________________
'परिणतवराटकघटितबुद्बुदार्धचन्द्रखण्डखचितम् सुतमहिषरक्षणावतीर्णदिनकरावतारितशशिनेव विराजितशिखरम्, दोलायितश्रृङ्गसङ्गिलोहश्रृङ्खलावलम्बमानघर्घररवघोरघण्टया च घटितकेसरिसटारुंचिरचामरया काञ्चनत्रिशूलिकया लिखितनभस्तलम्, इतस्ततः पथिकपुरुषोपहारमार्गमिवालोकयन्तम्, महान्तं रक्तध्वजं दूरत एव ददर्श ।
तदभिमुखश्च किंचिदध्वानं गत्वा केतकीसूचिखण्डपाण्डुरेण वनद्विरददन्तर्केवाटेन परिवृताम्, लोहतोरणेन नवारक्तचामरावलिपरिकरां कालायसदर्पणमण्डलमालां शबरमुखमालामिव कपिलकेशभीषणां बिभ्राणेन सनाथीकृततद्वारदेशाम्, अभिमुखप्रतिष्ठितेन च विनिहितरक्तचन्दनहस्तकतया रुधिरारुणयमकरतलास्फालितेनेव शोर्णितनवलोभलोलशिवाविलि -
***
चितो व्याप्तो यो दण्डः स एव मण्डनं यस्य स तम् । परीति । परिणताः पक्वा ये वराटकाः कपर्दकास्तेषां (तैः) घटिता निर्मिता ये बुद्बुदाः स्थासका अर्धचन्द्राकृतिखण्डाश्च तैः खचितं व्याप्तम् । वर्तुलत्ववक्रत्वसाम्यादुत्प्रेक्षते - सुतेति । सुतो यमस्तस्य महिषो रक्ताक्षस्तस्य रक्षणं त्राणं तदर्थमवतीर्णो यो दिनकरः सूर्यस्तेनावतारितो यः शशी तेनेव विराजितं शोभितं शिखरमग्रभागो यस्य स तम् । दोलेति । दोलायिता या शृङ्गसङ्गिनी लोहश्रृङ्खला तत्रावलम्बमाना घर्घररवा काहलस्वरा घोरा भीषणा घण्टा यस्यां सा तया । घटितेति । घटिता या केसरिसटा तदुचिराणि मनोहराणि चामराणि यस्यामेवंविधया काञ्चनत्रिशूलिकया लिखितं नभस्तलं येन स तम् । इतस्तत इति । इतस्ततः पथिकपुरुषाणामध्वनीनपुंसामुपहारमार्गमिव बलिपन्थानमिवालोकयन्तं पश्यन्तम् । अन्वयस्तु प्रागेवोक्तः ।
I
तदिति । तस्याभिमुखस्तत्संमुखः किंचिदध्वानं मार्गं गत्वाऽकारणक्रोधादयो द्रविडधर्मास्तद्वता जरीयसा पुरुषेणाधिष्ठितामाश्रितां चण्डिकामपश्यदित्यन्वयः । अथ चण्डिकां विशिनष्टि - केतकीति । केतक्या या सूचिस्त्रिपत्रकम् । 'त्रिपत्रकः सूचिरित्यभिधीयते' इत्यमरः । तस्य खण्डास्तद्वत्पाण्डुरेण शुभ्रेण, वनद्विरदा अरण्यहस्तिनस्तेषां दन्ता रदनास्तेषां कपाटेन लोकभाषया कटहरेण दन्तनिर्मितकपाटेन वा चतुर्दिक्षु परिवृताम् । आवृतामित्यर्थः । लोहिते । लोहमयं यत्तोरणं तेन सनाथीकृतो द्वारदेशो यस्यास्ताम् । किं कुर्वता तोरणेन । बिभ्राणेन दधता । काम् । कालायसं लोहविशेषस्तस्य यानि दर्पणमण्डलानि तन्मयी या माला वन्दनमाला ताम् । कीदृशम् । नवेति । नवानि यान्यारक्तचामराणि तेषामावलिः पङ्क्तिः सैव परिकरो यस्याम् । अत्र कालायसदर्पणस्यातिश्यामत्वाच्चामरस्यातिरक्तत्वाच्च तत्साम्येनोत्प्रेक्षते - शबरेति । कपिलकेशभीषणां शबरमुखमालामिव । तेषां तु मुखानि श्यामानि, केशाश्च पिङ्गाः । अत उपमानोपमेयसाम्यम् । अभीति । अभिमुखं संमुखम् । चण्डिकाया इति शेषः । प्रतिष्ठितेन स्थापितेन लोहमहिषेणाध्यासिताश्रिताञ्जनशिलावेदिका यस्याः सा ताम् । विनीति । विनिहिता दत्ता ये रक्तचन्दनहस्तकास्तेषां भावस्तत्ता तया रुधिरेणारुणं यद्यमकरतलं युग्मपाणितलं तेनास्फालितेनेव, लोचनयोरतिलौहित्यवशाद्रुधिरभ्रमेणाह - शोणितेति । शोणितस्य रुधिरस्य नवः प्रत्यग्रो लोभस्तेन लोला या शिवा जम्बुकप्रिया तया -
टिप्प० - 1 वस्तुतस्तु बुद्बुदवत् ( बुद्बुदसमानः पीनो मध्यभागो यस्य) यः अर्धचन्द्रखण्डः (अर्धचन्द्राकारं भूषणम्) तेन खचितम् । चन्द्रखण्डे एकत्वमेवोचितं यतो ह्यग्रे उत्प्रेक्षते - सुतमहिषस्य रक्षणार्थमवतीर्णेन दिनकरेण स्वसहचरश्चन्द्रोप्यवतारित इति । चण्डिकागृहे प्रत्यहं पशुबलयो दीयन्ते तदर्थं यमः संनिहितः । एवं बलिव्याकुलतायां पशुबुद्ध्या मा केनचित् यममहिषो विहन्यतामिति सुतस्नेहेन सूर्योऽवतीर्ण इत्युप्रेक्षाशयः । 2 त्रिशूलिकाया एव एकं श्रृङ्गम् तद्वद्धा । 3 घटितं संयोजितं केसरिसटावत् चामरं यत्र तया । मौलिकलशलम्बिते त्रिशूले चामरोपि लम्ब्यते । 4 'शोणितलवलोभ' इत्येव कवेरभीष्टः पाठः । शोणितलव (लेश) स्य लोभ इति तदर्थः ।
पाठा० - १ परिणद्ध; हाटकघटितबुद्बुद्पुटार्धचन्द्र. २ लोहश्रृङ्खलमाला. ३ केतकीसूचितखण्डपाण्डुना च. ४ कपाटेन. ५ रुक्तचन्दननिहित. ६ शोणितलवलोभ; शोणितलोभ. ७ शिवालिह्यमान.
रक्तध्वजस्य दर्शनम्
पूर्वभागः ।
455