________________
कथयामि परिभवम् । केन वान्येन सह साधारणीकरोमि दुःखम् । दुःखभारमिममसह्यं निवेद्य भवत्यास्त्यक्ष्यामि जीवितम् । जीवितेनैव शपामि ते । स्वहृदयेनापि विदितवृत्तान्तेनामुना जिहेमि, किमुतापरहृदयेन । कथमिव मादृशी रजनिकरकिरणावदातं कौलीनेन कुलं कलङ्कयिष्यति । कुलक्रमागतां च लज्जां परित्यक्ष्यति । अकन्यकोचिते वा चापले चेतः प्रवर्तयिष्यति । साहं न संकल्पिता पित्रा, न दत्ता मात्रा, नानुमोदिता गुरुभिः, न किंचित्संदिशामि, न किंचित्प्रेषयामि, नाकारं दर्शयामि । कातरा चानाव बलादवलिप्तेन गुरुगर्हणीयतां नीता कुमारेण चन्द्रापीडेन । कथय महतां किमयमाचारः ? किं परिचयस्येदं फलम् ? यदेवमभिनवबिसकिसलयतन्तुसुकुमारं मे मनः परिभूयते । अपरिभवनीयो हि कुमारिकाजनो यूनाम् । प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । आदौ विनयादिक कुसुमेषुशराः खण्डयन्ति, पश्चान्मर्माणि । तदामन्त्रये भवतीं पुनर्जन्मान्तरसमागमाय । नहि मे त्वत्तोऽन्या प्रियतरा । प्राणपरित्यागप्रायश्चित्ताचरणेन प्रक्षालयाम्यात्मनः कलङ्कम् ।' इत्यभिधाय तूष्णीमभूत् ।
***********
न्यस्य कस्य वा परिभवं कथयामि निवेदयामि । केन वान्येन सह दुःखं साधारणीकरोमि । असह्यं सोढुमशक्यमिमं दुःखभारं भवत्या निवेद्य कथयित्वा जीवितं त्यक्ष्यामि दूरीकरिष्यामि । ते तव पुरस्ताज्जीवितेनैव शपामि शपथं करोमि । एतस्मादधिकः कोऽपि शपथो नास्तीति भावः । विदितवृत्तान्तेव ज्ञातस्वरूपेणामुना स्वहृदयेनापि जिहेमि लज्जां प्राप्नोमि । किमुतापरहृदयेन भण्यते । मादृशी स्त्री कथमिव रजनिकरश्चन्द्रस्तस्य किरणा गभस्तयस्तद्वदवदातं निर्मलं कुलं वंशः (तम्)कौलीनेन जनापवादेन कलङ्कयिष्यति मलिनयिष्यति । कुलक्रमागतां परम्परायातां च लज्जा त्रपा परित्यक्ष्यति परिहरिष्यति । अथवाऽकन्यकोचिते कन्यकाजनस्यानुचितेऽयोग्ये वा चापले चपलतायां चेतः प्रवर्तयिष्यति प्रवृत्तिं कारयिष्यति । साहं कादम्बरी न संकल्पिता पित्रा जनकेनोद्वाहार्थं न कस्यचित्संकल्पविषयीकृता । तथा न मात्राम्बया दत्तार्पिता । इदं सुष्टु कृतमित्येवंप्रकारेण गुरुभिर्वृद्धैः नानुमोदिता । न किंचित्संदिशामि कथयामि । न किंचितोषयामि प्रेषणं करोमि । नाकारं देहविकृतिं दर्शयामि प्रकटयामि । कातरा चानाथेवाहं बलाद्धठेनावलिप्तेन दर्पितेन कुमारेण चन्द्रापीडेन गुरुर्गुर्वी या गर्हणीयता निन्यता तां नीता प्रापिता । त्वं कथय निवेदय, महतां सत्पुरुषाणाम् । किमिति प्रश्ने । अयमाचारः कुलक्रमागतव्यवहारः ? किं वा परिचयस्य संस्तवस्येदं फलम्, यदेवप्रकारेणाभिनवो यो बिसकिसलयस्य तन्तुस्तद्वत्सुकुमारं कोमलं मे मम मनोऽनेन परिभूयते पराभवविषयीक्रियते । हि यस्मात्कारणात्कुमारिकाजनोऽपरिभवनीयो यूनां पराभवितुं न योग्यः । प्रायेणेति । प्रायेण बाहुल्येन प्रथमं मदनानलो लज्जा त्रपां दहति भस्मीकरोति । ततो हृदयं चेतो दहति । तथा कुसुमेषुः कंदर्पस्तस्य शरा आदौ प्रथमं विनयादिक खण्डयन्ति शकलीकुर्वन्ति । पश्चान्मर्माणि मर्मस्थानानि खण्डयन्ति । तदहं पुनर्जन्मान्तरे यः समागमः संबन्धस्तदर्थं भवतीमामन्त्रये आमन्त्रणं कुर्वे । मर्मविच्छेदेऽवश्यमरणसंभवादिति भावः । अत्रार्थे हेतुं प्रदर्शयन्नाह - न हीति । नहि मे मम त्वत्तोऽन्या प्रियतरा वल्लभतरा । प्राणपरित्यागलक्षणं यत्प्रायश्चित्तं तदाचरणेन तदासेवनेनात्मनः स्वस्य कलङ्क प्रक्षालयामि पवित्रीकरोमि । इत्यभिधायेत्युक्त्वा तूष्णीमभूत् । मौनं चकारेत्यर्थः ।
- - - - - - - - - टिप्प० - 1 गुरुभिर्महद्भिर्गर्हणीयतामित्यर्थ उचितः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ असह्यमय. २ कालीनेन. ३ अन्यकन्यकोचिते; अन्यकन्यकाजनोचिते. ४ सा चाहमसंकल्पिता मात्रा पित्रा न दत्ता. ५ कातरेव; इतरेव. ६ अनाथेव नीचेव. ७ अवलिप्तेव. ८ गुर्वी गर्हणीयताम्. ९ अनभिभवनीयः; परिभवनीयः.
(पत्रलेखातः कादम्बरीवृत्तश्रवणम् ।
पूर्वभागः ।
473