________________
स्वच्छाम्बरतलदृश्यमानमृणालकोमलोरुमूलाम्, कुसुमचापलेखामिव मदनारोपितगुणकोटिकान्ततराम्, मधुमासदेवतामिव शिशिरहारिणीम्, मधुकरीमिव कुसुममार्गणाकुलाम्, चन्दनविलेपनामनङ्गरागिणीं च बोलां मन्मथजननी च मृणालिनीमभ्यर्थिततुषारस्पर्शा च कादम्बरी व्यलोकयत् ।
अथ सा यथादर्शनमागत्यागत्य चन्द्रापीडागमनमावेदयन्तं परिजनमुत्तरलतारकेण चक्षुषा विलोक्य 'कथय । किं सत्यमागतो दृष्टस्त्वया । कियत्यध्वनि क्वासौ' इति प्रतिमुखं निक्षिप्तनामाक्षरं पप्रच्छ । प्रवर्धमानधवलिम्ना चक्षुषा दृष्ट्वा च संमुखमापतन्तं तं दूरादेव वरारोहा, नवग्रहा करिणीवोरुस्तम्भविधृता, विचेष्टमानाङ्गी, कुसुमशयनपरिमलोपगतैः परवशामुखरै -
***********
स्वच्छेति । स्वच्छं निर्मलं यदम्बरं वस्त्रं तस्य तलमधोभागस्तत्र दृश्यमानं विलोक्यमानं मृणालवत्कोमलमूरुमूलं सक्थिमूलं यस्याः सा ताम् । पक्षे स्वच्छं रजोरहितं यदम्बरतलं व्योमतलं तत्र दृश्यमानं मृणाललक्षणं कोमलं सुकुमारमुरु विस्तीर्णं मूलं बुध्नो यस्याः । कुसुमेति । कुसुमचापः पुष्पधनुस्तस्य लेखामिव । उभयसाम्यमाविःकर्तुमाह - मदनेति । मदनेन यौवनावस्थयारोपिता स्थापिता या गणकोटिस्तया कान्ततरां मनोज्ञतराम । पक्षे मदनेन कंदर्पणारोपितोऽधिज्यीकतो गणकोटिौर्वीप्रान्तस्तया कान्ततराम । मध्विति । मधुमासो वसन्तमासस्तस्य देवतामिवाधिष्ठात्रीमिव । उभयसादृश्यमाह - शिशिरेति । शिशिरेण शीतलोपचारेण हारिणी रुचिराम् । पक्षे शिशिरस्य ऋतुविशेषस्यापहारिणीम् । शिशिरापगमे हि मधुमासः प्रवर्तते । मधुकरीमिव भ्रमरीमिव । उभयसादृश्यमाह - कुसुमेति । कुसुमान्येव विरहवशान्मार्गणा वाणास्तैराकुलाम् । पक्षे कुसुमानां मार्गणमन्वेषणं तेनाकुलां व्यग्राम् । अथ च चन्दनस्य विलेपनमङ्गरागो यस्या एवंविधामपि न विद्यतेऽङ्गरागो यस्यामिति विरोधः । तत्परिहारस्तु - अनङ्गः कंदर्पस्तस्मिन्रागिणीमनुरागवतीमित्यर्थात् । वालामनाविष्कृतमन्मथाम्, अथ च मन्मथजननीमिति विरोधः । तत्परिहारस्तु - बालामनुद्वाहितामित्यर्थात् । मृणालिनीम्, अथ चाभ्यर्थितो वाञ्छितस्तुषारस्पर्शो ययेति विरोधः । कमलिन्यास्तुषारस्पर्शः सर्वथानिष्ट इति लोके प्रसिद्धम् । तत्परिहारस्तु - विरहतापोपशान्त्यर्थं मृणालं विद्यते यस्या इत्यर्थात् । एवंविधा कादम्बरी व्यलोकयदपश्यत् । ___ अथ सा कादम्बरी यथादर्शनं यथावसरमागत्यागत्य चन्द्रापीडस्यागमनमावेदयन्तं कथयन्तं परिजनमुत्प्रावल्येन तरला चञ्चला तारका यस्मिन्नेतादृशेन चक्षुषा विलोक्य वीक्ष्य प्रतिमुखं निक्षिप्तानि स्थापितानि नामाक्षराणि यथा स्यात्तथा । प्रत्येक प्रत्येक नाम गृहीत्वेत्यर्थः । इति पप्रच्छेत्यप्राक्षीत् । इतियोत्यमाह - कथयेति । कथय ब्रूहि । किं सत्यमागतस्त्वया दृष्टः । कियत्यध्वनि । क्वासौ चन्द्रापीडः । तदनन्तरं प्रवर्धमानः प्रतिदिनमुपचीयमानो धवलस्य भावो धवलिमा यस्मिन्नेतादृशेन चक्षुषा नेत्रेण संमुखमापतन्तमागच्छन्तं तं दृष्ट्वा विलोक्य च कुसुमशयनादुत्तस्थावुत्थिता बभूवेत्यन्वयः । अथ कादम्बर्या विशेषणानि - वरेति । वरः श्रेष्ठ आरोहो नितम्बो यस्याः सा । 'नितम्बारोही स्त्रीकट्याः पश्चाजघनपार्श्वतः' इति कोशः । उवविव स्तम्भौ ताभ्यां विधृता धृता । केव । नवः प्रत्यग्रो ग्रहो ग्रहणं यस्या एवंविधा करिणीव हस्तिनीव । सापि उरुर्विस्तीर्णो यः स्तम्भस्तत्र विधृता बद्धा स्यात् । विचेष्टमानानि चेष्टाविशेषणं प्राप्यमाणान्यङ्गानि यस्याः कुसुमशयनस्य -
टिप्प० - 1 गुणः आरोप्यते, न तु कोटिः । अत एव, आरोपितः गुणो ययोः ईदृशीभ्यां कोटिभ्याम् (प्रान्ताभ्याम्) कान्ततरा, इति व्याख्यातव्यम् । 2 दर्शनमनतिक्रम्य यथादर्शनम्, यस्यां यस्यामवस्थायां दृष्टस्ता तामवस्थामित्याशयः । 3 ऊोः स्तम्भेन सात्त्विकभावजातेन निश्चलत्वेन विधृता निस्पन्दा, इत्यर्थः ।
पाटा०-१ कुसुमचापचापलेखाम्. २ कान्ताम्. ३ तारकेण कथय. ४ कथं सम्यक्. ५ निक्षिप्तनानाक्षरम्; निक्षिप्तेन चक्षुषानक्षरम्. ६ वर्धमान.
(444
कादम्बरी।
कथाया:
ܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠ