________________
न्यानि च व्याक्रोशन्ती, कियद्वा स्मरामि, ग्रहगृहीतेवाविष्टेनोन्मत्तेव भूतोपहते वव्यलपम् । उपर्युपरिपतिर्तनयनजलधारानिकरच्छलेन विलीयमानेव, द्रवतामिव नीयमाना, जलाकारेणेवात्मीक्रियमाणा, प्रलापाक्षरैरपि दर्शनमयूखशिखानुगततया साश्रुधारैरिव निष्पतद्भिः शिरोरुहैरप्यविरलविगलत्कुसुमतया मुक्तबाष्पजलबिन्दुभिरिवाभरणैरपि प्रसूतविमलमणिकिरणाश्रुतया प्ररूदितैरिवोपेता, तेज्जीवितायेवात्ममरणाय स्पृहयन्ती, मृतस्यापि सर्वात्मना हृदयं प्रवेष्टुमिवेच्छन्ती, करतलेन कपोलयोराश्यानचन्दन श्वेतजटामूले च ललाटे निहितसरसबिसयोश्चांसयोर्मलयजरसलवलुलितकमलिनीपलाशावगुण्ठिते च हृदये स्पृशन्ती, 'पुण्डरीक, निष्ठुरोऽसि । एवमप्यार्तां न गणयसि माम्' इत्युपालभमाना मुहुरेनमन्वनयम्, र्मुहुः पर्यचुम्बम्, मुहुर्मुहुः कण्ठे गृहीत्वा व्याक्रोशम् । 'आः पापे, त्वयापि मत्प्रत्यागमनकालं यावदस्यासवो न रक्षिताः' इति तामेकावलीमगर्हयम्, 'अयि भगवन्, प्रसीद । प्रत्युज्जीवयैनम्' -
****
*****
-
प्रकटय । इत्येतानि च ग्रन्थकर्त्रा प्रदर्शितान्यन्यानि चाप्रदर्शितानि च वचनानि व्याक्रोशन्ती पूत्कुर्वन्ती । कियद्वेति । कियन्मात्रं परिदेवनं स्मरामि स्मरणविषयीकुर्वे । ग्रहगृहीतेव ग्रथिलेव, आविष्टेवावेशविषयीकृतेव, उन्मत्तेवोन्मत्तवायुव्यथितेव, भूतेन व्यन्तरेणोपहतेव व्यलपं विलापमकरवम् । अथ नयनाश्रुधाराणां सान्द्रातिशयं वर्णयितुं त्रिभिरुत्प्रेक्षते - उपरीति । उपर्युपरि पतिता या नयनजलधारा अश्रुश्रेण्यस्तासां निकरच्छलेन समूहव्याजेन विलीयमानेव द्रुततामापद्यमानेव । द्रवतां द्रवगुणोपयुक्ततां नीयमानेव प्राप्यमाणेव । द्रवत्ववत्त्वादेवाह जलाकारेणेति । जलाकारेण जलस्वभावेनात्मीक्रियमाणेव । अथ च रोदनाश्रुमुखेन शोकातिशयं व्यञ्जयितुमश्रुवर्णनं त्रिभिरुत्प्रेक्षाभिराह - प्रेति । दशना दन्तास्तेषां मयूखाः किरणास्तेषां शिखा प्रान्तभागस्तत्रानुगततया प्राप्ततया प्रलापाक्षरैरपि परिदेवनवर्णैरपि साश्रुधारैर्नि - . ष्पतद्भिरिव सवद्भिरिव । अत्र श्वेतत्वसाम्याद्दशनमयूखनेत्रजलयोरुपमानोपमेयभावः । अविरलेति । अविरलानि धनानि विगलन्ति क्षरन्ति कुसुमानि पुष्पाणि येषु तेषां भावस्तत्ता तया शिरोरुहैरपि केशैरपि । मुक्तेति । मुक्ता बाष्पजलबिन्दवो यैरेवंविधैरिव । अत्रापि पुष्पनेत्रजलयोः श्वेतत्वसाम्यादुपमानोपमेयभावः । प्रस्विति । प्रसूतानि जनितानि विमलानि निर्मलानि मणिकिरणान्येवाश्रूणि येषु तेषां भावस्तत्ता तया आभरणैरपि विभूषणैरपि प्ररुदितैरिव कृताश्रुपातैरिव । उपेतेति । तत्त्रिभिरन्विता । तज्जीवितेति । तस्य मुनिकुमारस्य जीवितं तद्वदिवात्ममरणाय स्वनिधनाय स्पृहयन्ती वाञ्छां कुर्वन्ती । मृतस्यापि गतप्राणस्यापि सर्वात्मना सर्वप्रकारेण हृदयं प्रवेष्टुं प्रवेशं कर्तुमि - च्छन्तीव । करतलेन पाणितलेन स्वेन मुनिकपोलयोर्गल्लात्परप्रदेशयोर्ललाटे च कीदृशे । आश्यानं शुष्कं चन्दनं मलयजं तेन श्वेतं शुभ्रं जटामूलं सटापीठं यस्मिन् । अंसयोश्च स्कन्धयोश्च कीदृशयोः । निहितेति । निहितानि स्थापितानि सरसानि रसो जलं तद्युक्तानि बिसानि तन्तुलानि ययोः । अथ हृदयं विशेषयन्नाह - मलयेति । मलयजस्य चन्दनस्य रसो द्रवस्तस्य लवो लेशस्तेन लुलितानि मिलितानि यानि कमलिनीपलाशानि पत्राणि तैरवगुण्ठिते व्याप्ते स्पृशन्ती स्पर्शं कुर्वन्ती । पुण्डरीकेति । हे पुण्डरीक, त्वं निष्ठुरः क्रूरोऽसि । एवमपि पूर्वोक्तप्रकारेणापि मामार्तां न गणयसि न गणनां करोषि । इत्युपालभमानोपालम्भं ददाना मुहुर्वारंवारमेनमन्वनयमनु मुहुर्वारंवारं पर्यचुम्बं चुम्बितवती । मुहुर्वारंवारं कण्ठे गृहीत्वा व्याक्रोशमाक्रोशितवती । आः पापे त्वयापि भवत्यापि मम प्रत्यागमनकाल मदीयागमनसमयं यावत् । अस्य पुण्डरीकस्यासवः प्राणा न रक्षिता न त्राताः । इति तामेकावलीमगर्हयं गर्हितवती । अयीति । अयि कोमलामन्त्रणे । हे भगवन्, प्रसीद प्रसन्नो
।
टिप्प० - 1 तिसृभिरित्युचितम् । 2 अत्र नोपमा । अपि तु उत्प्रेक्षा । 3 विद्यार्थिभिस्तु किरणस्य पुंस्त्वमेव बोध्यम् ।
पाटा० - १ निपतित. २ दशनशिखा. ३ विगलित. ४ प्रसृत. ५ तज्जीवितायैव, तज्जीविताय च ६ परामृशन्ती. ७ मुहुर्मुहुः. ८ मुहुर्मुहुः. ९ मुहुः.
354
-
कादम्बरी ।
कथायाम्
-