________________
रणतामवाप । वेपथुरेव करतलमकम्पयत्, निवेदनोद्यतप्रतीहारीनिवारणं कपटमभूत् । तदा च कादम्बरी विशतो मन्मथस्यापि मन्मथ इवाभूद्वितीयः, तया सह यो विवेश चन्द्रापीडहृदयम् । तथाहि, असावपि तस्या रत्नाभरणद्युतिमपि तिरोधानममस्त, हृदयप्रवेशमपि परिग्रहमगणयत्, भूषणरवमपि संभाषणममन्यत, सर्वेन्द्रियाहरणमपि प्रसादमचिन्तयत्, देहप्रभासंपर्कमपि सुरतसमागमसुखमकल्पयत् ।
कादम्बरी तु कृच्छ्रादिव दत्तकतिपयपदा महाश्वेतां स्नेहनिर्भरं चिरदर्शनजातोत्कण्ठा सोत्कण्ठं कण्ठे जग्राह । महाश्वेतापि दृढतरदत्तकण्ठग्रहा तामवादीत् - 'सखि कादम्बरि, भारत वर्षे राजानेकवरतुरगखुरमुखोल्लेखदत्तचतुःसमुद्रमुद्रो रक्षितप्रजापीडस्तारापीडो नाम । तस्यायं निजभुजशिलास्तम्भविश्रान्तविश्वविश्वंभरापीडश्चन्द्रापीडो नाम सूनुर्दिग्विजयप्रसङ्गेनानुगतो भूमिमिमाम् । एष च दर्शनात्प्रभृति प्रकृत्या मे निष्कारणबन्धुतां गतः । परित्यक्तसकला -
***********
त्कारो विहित इति सख्यो मेनिरे । वेपथुरेव कम्प एव करतलं हस्ततलमकम्पयत् । निवेदनेति । निवेदने ज्ञापन उद्यता या प्रतीहारी तस्या निवारणं कपट कैतवमभूत् । प्रतीहारीनिवेदितवस्तुप्रतिषेधद्वारा करकम्पनमाचरितमिति सखीभिरज्ञायीति भावः । नायिकाक्रमेण तानुक्त्वा नायकक्रमेणाप्याह - तदा चेति । यदा कादम्बरी चन्द्रापीडविषयको मन्मथः प्रविष्टस्तदा तस्य चन्द्रापीडविषयकस्य कादम्बरीहृदयप्रविष्टस्य मन्मथस्यापि प्रत्यर्थीभूतो द्वितीय इव मन्मथोऽभूत् । यथा कादम्बर्यां चन्द्रापीडविषयको मन्मथः प्रविष्टस्तथैव कादम्बरीविषयकोऽपिमन्मथश्चन्द्रापीडहृदयं प्रविवेशेत्यर्थः । तदेवाह - तया सहेति । यस्तस्य कादम्बर्या सह चन्द्रापीडहृदयं विवेश प्रविष्टवान् । तदेव दर्शयति - तथा हीति । असावपि चन्द्रापीडोऽपि तस्याः कादम्बर्या रत्नाभरणानां मणिखचितभूषणानां द्युतिमपि कान्तिमपि तिरोधानमन्तर्धानं साकल्येनावलोकनप्रतिबन्धकममस्त ज्ञातवान् । अयमप्युत्कण्ठानिवृत्त्यतिशयप्रतिपादनपरः प्रपञ्चः । हृदयप्रवेशमपि परिग्रहमावासस्थानमगणयत् । तस्या भूषणरवमपि संभाषणं जल्पनममन्यत । सर्वेन्द्रियाहरणमपि समग्रकरणाकर्षणमपि प्रसादमचिन्तयत् । देहप्रभायाः शरीरकान्तेः संपर्कमपि संबन्धमपि सुरतसमागमसुखमकल्पयन्मैथुनसुखसदृशमगणयत् ।
कादम्बरी त्विति । कादम्बरी तु कृच्छ्रादिव कष्टादिव दत्तानि कतिपयानि कियन्ति पदानि यया सा महाश्वेतां चिरकालेन यदर्शन तेन जातोत्कण्ठा यस्याः सा ता स्नेहनिर्भर यथा स्यात्तथा सोत्कण्ठं कण्ठे जग्राह कण्ठग्राहं गृहीतवती । महाश्वेतापि दृढतरं दत्तः कण्ठग्रहो यया सैवंविधा तां कादम्बरीमवादीदवोचत् । किमुवाचेत्याह - सखीति । हे सखि कादम्बरी भारते वर्षे भरतक्षेत्रेऽनेके ये वराः श्रेष्ठास्तुरगा अवास्तेषां खुरमुखानामुल्लेखा उत्कर्षास्तैर्दत्ताश्चतुःसमुद्रावधिमुद्रा अङ्को येन सः । रक्षिता प्रजायाः पीडा बाधा येनैवंभूतस्तारापीडो नाम राजास्ति । तस्य राज्ञः । निजेति । निजावात्मीयौ यौ भुजौ तावेव दृढत्वाच्छिलास्तम्भौ तत्र विश्रान्ता सुखेन स्थिता या विश्वविश्वंभरा समग्रवसुधा सैवापीड उत्तंसो भूषणं यस्य सः । 'पीडार्तिर्मदनोत्तंसकृपासु' इत्यनेकार्थः । एतादृशश्चन्द्रापीडो नाम सूनुर्दिग्विजयप्रसङ्गेनेमा भूमिमनुगतः प्राप्तः । एष चेति । एष चन्द्रापीडो दर्शनात्प्रभृत्यवलोकनादारभ्य प्रकृत्या मे मम निष्कारणबन्धुतां गतः प्राप्तः । तनिमित्तमाह - परीति । परित्यक्त उज्झिातो यः सकलः समग्र आसङ्गः सुहृत्संबन्धस्तेन निष्ठुरामपि कठिनामपि सविशेषैविशेषसहितैः -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 कादम्बर्याः यो हृदये प्रवेशस्तमपि 'पतित्वेन ममाऽनया परिग्रहः कृतः' इति कामुकस्वभावानुकूलमकलयत् ।
-
-
-
--
पाठा० - १ जातोत्कण्ठम्.२ विश्ववन्यः. ३ आगतः.
396
कादम्बरी।
कथायाम्-)