________________
तितेनेव प्रतिबिम्बितेनास्तताम्रेण सवित्रान्तरीकृतैः क्षतजप्रवाहैः पिच्छिलीकृताजिराम्, अवलम्बमानदीपैधूमरक्तांशुकेन ग्रथितशिखिगलवॅलयावलिना पिष्टेपाण्डुरितघनघण्टामालाभारिणा त्रापुषसिंहमुखमध्यस्थितस्थूललोहकण्टकं दत्तदन्तदण्डार्गलं गॅलत्पीतनीललोहितर्दर्पणस्फुरितबुद्बुदमालं कपाटपटेंद्वयं दधानेन गर्भगृहद्वारदेशेन दीप्यमानाम्, अन्तःपिण्डिकापीठपातिभिश्च सर्वपशुजीवितैरिव शरणमुपागतैरलेक्तकपटैरविरहितचरणमूलाम्, पतितकृष्णचामरप्रतिबि -
***********
एतेन सिंहबाहुल्यं वर्णितम् । तद्वर्णनाच्च महाविपिनवासित्वं व्यङ्ग्यम् । क्षतजानि रुधिराणि तेषां प्रवाहैरोधैः पिच्छिलीकृतं विजिलीकृतमजिरमङ्गणं यस्याः सा ताम् । कीदृशैः क्षतजप्रवाहैः । प्रतीति । प्रतिबिम्बितेन संक्रान्तेनास्तताम्रेणास्तसमयरक्तेन सवित्री सूर्येणान्तरीकृतैर्व्यवधानीकृतैः । पतनसाम्येनाह - प्रभूतेति । प्रभूतं भूयिष्ठं युद्रुधिरं रक्तं तस्य दर्शनमवलोकनं तेनोद्भूता संजाता या मूर्च्छा तया पतितेनेव सस्तेनेव । गर्भेति । गर्भगृहमपवरकस्तस्य द्वारदेशेन प्रतीहारप्रदेशेन दीप (य) मानां शोभमानाम् । अथ द्वारदेशं विशेषयन्नाह अवलम्बेति । अवलम्बमना ये दीपा गृहमणयस्तेषां धूमै रक्तानि रञ्जितान्यंशुकानि यस्मिन् । एतेन दीपकबाहुल्यं वर्णितम् । अवलम्बमाना दीपा धूमा उत्क्षिप्यमाणकृष्णागुरुसंबन्धिनो रक्तांशुकानि च यस्मिन्निति वा । द्वारदेशातिशयवर्णनमेतत् । ग्रथितेति । ग्रथिता गुम्फिताः शिखिनो मयूरास्तेषां गलवलयानां निगरणकण्टकानामावलयः श्रेणयो यस्मिन्स तेन । पिष्टेति ।
डु
धूसरवर्णा घना निबिडा या घण्टास्तासां माला श्रेणिस्तां बिभर्तीत्येवंशीलेन भारिणा । किं कुर्वता द्वारदेशेन । दधानेन बिभ्रता । किम् । कपाटस्याररस्य पटद्वयम् । तदेव विशिनष्टि - त्रापुषेति । त्रापुषः श्वेतरूप्यनिर्मितो यः सिंहो हर्यक्षस्तस्य मुखमध्यस्थितं स्थूलं लोहकण्टकं यस्मिन् । दत्ता दन्तदण्डस्यार्गला यस्मिन् । गलदिति । गलैन्तः सवन्तः पीतनीललोहिता इति त्रयोपादानं विविधवर्णोपलक्षणम् । तेषां दर्पणेभ्यः स्फुरिता विद्योतिता बुद्बुदाकृतयो द्युतिपुञ्जास्तेषां माला यस्मिन् । पुनः कीदृशम् । अन्तरिति । अलक्तकपटैर्यावकरसरक्तवस्त्रैरविरहितं चरणयोर्मूलं यस्याः सा ताम् । चरणमूलेऽपि रक्तवस्त्राणि शोभातिशयार्थं ध्रियन्ते । तत्र हिंसितपशुजीवितानां रुधिरसंबन्धवशाद्रक्तपटारुण्यसाम्येनोत्प्रेक्षते । अन्तर्मध्यवर्तिनी या पिण्डिका तस्याः पीठं तत्र पातिभिः पतनशीलैः आरुण्यव्यञ्जकमुक्त्वा चरणमूलसंबन्धनियामकमाह - शरणेति । शरणमुपागतैः सर्वपशुजीवितैरिव । रुधिरस्यापि जीवितेन सह गमनादुपमानोपमेयभावः । पतितेति । पतितानि कृष्णचामराणां प्रतिबिम्बानि येष्वेवंविधानां परशुः परश्वधः, पट्टिशः शस्त्रविशेषः, एतत्प्रभृतीनां जीवविशसनशस्त्राणाम् । नीलातिशय
टिप्प० 1 'ताम्रतरीकृतै' रिति रुचिरः पाठः । क्षतजप्रवाहाः पूर्वमेव रक्तवर्णाः, ततस्तु अस्तकालिकसूर्यप्रभया अत्यन्तमरुणीकृता इति तदाशयः । 2 दीपा न अवलम्बन्ते अपि तु वस्त्राणि, तस्मात् अवलम्बमानानि दीपधूमै रञ्जितान्यंशुकानि यस्मिन्निति वक्तव्यम् । 3 पिष्टेन पाण्डुरिताः ( पित्तलघण्टाः ) । 4 घनां घण्टामालां बिभर्ति तच्छीलेन घनघण्टामालभारिणा । 'इष्टकेषीकेत्यनेन' ह्रस्वः । तस्मात् 'मालभारिणा' इत्यपि पाठो युक्तः । 5 'लसत्पीतनीले' त्यादिरेव पाठो युक्तः । लसत्सु संमुखे शोभमानेषु पीतनील- लोहितवर्णेषु दर्पणेषु स्फुरिता ( प्रतिबिम्बिता ) बुबुदमाला बुबुदसमानाकारलोहशङ्कु श्रेणिर्यस्मिन् तत् । कपाटद्वये ये लोहकीलका जाटितास्ते 'जगन्मोहन' (निजमन्दिरस्याग्रभागः) स्थदर्पणेषु प्रतिविम्बिता इत्याशयः । 6 वेदिः तत्र यत्पीठम् मूर्तिस्थापनाय सिंहासनम् । 7 कृष्णानां चामराणां तेषु प्रतिबिम्बः पतितः, अत एव शिरश्छेदे सति लग्नं केशजालं येषु ईदृशानि दृश्यन्ते शस्त्राणि ।
पाटा० - १ ताम्रतरीकृतै २ क्षतजजल ३ दीपधूपधूसर. ४ वलयाबलम्बिना. ५ पिष्टपिण्डपाण्डुरित. ६ मालाधारिणा; मालभारिणा. ७ लोहकण्टकदत्तदन्तदण्डार्गलगलत्पीत. ८ लसत्. ९ तर्पण. १० पट्टा; पट्टक. ११ पट्ट. १२ अलक्तकपुटैः, अलक्तकरसरक्त पटैः.
चण्डिकावर्णनम्
पूर्वभागः ।
457