________________
अहं तु यत्सत्यमविदितवृत्तान्यतया हीतेव भीतेव विलक्षेव विसंज्ञेव सविषादं विज्ञापितवती - 'देवि, श्रोतुमिच्छामि । आज्ञापय किं कृतं देवेन चन्द्रापीडेन ? को वापराधः समजनि ? केन वा खल्वविनयेन खेदितमखेदनीयं देव्याः कुमुदकोमलं मनः ? श्रुत्वा प्रथममुत्सृष्टजीवितायां मयि पश्चात्समुत्सष्यसि जीवितम्' इति । एवमभिहिता च पुनरवदत् - 'आवेदयामि ते । अवहिता श्रृणु । स्वप्नेषु प्रतिदिवसमागत्यागत्य मे रहस्यसदेशेषु निपुणधूर्तः पञ्जरशुकसारिका दूतीः करोति । सुप्तायाः श्रवणदन्तपत्रोदरेषु व्यर्थमनोरथमोहितमानसः संकेतस्थानानि लिखति । स्वेदप्रक्षालिताक्षरानपि निपतितसाञ्जनाश्रुबिन्दुपङ्क्तिकथितात्मावस्थानान्मनोहरान्समोहाशानुवर्तिनो मदलेखान्प्रेषयति । निजानुरागेण बलादरञ्जयदलक्त -
***********
अहं तु यत्त्वं वदसि तत्सत्यमवितथमविदितवृत्तान्ततया ह्रीतेव लज्जितेव, भीतेव त्रस्तेव, विलक्षेवं वीक्षापनेव, विसंज्ञेव विगतचेतनेव, सविषादं यथा स्यात्तथा विज्ञापितवती । हे देवि कादम्बरि, श्रोतुं श्रवणविषयीकर्तुमिच्छाम्यभिलषामि । आज्ञापय प्रतिपादय । देवेन चन्द्रापीडेन किं कृतं किं विहितम् । को वापराध आगः समजनि समभूत् । खलु निश्चितम् । केन वाऽविनयेन देव्याः कादम्बर्या अखेदनीयं कुमुदवत्कोमलं सुकुमारं मनः खेदितं खेदं प्रापितम् । एतच्छ्रुत्वाकर्णाहं प्रथममुत्सृष्टजीवितायां त्यक्तप्राणितायां मयि सत्यां पश्चात्तदनन्तरं जीवितं त्वं समुत्सक्ष्यसि त्यक्ष्यसि । इत्येवं मयाभिहिता कथिता पुनर्भूयोऽवददवोचत् । आवेदयामि कथयामि ते तव । अवहिता दत्तावधाना त्वं श्रृण्वाकर्णय । स्वस्यैव विरहावस्थाविलासान्कुमाराध्यासवशात्तदनुबन्धित्वेन स्वप्नेषु पश्यन्नाह - स्वप्नेष्विति । स्वप्नेषु प्रतिदिवसं प्रत्यहमागत्यागत्य निपुणो धूर्तो मे मम रहस्यसदेशेषूपांशुसंदिष्टेषु । तत्र च कुमाराध्यासवशाच्छुकसारिकानां शब्दमधिकृत्याह - पञ्जरेति । पञ्जरस्थाः शुकाः कीराः सारिकाः पीतपादा दूतीः करोति । तन्मुखेनैव संदिष्टसदेशान्कथापयतीत्यर्थः । श्रवणदन्तपत्रयोर्मुद्रारेखामधिकृत्याह - सुप्ताया इति । सुप्तायाः श्रवणदन्तपत्राणामुदरेषु व्यर्थः संगमविषयो यो मनोरथोऽभिलाषस्तेन मोहितं मानसं यस्य सः । संकेतस्थानानि लिखति लिपीकरोति । कपोलयोः पत्रवल्लीलेखामधिकृत्याह - स्वेदेति । स्वेदेन धर्मवारिणा प्रक्षालितानि धौतानि अक्षराणि येषु तान् । निपतितेति । निपतिता ये साञ्जना अश्रुबिन्दवस्तेषां पङ्क्त्या कथितमात्मावस्थानं येषु तान्मनोहरान्संमोहानुवर्तिनः संमोहकारिणो मदनलेखान्प्रेषयति प्रेषणं करोति । स्वाभाविकचरणयोरारुण्यमधिकृत्याह - निजेति । निजानुरागेण बलाद्धठादा लक्तकरसेनेवाशुष्कयावकद्रवेणेव चरणावरञ्जयत् । नखानां स्वच्छतां व्यञ्जयस्तेषु -
- - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'अविदितवृत्तान्ततया सत्यम् (निश्चितम्) लज्जितेव अहम्' इत्यर्थो न तु यत्त्वं वदसि तत्सत्यम् । 2 लज्जावशात्किंकर्तव्यविमूढेव । 3 'पश्यन्त्याह' इति मन्ये स्यात् । 4 श्रवणस्थे ये दन्तपत्रे (गजदन्तनिर्मितपत्राकारावलंकारौ) तयोः । 5 स्वेदेन अक्षराणि प्रक्षालितानि, तथापि विरहजातरोदनेन या साञ्जना अश्रुबिन्दुपङ्क्तिस्तया कथिता (सूचिता) आत्मावस्था (कामार्तदशा) येषु तान्, संमोहेन (चित्तभ्रमेण) या मत्संगमस्याऽऽशा तदनुसारिणः मदनलेखान् (प्रेमपत्राणि) प्रेषयतीत्यर्थः । 6 'निजानुरागेणेव बलाद्रजयत्यलक्तकरसेन चरणौ' इत्युचितः पाठः । सर्वत्र वर्तमानकालेनैव निर्देशात् । निजानु-रागवत् रक्तेन यावकेन इति तदर्थः ।
पाठा० - १ प्रतिदिनम्. २ निपुणो धूर्तः. ३ पञ्जरशुकं सारिकां च दूतीकरोति. ४ अश्रुबद्धः. ५ आत्मावस्थानम्. ६ निजानुरागेणेव. ७ रञ्जयन्; रञ्जयति.
(474
कादम्बरी।
कथायाम