SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ मधुकरकुलैरिवाच्छाद्यमाना, संभ्रमच्युतोत्तरीयका हारकिरणानुरसि कर्तुमिच्छन्ती, मणिकुट्टिमनिहितेन वामकरतलेन हस्तावलम्बनं निजप्रतिमामिव याचमाना, सस्तकेशकलापसंयमनश्रमितेन गलत्स्वेदसलिलेन दक्षिणकरेण समभ्युक्ष्येवात्मानमर्पयन्ती, चलितत्रिकताम्रत्रिवलीतरङ्गितरोमराजितया निष्पीड्यमानेव सर्वरसाननङ्गेन, अन्तःप्रविष्टललाटिकाचन्दनरसमिश्रमिव चक्षुषा क्षरन्ती शिशिरमानन्दजलम्, आनन्दवारिबिन्दुवेणिकया चलितावतंसधूलिधूसरं प्रियप्रतिमाप्रवेशलोभेनेव कपोलफलकं प्रक्षालयन्ती, ललाटिकाचन्दनभरेणेव किंचिदधोमुखी, तत्क्षणमपाङ्गभागयुजिततारकया तन्मुखलग्नयेव दीर्घया दृष्ट्याकृष्यमाणा कुसुमशयनादुत्तस्थौ । *********** परिमलस्तेनोपनतैः प्राप्तैरत एव परवशैरासमन्तान्मुखरैर्वाचालैरेवंविधर्मधुकरकुलैर्धमरसमूहैराच्छाद्यमानेव । संभ्रमेण सहसा च्युतमुत्तरीयक प्रावरणं वस्त्रं यस्याः सैवंभूता सती हारकिरणानुरसि कर्तुमिच्छन्ती वाञ्छन्ती । एतेन हारकिरणोत्तरीयांशुकयोरतिस्वच्छत्वसाम्या दो न ज्ञात इति भावः । मणिकुट्टिमे निहितेन स्थापितेन वामकरतलेन निजप्रतिमा प्रति हस्तावलम्बनं याचमानेव प्रार्थमानेव । एतेन स्वतः स्वशरीरधारणे न क्षमेति प्रदर्शितम् । सस्तो यः केशकलापोऽलकसमूहस्तस्य संयमनं बन्धनं तेन श्रमितेन श्रमं प्राप्तेन गलत्स्वेदसलिलेन क्षरद्धर्मवारिणा दक्षिणकरेण समभ्युक्ष्य । यस्यकस्यचिदर्पणं क्रियते तत्तु करेण प्रोक्षितस्यैवेत्यर्थः । आत्मानमर्पयन्त्यर्पणं कुर्वन्ती । चलितं यत्त्रिकं वंशाधरस्तस्य ताम्रा स्वच्छा या त्रिवली तया तरङ्गिता रोमराजिस्तस्या भावस्तत्ता तया हेतुभूतयानङ्गेन कंदर्पण सर्वरसानिष्पीड्यमानेव मर्यमानेव । एतेन चलितत्रिकस्य पीडनयन्त्रसाम्यता प्रदर्शिता । किं कुर्वती । चक्षुषा नेत्रेण शिशिरं शीतलमानन्दजलं क्षरन्ती सवन्ती । शिशिरत्वे हेतुं प्रदर्शयन्नाह - अन्तरिति । अन्तःप्रविष्टो यो ललाटिकाचन्दनरसस्तेन मिश्रमिव संपृक्तमिव । पुनः किं कुर्वन्ती । आनन्दवारिणो बिन्दवो विपुषस्तेषां वेणिकया प्रवाहेण । 'धारा वेणी रयश्च सः' इत्यमरः । चलितः स्वस्थानाच्च्युतो योऽवतंसस्तस्य धूलिः परागस्तेन धूसरं मलिनं कपोलफलकं प्रियप्रतिमाप्रवेशलोभेन प्राणप्रियप्रतिबिम्बसंक्रान्तितृष्णयेव प्रक्षालयन्ती धावनं कुर्वन्ती । ललाटिकाया यश्चन्दनभरस्तेनेव किंचिदधोमुख्यवाङ्मुखी, तत्क्षणमपाङ्गभागोऽक्षिबाह्यान्तःप्रदेशस्तत्र युञ्जिता प्रेरिता तारका कनीनिका ययैवंविधया तस्य चन्द्रापीडस्य मुखमाननं तत्र लग्नयेव दीर्घया दृष्ट्याकृष्यमाणाकर्षणं क्रियमाणा । अन्वयस्तु प्रागेवोक्तः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'परवशा' स्तम्भाख्यसात्त्विकभावेन स्वयमुत्थातुमसमर्था । अतएव मधुकरैः उत्थाप्यमानेव, इत्यर्थः । एवं च 'उत्थाप्यमाना' इत्युचितः पाटः । 2 चलितं यत् त्रिक पृष्टवंशस्य अधरास्थि, तेन ताम्यन्ती या त्रिवली (उदरस्थरेखात्रयम्) तया तरङ्गिता रोमराजियस्यास्तद्भावस्तत्ता, तया । 3 युञ्जितेति मलिनीभूतः प्रयोगः, अत एव योजितेति पदयोजना संभाव्यते । तत्क्षणम् (चन्द्रापीडदर्शनक्षणे) अपाङ्गभागे पुजिता (सर्वां शक्ति गृहीत्वा पुञ्जभावेन स्थिता) तारका यस्यामीदृश्या; तन्मुख(चन्द्रापीडमुख)लग्नया अत एव दीर्घया दृष्ट्या (चक्षुषा) आकृष्यमाणेव । दृष्टिस्तन्मुखे दृढसंबद्धा पुनश्च आकृष्यमाणा अत एव सा दीर्घाभूता । पाठा० - १ जालैः. २ उत्थाप्यमाना. ३ उत्तरीयांशुका. ४ वलित. ५ तरङ्गिणी. ६ रसम्; रसमिश्रान्. ७ चक्षुाम्. ८ च चलित; घटित. ९ पुञ्जित. उत्कण्ठिता कादम्बरी पूर्वभागः । 445
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy