________________
त्वरितमभिप्रस्थितस्य हृदयस्य धूलिरिव सुधाधवला स्मितज्योत्स्ना विससार । संमान्यतामयं हृदयरुचिरो जनः प्रतिप्रणामेनेति शिरो वक्तुमिवैका धूलता समुन्ननाम । अङ्गुलिविवरविनिःसृतमरकताङ्गुलीयकलेखो विभ्रमगृहीतताम्बूलवीटिक इव करो जृम्भारम्भमन्थरं मुखमुत्ससर्प । सवत्स्वेदजलधौतलावण्यनिर्मलेषु चास्याः स्तम्भसंक्रान्तप्रतिबिम्बतया संचरन्मूर्तिर्मकरकेतुरिवावयवेष्वदृश्यत चन्द्रापीडः । तथा हि । सिजन्मणिनूपुरपुटेन भुवमालिखताङ्गुष्ठेनाहूत इव चरणनखेषु निपपात । दर्शनातिरभसप्रधावितेन गत्वा हृदयेनानीत इव स्तनाभ्यन्तरे समदृश्यत । विकचकुवलयदामदीर्घया च दृष्ट्या निपीत इव कपोलतले समलक्ष्यत । सर्वासामेव च तदा तासां कन्यकानां तिर्यक्पश्यन्तीनां तं कुतूहलापाङ्गचुम्बिन्या दृष्ट्या निर्गन्तुकामा इव कर्णपूरमधुकरैः समं बभ्रूमुस्तरलास्तारकाः ।
***********
ष्पजलं तस्य बिन्दुनिकरो निपपातापतत् । त्वरितमिति । त्वरितं शीघ्रमभिप्रस्थितस्य चलितस्य हृदयस्य धूलिरिव रेणुरिव सुधामृतं तबद्धवला शुभ्रा स्मितमीषद्धसितं तस्य ज्योत्स्ना चन्द्रिका विससार प्रसृता बभूव । अत्र शुभ्रत्वसाम्यात्स्मितस्य धूलिसाम्यमित्यर्थः । अयं हृदयरुचिरो जनः समान्यता सक्रियताम् । प्रतिप्रणामेनेति । अनुनमस्करणेन । इति शिर उत्तमाङ्गं वक्तुमिव कथयितुमिव एका भ्रूलता समुन्ननामोच्चीबभूव । अङ्गुलीति । अङ्गुल्यः करशाखास्तासां विवरेभ्यो विनिःसृतां मरकताङ्गुलीयकलेखा यस्मात्सः । नैल्यसाम्यादाह - विभ्रम इति । विभ्रमेण विलासेन गृहीता ताम्बूलवीटिका येनैवंविधः करो हस्तः । जृम्भेति । जृम्भणं तस्या आरम्भस्तेन मन्थरमलस मुखमुत्ससर्प विस्तीर्णं बभूव । अस्या इति । अस्याः कादम्बर्या अवयवेष्वपघनेषु संचरन्ती व्रजन्ती मूर्तिः शरीरं यस्यैवंभूतश्चन्द्रापीडः । क इव । मकरकेतुरिवादृश्यतावालोक्यत । जनैरिति शेषः । कीदृशेष्ववयवेषु । सवत्क्षरयत्स्वेदजलं तेन धौत क्षालितं लावण्यं लवणिमा तेन निर्मलेषु विमलेषु । कया । स्तम्भेति । स्तम्भेषु स्थूणासु संक्रान्तानि प्रतिबिम्बितानि यानि प्रतिबिम्बानि तस्य भावस्तत्ता तया । एतदेव दर्शयन्नाह - तथा हीति । सिञ्जशब्दं कुर्वन्यन्मणिनूपुरपुटं तेन भुवं पृथ्वीमालिखतालेख कुर्वताङ्गुष्ठेनाहूत इव निमन्त्रित इव चरणनखेषु निपपात । दर्शनेति । दर्शनार्थमतिरभसप्रधावितेनातिवेगोच्चलितेन हृदयेन गत्वा स्तनाभ्यन्तरे कुचयोर्मध्य आनीत इव समदृश्यत समवलोक्यत । जनैरिति शेषः । विकचेति । विकचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां दाम सक्तद्दीर्घयायतया च दृष्ट्या निपीत इव कपोलतले समलक्ष्यतादृश्यत । तत्तदवयवेषु तत्तत्प्रतिबिम्बमाश्रित्यैतदुक्तम् । तासामिति । अपाङ्गचुम्बिन्या दृष्ट्या कुतूहलात्तं तिर्यक्पश्यन्तीनां सर्वासामेव तदा तासां कन्यकानां निर्गन्तुकामा इव बहिर्गमनोत्सुका इव तरलाः कम्प्रास्तारकाः कनीनिकाः कर्णपूरमधुकरैः सम बभ्रमभ्रमण चक्रः । - - - - - - - - - - - -
- - - - - - - - - - - - - - - - - टिप्प० - 1 'विनिःसृतमरकताङ्गुलीयकमयूखलेखो' इत्युचितः पाठः । अङ्गुलिविवरेभ्यो विनिःसृता मरकताङ्गुलीयकस्य किरणराजिर्यस्य स इत्यर्थः । 2 भुवम् आलिखता (कर्षता, किञ्चित्खनता) अत एव शिजत् मणिनूपुरपुटं यत्र (भूलेखनसमये नूपुरचलनेन शब्दो जात इत्यर्थः) ईदृशेन अङ्गुष्ठेन आहूत इव नखेषु निपपात । चरणाङ्गष्ठनखेषु प्रतिबिम्बपतने सेयमुत्प्रेक्षेत्याशयः । 3 चन्द्रापीडस्य दर्शनार्थं प्रधावितेन कादम्बर्या हृदयेन आनीत इवेत्याशयः । 4 'कुतूहलादपाङ्गचुम्बिन्यो निर्गन्तुकामा इव...' इति पाठः । तम् (चन्द्रापीडम्) तिर्यक्पश्यन्तीनां कन्यकानां कुतूहलवशात् अपाङ्गचुम्बिन्यः अर्थात् अपाङ्गपर्यन्तागताः तरलाः (चञ्चलाः) तारका (नेत्रकनीनिकाः) नेत्रादहिर्निर्गन्तुकामा इव बभ्रमुः । यथा मधुकराश्चञ्चलास्तथा तारका अपि चाञ्चल्यमभजनित्यर्थः ।
पाठा० - १ मयूखलेखो; मयूखलेखा. २ संक्रान्त. ३ माणिक्यनूपुर. ४ मणिभुवम्. ५ चुम्बिन्यो; चुम्बिन्या.
398
कादम्बरी।
कथायाम्