________________
पतिपातितपादपपरिहारवक्रीकृतमार्गया, जनजनिततृणपर्णकाष्ठकोटिकूटप्रकटितवीरंपुरुषघातस्थानया, महापादपमूलोत्कीर्णकान्तारदुर्गया, तृषितपथिकखण्डितदलोज्झितामलकीफलनिकरया, विकसितकैरञ्जमञ्जरीरजोविच्छुरिततटैस्तट
तरूबद्धपर्टेंच्चरकर्पटध्वजचिह्नैरिष्टिकास्थित शुष्कपल्लवविष्टरानुमितपथिकविश्रामैर्विश्रान्तकार्पटिर्कंविस्फोटितधूलिधूसरकिसलयलाञ्छितोपकण्ठैः पत्रसंकरासुरभीकृताशिशिरपङ्किलविवर्णास्वादुजलैर्व्रततिग्रन्थिग्रथितपर्णपुटतृणपूली
चिह्नानुमेयैर्जरत्कान्तारकूपैरसुलभसलिलतयानभिलषितोद्देशया, मधुबिन्दुस्यन्दिसिन्दुवारवनराजिरजोधूसरिततीराभिश्च कुञ्जकलताजालकैर्जटिलीकृतसैकताभिरध्वगोत्खातवालुकाकूप -
***********
यस्यां सा तया । जनेनेति । जनेन लोकेन जनितं निष्पादितं यत्तृणं पर्णकाष्ठानां कोटी तस्याः कूटं शिखरं तादृशचिह्नेन प्रकटितं वीरपुरुषाणां घातस्थानं यस्यां सा तया । सांप्रतमपि तथा कुर्वन्तीति सर्वलोके प्रसिद्धम् । महेति । महापादपानामुच्चैस्तरवृक्षाणां मूलीनि प्रसिद्धान्युत्कीर्णानि यस्मिन्नेवंभूतं कान्तारं वनं तदेव विषमत्वाद्दुर्गं यस्यां सा तया । कान्तारं विशेषरूपम्, अटवी तु सामान्यरूपेति न पुनरुक्तदोषः । तृषितेति । तृषिताः पिपासिता ये पथिकजनास्तैः खण्डितानि द्वैधीकृतानि दलानि पत्राणि येषामेवंविधान्युज्झितानि रसास्वादानन्तरं त्यक्तान्यामलकीफलानि तेषां निकरः समूहो यस्यां सा तया । जरमिति । जरन्तो जीर्णा ये कान्तारकूपास्तैः कृत्वा न सुलभं सलिलं जलं यस्यां तस्या भावस्तत्ता तयानभिलषितो नेप्सितः । पान्थेनेति शेषः । उद्देशः प्रदेशो यस्याः सा तया । अथ कान्तारकूपान्विशिनष्टि - विकसितेति । विकसिता विनिद्रा ये करञ्जा नक्तमालास्तेषां मञ्जर्यस्तासां रजोभिः परागैर्विच्छुरितानि धूसरितानि तटानि कूपोपकण्ठा येषां तैः । तटेति । तटतरुषु कूपोपकण्ठसमुद्भववृक्षेषु बद्धाः पटैच्चरैश्चोरैः कर्पटध्वजः स एव कूपाभिव्यञ्जकं चिह्नं येषां तैः । इष्टिकेति । इष्टिकाः स्थिता येषु, शुष्कपल्लवविष्टराः संस्तारकास्तैरनुमिताः पथिकानां विश्रामा येषु तैः । विश्रान्तेति । विश्रान्ताः स्थिता ये कार्पटिकास्तैर्विस्फोटिता दूरीकृता या धूली रजस्तया धूसराणि मलिनानि किसलयानि पल्लवास्तैर्लाञ्छितश्चिह्नित उपकण्ठो येषां तैः । पत्रेति । पत्रसंकरैः पर्णसमूहैरसुरभीकृतान्यत एवाशिशिराण्यशीतलानि पङ्किलानि कर्दमयुक्तानि विवर्णान्यशुभवर्णान्यस्वादूनि स्वादु (द) रहितानि जलानि येषां तैः । व्रततीति । व्रततीनां वल्लीनां ग्रन्थिभिर्ग्रथिताः पर्णपुटर्युक्तास्तृणपूल्यस्ता एव चिह्नानि तैरनुमातुं योग्यैः । शुष्केति । शुष्का गिरीणां नद्य एव नदिकाः । स्वार्थे कः । 'केऽणः' इति ह्रस्वः । ताभिर्विषमीकृतं स्थपुटीकृतमन्तरालं मध्यं यस्याः सा तया । अथ नदिका विशेषयन्नाह - मध्विति । मधुबिन्दुस्यन्दीनि यानि सिन्दुवारवनानि निर्गुण्डीकाननानि तेषां राजिः पङ्क्तिस्तस्या रजः परागस्तेन धूसरितानि तीराणि तटानि यासां ताभिः । कुञ्जकेति । कुञ्जकलताः प्रसिद्धास्तासां जालकैर्जटिलीकृतानि सैकतानि जलोज्झितपुलिनानि यासां ताभिः । अध्वगैरिति । अध्वगैः पथिकैरुत्खाताः खनिता वालुकासु कूपका विदारकास्तेषूपलभ्यमानं प्राप्यमाणं कलुषं -
I
टिप्प० - 1 तृण-पर्ण-काष्ठानां कोटिसंख्यका ये कूटाः तैः प्रकटितं वीरपुरुषाणामपि घातस्थानं यस्यां सा । वीरायिता अपि पान्थजनाः हिंसजन्तुभ्यो निजरक्षणार्थं तृणकाष्ठादीनां कूटं कृत्वा तन्मध्ये प्रविश्य निशि निवसन्तीति भयङ्करत्वं सूच्यते । 2 'मूलेषु उत्कीर्णाः निस्तक्ष्य निर्मिताः कान्तारदुर्गा वनदुर्गामूर्तयो यस्याम्' इति केचित् । 3 बद्धा ये पटच्चराणां जीर्णवस्त्राणां कर्पटा वस्त्रखण्डास्त एव ध्वजचिह्नं येषामित्यर्थः । 'पटच्चरं जीर्णवस्त्र' मित्यमरः । 4 इष्टकासु स्थिता ये शुष्कपल्लवानां विष्टराः (उपवेशनार्थमास्तरणानि ) तैः अनुमिताः । 5 तृषिताः पथिका रज्ज्याः पात्रस्य चाभावे, तृणैर्गुरुभारां पूलीं निर्माय तत्र च पत्रपुटकं दृढमाधाय दीर्घलताभिर्बद्ध्वा पत्रपुटकैर्जलमुदञ्चन्तीति युक्तिः । 6 उच्चावचीकृतम्, प्रावृड्जलप्रवाहे तलदेशो नतोन्नतो भवतीत्यर्थः । 7 क्षुद्रकुञ्जरूपेण जटिलीभूता लताः ।
पाठा० - १ पथया. २ वीरपुरुषहृदयघात. ३ कपिकच्छूच्छुरितमञ्जरी. ४ जरत्कर्पट. ५ इष्टकास्थित, इष्टकचित. ६ प्रस्फोटितचरण; प्रस्फुटित. ७ तृणपुली; तृणोलुपपुलाक... ८ अनुमितप्रमेयैः ९ कुब्जक.
(मार्गे शून्याटवी
पूर्वभागः ।
453