________________
इति मुहुः कपिञ्जलस्य पादयोरपतम्, मुहुश्च तरलिकां कण्ठे गृहीत्वा प्रारुदम् । अद्यापि चिन्तयन्ती न जानामि तस्मिन्काले कुतस्तान्यचिन्तितान्यशिक्षितान्यनुपदिष्टान्यदृष्टपूर्वाणि मे हतपुण्यायाः कृपणानि चाटुसहस्राणि प्रादुरभवन्, कुतस्ते संलापाः, कुतस्तान्यतिकरुणानि वैक्लव्यरुदितानि । अन्य एव स प्रकारः । प्रलयोर्मय इवोदतिष्ठन्नन्तर्बाष्पवेगानाम्, जलयन्त्राणीवामुच्यन्ताश्रुप्रवाहाणाम्, प्ररोहा इव निरगच्छन्प्रलापानाम्, शिखरशतानीवावर्धन्त दुःखानाम्, प्रसूतय इवोदपाद्यन्त मूर्च्छानाम्' ।
इत्येवमात्मवृत्तान्तं निवेर्देयन्त्या एव तस्याः समतिक्रान्तं कथमप्यतिकष्टमवस्थान्तरमनुभवन्त्या इव चेतनां जहार मूर्च्छा । मूर्च्छावेगान्निष्पतन्तीं च शिलातले तां ससंभ्रमं प्रसारितकरः परिजन इव जातपीडश्चन्द्रापीडो विधृतवान् । अश्रुजलार्द्रेण च तदीयेनैवोत्तरीयवल्कलप्रान्तेन शनैः शनैर्वीजयन्संज्ञां ग्राहितवान् । उपजातकारुण्यश्च बाष्पसलिलोत्पीडनेन प्रक्षाल्यमानर्कपोलो लब्धचेतनामवादीत् - 'भगवति, मया पापेन तवायं पुनरभिनवतां नीतः शोकः, येनेदृशीं दशामुपनीतासि । तदलमनया कथया । संहियतामियम् । अहमप्य
***
*****
भव । एनं पुण्डरीकं प्रत्युज्जीवय सजीवितं कुरु । इति मुहुर्वारंवारं कपिञ्जलस्य मुनेः पादयोश्चरणयोरपतं पतितवती । मुहुश्चेति । वारंवारं तरलिकां कण्ठे गृहीत्वा प्रारूदं रुदनमकार्षम् । तस्मिन्निति । तस्मिन्काले रोदनदशायां यान्यचिन्तितान्यतर्कितानी, अशिक्षितान्यपठितानि, अनुपदिष्टानि केनापि नोपदेशीकृतानि, अदृष्टपूर्वाण्यनवलोकितपूर्वाणि, हतपुण्यायाः मे मम कृपणानि दीनानि चाटुसहसाणि 'प्रियप्रायवचनसहसाणि कुतः प्रादुरभवन्कुतः प्रकटीबभूवुरित्यद्याप्येतद्दिनपर्यन्तं चिन्तयन्ती न जानामि न सम्यक्तयावकलयामि । कु पूर्वोक्ताः संलापाः । कुतस्तानि हृदिस्थान्यतिकरुणान्यतिदीनानि विक्लवो विह्वलस्तस्य भावो वैक्लव्यं तस्य रुदितानि क्रन्दितानि । अन्य एव भिन्न एव स प्रकारो भेदः । तान्युप्रेक्षते चतुर्भिः - प्रलयेति । अन्तर्बाष्पस्य मध्यनेत्राम्बुनो वेगानां रंहसा प्रलयोर्मय इव कल्पान्ततरंगा इवोदतिष्ठन्नुत्थिता बभूवुः । अश्रुप्रवाहाणां नेत्राम्बुधाराणां जलयन्त्राणीवामुच्यन्त मुक्ताः । नेत्रैरिति शेषः । प्रलापानां विलापानां प्ररोहा इवाङ्कुरा इव निरगच्छन्निर्गता बभूवुः । दुःखानां कृच्छ्राणां शिखरशतानीव श्रृङ्गशतानीवावर्धन्तैधन्त । मूर्च्छानां मोहानां प्रसूतय इवानवरतसंतानानीवोदपाद्यन्ताक्रियन्त ।
-
इत्येवं पूर्वोक्तप्रकारेणात्मवृत्तान्तं स्वकीयोदन्तं निवेदयन्त्या एव कथयन्त्या एव तस्या महाश्वेतायाः । अतिक्रान्तारिष्टहेतोस्तथा वेदना नास्तीत्यत आह - समतीति । कथमपि महता कष्टेन समतिक्रान्तं व्यतीतमतिकष्टं यस्मिन्नेवंभूतमवस्थान्तरं मुनिकुमारमृत्युलक्षणमनुभवन्त्या इवानुभवविषयीकुर्वन्त्या इव तस्या महाश्वेताया मूर्च्छा मोहश्चेतनां चैतन्यं जहाराहरत् । मूच्छविगान्मोहरंहसः शिलातले निष्पतन्तीमधःसंयोगफलिकां क्रियां कुर्वन्तीं तां महाश्वेतां ससंभ्रमं प्रसारितो विस्तारितः करो येनैवंभूतो जातपीडश्चन्द्रापीडः परिजन इव परिच्छद झ्व विधृतवान्धारितवान् । अश्रुजलार्द्रेण नेत्रवारिक्लिन्नेन च तदीयेनैव महाश्वेतास्वीकृतेनैवेत्यर्थः । उत्तरीयं यद्वल्कलं तस्य प्रान्तेन शनैःशनैर्मन्दमन्दं वीजयन्वातं कुर्वन्संज्ञां चेतनां ग्राहितवान् । आनीतवानित्यर्थः । उपेति । उपजातं समुत्पन्नं कारुण्यं यस्य सः बाष्पसलिलस्योत्पीडनं प्रवाहस्तेन प्रक्षाल्यमानौ कपोलौ यस्य स लब्धचेतनां प्राप्तचैतन्यामवादीदवोचत् । हे भगवति महाश्वेते, मया पापेन पापात्मना तवायं शोकः पुनर्द्वितीयवारमभिनवतां प्रत्यग्रतां नीतः प्रापितः येन कारणेनेदृशीं दशामवस्थामुपनीतासि प्रापितासि । तदिति । तस्माद्धेतोरनया कथयालं कृतम् । इयं कथा संहियतां संक्षिप्यताम् । हि यस्मादतिक्रान्तान्यपि व्यतीतान्यपि संकीर्त्यमानानि
पाटा० - १ मुहुर्मुहुः. २ आवेदयन्त्यः ३ एव च तस्याः ४ ससंभ्रमप्रसारित ५ उत्पीडेन. ६ कपोलयुगलः; कपोलयुगलाम्. ७ पुनरपि नवताम्. ८ उपनीतः.
महाश्वेताया विलापः
पूर्वभागः ।
-
355