________________
चन्द्रापीडस्तु समुपसृत्य पूर्ववदेव तां महाश्वेताप्रणामपुरःसरं दर्शितविनयः प्रणनाम । कृतप्रतिप्रणामायां च तस्या पुनस्तस्मिन्नेव कुसुमशयने उपविष्टायां प्रतीहोर्योपनीतां जाम्बूनदमयीमासन्दिका रोचिष्णुरत्नप्रत्युप्तपादां पादेनैवोत्सार्य क्षितावेवोपाविशत् । अथ केयूरकः 'देवि, देवस्य चन्द्रापीडस्य प्रसादभूमिरेषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनी' इत्यभिधाय पत्रलेखामदर्शयत् । अथ कादम्बरी दृष्ट्वा ताम् 'अहो, मानुषीषु पक्षपातः प्रजापतेः' इति चिन्तयांबभूव । कृतप्रणामां च तां सादरम् ‘एोहि' इत्यभिधायात्मनः समीपं सुकुतूहलपरिजनदृश्यमानां पृष्ठतः समुपावेशयत् । दर्शनादेवोपारूढप्रीत्यतिशया च मुहुर्मुहुरेना सोपग्रहं करकिसलयेन पस्पर्श । चन्द्रापीडस्तु सपदि कृतसकलागमनोचितोपचारस्तदवस्था चित्ररथतनयामालोक्याचिन्तयत् - 'अतिदुर्विदग्धं हि मे हृदयमद्यापि न श्रद्दधाति । भवतु । पृच्छामि तावदेनाम्' इति निपुणालापेनातिप्रकाशमब्रवीत् - 'देवि, जानामि कामरतिं निमित्तीकृत्य प्रवृत्तोऽयम -
***********
तदनन्तरं चन्द्रापीडस्तु समुपसृत्योपसर्पणं कृत्वा पूर्ववदेव महाश्वेताप्रणामपुरःसरं तां कादम्बरी दर्शितविनयः प्रणनाम नमश्चक्रे । तदनन्तरं कृतो विहितः प्रतिप्रणामोऽनुनमस्कारो ययैवंविधायां च तस्यां पुनस्तस्मिन्नेव कुसुमशयन उपविष्टायामासेदुष्यां प्रतीहार्या द्वारपालिकयोपनीतामानीता जाम्बूनदमयीमासन्दिका वेत्रासनम् । 'स्यावेत्रासनमासन्दी' इत्यभिधानकोशः । कीदृशैः । रोचिष्णुरत्नैः प्रत्युप्ताः पादा यस्याः सा तां पादेनैव चरणेनैवोत्सार्य दूरीकृत्य क्षितावेव पृथिव्यामेवोपाविशदुपविष्टः । अथेति । उपवेशनानन्तरं केयूरको हे देवि, देवस्य पूज्यस्य चन्द्रापीडस्य प्रसादभूमिः प्रसन्नताधरित्र्येषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनीत्यभिधायेत्युक्त्वा पत्रलेखामदर्शयद् दृग्विषयतामप्रापयत । अथेति । दृग्विषयीकरणानन्तरं कादम्बरी तां दृष्ट्वा विलोक्य चिन्तयांबभूवेति चिन्तितवती । इतिशब्दद्योत्यमाह - अहो इति । प्रजापतेर्विधातुरहो मानुषीषु पक्षपातोऽङ्गीकारः । कृतः प्रणामो नमस्कारो ययैवं भूता च सादरं सबहुमानं एहि एहि इत्यभिधायात्मनः समीपे स्वकीयनिकटे सह कुतूहलेन वर्तमानो यः परिजनः परिवारजनस्तेन दृश्यमानां विलोक्यमानां पृष्ठतः समुपादेशयनिवेशितवती । अथ दर्शनादेव विलोकनादेवोपारूढः प्रादूर्भूतः प्रीतेरतिशय आधिक्यं यस्यां (स्याः) सा मुहुर्मुहुर्वारंवारमेनां पत्रलेखा सोपग्रह सानुकूलनं करकिसलयेन पाणिपल्लवेन पस्पर्श स्पर्श चकार । चन्द्रापीडस्तु सपदि शीघ्र कृतो विहितः सकलः समग्र आगमनस्यागमने वोचितो योग्य उपचारो विनयो येन स तदवस्था विरहविक्लवां चित्ररथतनयां कादम्बरीमालोक्य वीक्ष्याचिन्तयदध्यायत् । हीति निश्चितम् । मे मम हृदयं चेतोऽतिदुर्विदग्धमतिजडं यदद्यापि न श्रद्दधाति न निश्चयं करोति । इयमीदृश्यवस्था किं कामात्, अन्यप्रियनिमित्ताद्वेति प्रकारान्तरस्यासंभवात् । कामनिमित्तकत्वेऽवगतेऽपि विपरीतसंभावनेति दुर्विदग्धपदव्यङ्ग्यम्, अत एव निश्चयानुरोधेनाह - भवत्विति । कामनिमित्तक एवास्तु, परं तावदादावेनां पृच्छामीति कृत्वा निपुणालापेन नातिप्रकाशं नातिस्पष्टमब्रवीदवोचत् । हे देवि कादम्बरि, अहं जानामि कामनिर्वचनीयस्वरूपामरतिं निमित्ती -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 सस्नेहम् । 2 वस्तुतस्तु 'पृच्छामि तावदेनां निपुणालापेनेति' अचिन्तयदित्यस्य कर्मभूतो वाक्यार्थः । निपुणालापेन चतुरजनोचितालापेन (व्यङ्ग्यार्थपूर्णेनेत्यर्थः) एना पृच्छामीति नायकोऽचिन्तयन्मनसि । तदनन्तरं 'प्रकाशमब्रवीत् इति पाठः । अर्थः स्पष्टः ।
-
-
-
पाटा० - १ समुपविष्टायाम्. २ समुपनीताम्. ३ सकुतूहलं परिजनेन दृश्यमानाम्. ४ मुहुः. ५ इति प्रकाशं वाचम्. ६ जानासि. ७ अविरलसंतापतीव्रः.
प
[446
IV कादम्बरी । N
O
कथायाम्
Mak११५६२६६२५।।