुक्तमन्यत्र - 'अपूर्वप्रियदर्शने । बध्ननङ्गेषु रोमाञ्चः इति । ततो भूषणरव आभरणसिञ्जितम् । तदनु तदनन्तरं कादम्बरी समुत्तस्थावुत्थितवती ।
अथेति समुत्थानानन्तरं तस्याः कादम्बर्याः कुसुमायुध एव स्वेदमजनयत् । सर्वोऽप्ययं प्रपञ्चश्चन्द्रापीडविषयकः कादम्बर्या मनस्युत्कप्रठानिवृत्त्यतिशयप्रतिपादनपरश्च । एतदेव स्पष्टयन्नाह - ससंभ्रमेति । संभ्रमेण सहवर्तमानं ससंभ्रमं यदुत्थानं तस्माद्यः श्रमः खेदः स एव व्यपदेशो मिषं तत्राभवत् । ससंभ्रमोत्थानश्रमादेव मम खेदोऽभूदिति व्याजं कृतवतीत्यर्थः । ऊरुकम्प एव गतिं गमनं रुरोध रुन्धितवान् । नपुरे पादकटके तयो रवः शब्दस्तेनाकृष्टमाकर्षितं यद्धसमण्डलं तदपयशोऽपकीर्तिं लेभे प्राप । मद्गतिनिरोधकृत् हंसमण्डलमिति सखीजनेष्वपभ्राजनां कृतवतीत्यर्थः । निःश्वासेति । निःश्वासानामेतनाना प्रवृत्तिरेव प्रवर्तनमेवांशुक वस्त्रं चलं कम्यं चकार । चामरेति । चामरानिलो वालव्यजनपवनो निमित्ततां कारणतां ययौ । चामरानिलेन मदंशुकं चालितमित्युक्तवतीत्यर्थः । अन्तरिति । अन्तःप्रविष्टो यश्चन्द्रापीडस्तस्य स्पर्शलोभेनैव हृदये हस्तः करो निपपात निपतितो बभूव । स एवेति । स एव करो हस्तः स्तनावरणस्य कुचाच्छादनस्य व्याजो मिषं बभूव । स्तनावरणार्थं हस्तो दत्त इत्यन्येषां चेष्टया ज्ञापितवतीत्यर्थः । आनन्द एवेति । आनन्द एव प्रमोद एवाश्रुजलं नेत्रजलमपातयत्पातितवान् । चलितेति । चलितं कम्पितं कम्पितं यत्कर्णावतंसकुसुमं तस्य रजः परागस्तदेव व्याजो मिषमासीत् । कर्णावतंसरजःपातान्मम नेत्रयोर्जलच्युतिरभूदिति ज्ञापितवतीत्यर्थः । लज्जैवेति । लज्जैव त्रपैव वक्तुं कथयितुं न ददौ । मुखेति । मुखमेव कमलं तस्य यः परिमलस्तस्मादागतं प्राप्तं यदलिवृन्दं भ्रमरसमूहपटलं द्वारतामगादगमत् । भ्रमरैर्निरुद्धवदना मौनं कृतवतीति सख्या ज्ञातव्या । मदनेति । मदनशरस्य यः प्रथमप्रहार आयाभिघातस्तस्य वेदनैव व्यथैव सीत्कारं शब्दविशेषमकरोत् । कुसुमेति । कुसुमप्रकरेषु यः केतकीकण्टकस्तस्माद्या क्षतिः प्रघातः सा साधारणतां निमित्ततामवाप प्राप । केतकीकण्टकाभिघातेनानया सी -
- - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 द्वितीयया तात्पर्यम् । 2 'स एव स्तनावरणव्याजः' इत्युचितः पाठः, सर्वनाम्ना परामृष्टत्वे पुनरुक्तिर्न बाणोचिता । 3 अनयोरेकतर एव प्रयोज्य आसीत् ।
पाटा० -१ नयनम्, २ बल. ३ क्षणम्. ४ च तं प्रथमम्. ५ व्यपदेशेन. ६ स्तम्भ. ७ अयशः. ८ निश्वास एव; निश्वासप्रवृद्धिरेव. ९ चन्द्रापीडस्य. १० स्तनावरणम. ११ व्याज आसीत्; व्यपदेशतामयासीत्.
कादम्बरी-चन्द्रापीडयोमिथोभावावेशः
। पूर्वभागः ।।
395)