________________
म्बानां च शिरश्छेदलग्नकेशजालकानामिव परशुपट्टिशप्रभृतीनां जीवविशसनशस्त्राणां प्रभाभिर्बद्धबहलान्धकारतया पातालगृहवासिनीमिवोपलक्ष्यमाणाम्, रक्तचन्दनखचितस्फुरत्फलपल्लवकलितैश्च बिल्वपत्रदामभिर्बालकमुण्डप्रालम्बैरिव कृतमण्डनाम्, शोणितताम्रकदम्बस्तबककृतार्चनैश्च पशूपहारपटहपटुरटितरसोल्लसितरोमाञ्चैरिवाङ्गैः क्रूरतामुद्वहन्तीम्, चारुचामीकरपट्टप्रावृतेन च ललाटेन शबरसुन्दरीरचितसिन्दूरतिलकबिन्दुना दाडिमकुसुमकर्णपूरप्रभासेकलोहितायमानकपोलभित्तिना रुधिरताम्बूलारुणिताधरपुटेन भृकुटिकुटिलबभ्रुणा रक्तनयनेन मुखेन कुसुम्भपाटलितदुकूलकलितया च देहलतया महाकालाभिसारिकावेशविभ्रमं बिभ्रतीम्, संपिण्डितनीलगुग्गुलधूपधूमारुणीकृताभिश्च प्रचलन्तीभिर्गर्भगृहदीपिकालताभिर -
***********
वशादाह - शिरश्छेदेति । शिरश्छेदानन्तरं लग्नं केशानां जालक समूहो येष्वेतादृशानामिव प्रभाभिः कान्तिभिर्बद्धो बहलो निबिडो योऽन्धकारस्तस्य भावस्तत्ता तया पातालगृहवासिनीमिवोपलक्ष्यमाणां दृश्यमानाम् । रक्तेति । रक्तचन्दनेन पत्राङ्गेन खचिता व्याप्ताः स्फुरन्तो दीप्यमाना ये फलपल्लवास्यैः (स्तैः) कलितैः सहितैर्बिल्वाः श्रीफलास्तेषां पत्रदामभिः । वर्तृलत्वसाम्यादाह - बालकेति । बालकाः शिशवस्तेषां मुण्डानां शिरसां प्रालम्बैरिव ऋजुलम्बिपुष्पदामभिरिव कृतं मण्डनं यया सा ताम् । स्वाभाविकं तुं कदम्बकेसरं कपिशमत आह - शोणितेति । शोणितेन ताम्रा रक्ता ये कदम्बस्तबका नीपगुच्छकास्तैः कृतमर्चनं पूजनं येषां तैरङ्गैर्हस्तपादादिभिः । शोणितरक्तनीपगुच्छस्य रोमोद्गमसादृश्यं वर्णयन्नाह - पशूपहारेति । पशूनामुपहारे बलिविधाने पटहानां दुन्दुभीनां यत्पटुरटितं स्पष्टशब्दितं तेन यो रसः । श्रोतुरिति शेषः । तेनोल्लसिता उल्लासं प्राप्ता रोमाञ्चा रोमहर्षणानि येषां तैरिव क्रूरता रौद्रतामुदहन्तीं धारयन्तीम् । एतदर्थस्पष्टीकरणाय हेतूनाह - चार्विति । चारुर्मनोहरो यश्चामीकरपट्टः सुवर्णपट्टस्तेन प्रावृतेनाच्छादितेन ललाटेनालीकेन । कीदृशेन । शबरेति । शबरसुन्दरीभिर्भिल्लवनिताभी रचिता विहिताः । सिन्दूरस्य नागजस्य तिलकबिन्दवो यस्मिंस्तत्तेन । तथा मुखेन वदनेन । अथ मुखं विशिनष्टि - दाडिमेति । दाडिमः करकस्तस्य कुसुमं पुष्पं तस्य कर्णपूरं तस्य प्रभा कान्तिस्तस्याः सेकः संपर्कस्तेन लोहितायमाना कपोलभित्तिर्यस्मिंस्तत्तेन । रुधिरेति । रुधिरपानलक्षणं यत्ताम्बूलं तेनारुणितोऽधरपुटो यस्मिंस्तत्तेन । भृकुटीति । भृकुटिभ्रुकुटिस्तया कुटिले वक्र बभ्रुणी यस्मिंस्तत्तेन । रक्तेति । रक्ते लोहिते नयने नेत्रे यस्मिंस्तत्तेन । पुनः कया । देहलतया । सरलत्वाल्लतासाम्यम् । यद्वा एतेन सौकुमार्यातिशयो वर्णितः । कीदृश्या । कुसुम्भेन कमलोत्तरेण पाटलितं श्वेतरक्तीभूतं यहुकूलं क्षौमं तेन कलितया सहितया देहलतया । महाकालो रुद्रस्तस्याभिसारिकाया वेषविभ्रम नेपथ्यविलासं बिभ्रतीं धारयन्तीम् । संपिण्डितेति । संपिण्डितः पुजीकृतो यो नीलगुग्गुलुः पलंकषस्तस्य - टिप्प० - 1 बिल्वपत्राणां मालासु मध्ये मध्ये रक्तचन्दनरञ्जितानि बिल्बफलान्यपि प्रोतानि, अत एवं प्रतीयते यद् बालकमुण्डानां माला परिहिता स्यादित्याशयः । 2 'भूकुटिकुटिलबभ्रुनयनेन' इत्यपि केषाञ्चन विदुषां परम्परारूढः पाठः । भ्रूभङ्गेन कुटिले, बभ्रुणी पिङ्गलवणे च नयने यस्मिन् इति तदर्थः । 3 गुग्गुलु - धूपधूमेन अरुणवर्णीकृता गर्भगृहस्य दीपिकालताः (दीपशिखा वायुवशाल्लम्बाकारा भवन्ति, अत एव लतायिताः ता अङ्गुलय इव दृश्यन्त इत्युत्प्रेक्षा) वायुवशात्कम्पन्ते ताश्चैवमुत्प्रेक्ष्यन्ते यत् शोणितलवलोहिताभिरङ्गलिभिर्वनमहिषं तर्जयतीव भगवती चण्डिका । तर्जन हि कम्पमानाभिरङ्गलिभिर्भवत्येव । दोषश्च वनमहिषस्य - त्रिशुलदण्डे स्व(महिष) कण्ठपीठस्य कण्ड्यनमिति सर्वस्याशयः । नीलस्यापि गुग्गुलुधुपयोधूमस्य दीपिकाभिः संयोगे अरुणवर्णो जायते, संयोगवैचित्र्यात, । चूर्णहरिद्रयोः संयोगे यथाऽरुणवर्णः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० -१ कलापानाम्. २ असिपरशु. ३ बहलबद्ध. ४ पातालगुहा. ५ स्फुरत्फलक. ६ बिल्वदामभिः. ७ कृतमण्डलाम. ८ आताम्र. ९ अविरतपशूपहारपटहपटुरचितरसोत्तम्भितरोमाञ्चैः. १० दाडिमी. ११ भ्रकुटिकुटिलभ्रुणा रक्तनयनेन; भ्रकुटिकुटिलबभ्रुनयनेन. १२ पाटलितमुखदुकूल.
IN
(458
कादम्बरी ।
कथायाम्