________________
कोपलभ्यमानकलुषस्वल्पसलिलाभिः शुष्कगिरिनदिकाभिर्विषमीकृतान्तरालया, कुक्कुटकुलकौलेयकरटितानुमीयमानगुल्मगहनग्रामटिकया, शून्यया दिवसमटव्या गत्वा, पेरिणतरविबिम्बे बिम्बारुणातपविसरे वासरे, निः शाखीकृतकदम्ब - शाल्मलीपलाशबहुलैः शिखरशेषैकपल्लवविडम्बितातपत्रैः पादपैरूर्ध्वस्थितप्ररोहस्थूलस्थाणुमूलग्रन्थिजटिलैश्च हरितालकपिलपक्ववेणुविटैपरचितवृतिभिर्मृगभयकृततृणपुरुषकैर्विपाकपाण्डुभिः फैलिनैः प्रियङ्गुप्रायैरटवीक्षेत्रैर्विरलीकृतवनप्रदेशे चित्रप्ररूढस्य रक्तचन्दनतरोरुपरि बद्धम्, सरसपिशितपिण्डनिभैरलक्तकैरभिनवशोणितारुणेन रक्तचन्दनरसेन चार्द्रम्, जिह्वालतालोहिनी भी रक्तपताकाभिः केशकलापकान्तिना च कृष्णचामरावचूलेन प्रत्यग्रविशसितानां जीवानामिवावयवैरुपचितदण्डमण्डनम्, -
***********
मलिनं स्वल्पं स्तोकं सलिलं जलं यासु ताभिः । कुक्कुटेति । कुक्कुटकुलं ताम्रचूडवंशः, कौलेयकाः श्वानः तेषां रटितं शब्दितं तेनानुमीयमाना संभाव्यमाना गुल्मगहने ग्रामटिका क्षुद्रग्रामो यस्यां सा तया । अथ वासरं विशिनष्टि - बिम्बेति । बिम्बसंबन्धि योऽरुणो रक्त आतपः सूर्यालोकस्तस्य विसरः समूहो यस्मिन् । 'समुदायराशिविसखाताः कलापो व्रजः' इति कोशः । तथैवंविधैः पादपैरटवीक्षेत्रैश्च विरलीकृतोऽनिबिडीकृतो यो वनप्रदेशो वनैकदेशस्तस्मिन् । अथ पादपान्विशिनष्टि - निःशाखीति । निःशाखीकृता निःशालीकृताः । वनेचरैरिति शेषः । एवंविधाः कदम्बा नीपाः शाल्मल्यो वृक्षविशेषाः, पलाशा ब्रह्मपादपा बहुला बाहुल्येन येषु तैः । अनेन सरलत्वाद्दण्डरूपत्वं सूचितम् । शिखरेति । शिखरं वृक्षाग्रं तत्र शेषोऽवैशिष्ट एकः पल्लवः किसलयं तेन विडम्बितान्यातपत्राणि छत्राणि यैः । अथ क्षेत्राणि विशेषयन्नाह - ऊर्ध्वेति । ऊर्ध्वस्थिताः प्ररोहा नवीनाङ्कुरौः स्थूलाः स्थाणवः शङ्कवश्च तेषां मूलग्रन्थिभिरङ्घ्रिग्रन्थिभिर्जटिलैर्व्याप्तैः । हरितालं नटमण्डनं तद्वत्कपिलाः पिङ्गला ये पक्ववेणुविपाः परिणतवंशवृक्षास्तेषां रचिता वृतिः सुगहना येषां तैः । मृगेति ! मृगा हरिणास्तेभ्यो भयं भीतिस्तस्मात्कृतास्तृणपुरुषाश्चञ्चापुरुषा येषु तैः । विपाकेति । विपाकेन परिणत्या पाण्डुभिः पाण्डुरैः । फालनः फलवद्भिः । ‘फलवान्फलिनः फली' इति कोशः । प्रियङ्गुः श्यामा प्रायो बाहुल्येन येषु तैः । सरसेति । सरसोऽशुष्को यः पिशितपिण्डा मांसपिण्डस्तस्य निभैः सदृशैरलक्तकैर्यावकैः । तथाभिनवं प्रत्यग्रं यच्छोणितं रक्तं तद्वदरुणेन लोहितेन रक्तचन्दनं पत्राङ्गं तस्य रसेन चार्यं समुन्नम् । जिह्वेति । जिह्वा एंव लता तद्बल्लोहिनी भी रक्ताभी रक्तापताकाभिर्लोहितवैजयन्तीभिः । केशेति । केशकलापवत्कान्तिर्यस्यैवंभूतेन कृष्णचामरस्य श्यामवालव्यजनस्यावचूलेनाधोमुखकूर्चकेन, प्रत्यग्रं तत्कालं विशसितानां हतानां जीवानामवयवैरपघनैरिवोर्ष
I
टिप्प० - 1 वासरे, बिम्बफलवत् अरुण आतपविसरो यस्मिन् एवंविधे सति । 2 शेषा एकैके (अर्थात् विरलीभूताः, गुच्छकीभूताः ) ये पल्लवाः तैर्विडम्बितानि । कदम्बादीनामेकपत्रेणातपत्रत्वं न सिध्यति । 3 ऊर्ध्वस्थिता नवीनाङ्कुरा येषां ते तादृशा ये स्थूलाः स्थाणवः निःशाखास्तरुस्तम्बाः तेषां मूलग्रथिभिः । 4 शाखाः । 5 तेषां भयाय (मृगाः रक्षापुरुषवान् ज्ञात्वा भयेन नागच्छेयुरिति ) । 6 जिह्वा लता इव तद्वल्लोहिनीभिरिती उपमितसमास एवोचितः, जिह्वाप्राधान्ये एव तासां लोहितत्वं वक्तुं शक्यम् । 7 जीवानामवयवैः उपरचितं दण्डस्य (केतुदण्डस्य) मण्डनं भूषणं यस्य तमिव, इत्येवम् 'इव' शब्दस्यान्चयो योग्यः, पताकानां जिह्वातुल्यत्वात् कृष्णचामरस्य केशसदृशत्वादित्याशयः ।
पाठा० - १ ग्रामया; ग्रामटिकया. २ परिणते रविबिम्बे ३ संध्यारुणा. ४ निः शाखीकृतैः ५ ऊर्ध्वकृतप्ररोहस्थूलस्थितस्थाणुमूलग्रन्थिजटिलैः; अर्धोद्धृतप्ररोहन्मूलस्थूलस्थाणुग्रन्थिजटिलैः ६ बिटपिदलरचित; विटपदलविरचित; विटपपटलरचित. ७ फलितैः ८ दूरत एवाचिरप्ररूढस्य ९ रक्तचन्दनस्य तरोः १० आर्द्रजिह्वा.
454
कादम्बरी |
कथायाम्