________________
अनन्यशरणास्मि । मदनपरिभूतास्मि । किमिति न करोषि दयाम् । कथय किमपराद्धम्, किं वा नानुष्ठितं मया, कस्यां वा नाज्ञायामादृतम्, कस्मिन्वा त्वदनुकूले नाभिरतम्, येन कुपितोऽसि, दोसजनमकारणात्परित्यज्य व्रजन्न बिभेषी कौलीनात् । अलीकानुरागविप्रतारणकुशलया किं वा मया वामया पापया । आः, अहेमद्यापि प्राणिमि । हा, हतास्मि मन्दभागिनी । कथं न त्वं जातः, न विनयः, न बन्धुवर्गः न परलोकः । धिङ् मां दुष्कृतकारिणीम्, यस्याः कृते तवेयमीदृशी दशा वर्तते । नास्ति मत्सदृशी नृशंसहृदया, याहमेवंविधं भवन्तमुत्सृज्य गृहं गतवती । किं मे गृहेण, किमम्बया, किं वा तातेन, किं बन्धुभिः, किं परिजनेन । हा, कमुपयामि शरणम् । मयि दैव, दर्शय दयाम् । विज्ञापयामि त्वाम् । देहि दयितदक्षिणां भगवति भवितव्यते । कुरु कृपाम् । पाहि वनितामनाथाम् । भगवत्यो वनदेवताः, प्रसीदत । प्रयच्छतास्य प्राणान् । अव वसुंधरे, सकललोकानुग्रहजननि । रजनि, नानुकम्पसे । तात कैलास, शरणागतास्मि ते । दर्शय दयालुताम्' इत्येतानि चा -
***********
कुरु । मे मम मनोरथं चिन्तितं पूरय पूर्णीकुरु । अहमार्तास्मि दुःखितास्मीति स्पष्टम् । अनन्येति । न विद्यतेऽन्यं शरणं त्राणं यस्याः सैवंविधास्मि । मदनेन कन्दर्पण परिभूता पराजितास्मि । किमिति हेतोः । त्वं दयां कृपां न करोषि न प्रणयसि । कथय ब्रूहि । किमपराद्धं कोऽयमपराधः कृतः मयेति । शेषः । किं मया नानुष्ठितं नाचरितं वा । कस्यां वाज्ञायां निर्देशे नादृतं नादरः कृतः । त्वदनुकूले कस्मिन्वा मया नाभिरतं रागो न कृतः, येन कारणेन कुपितः कोपं प्राप्तः । अकारणानिमित्तमन्तरेण दासजनं भृत्यलोकं परित्यज्य विहाय व्रजन्गच्छन्कौलीनाजनापवादान्न बिभेषी भयं प्राप्नोति । अलीकेति । अलीको मिथ्या योऽनुरागस्तेन यद्विप्रतारणं वञ्चनं तत्र कुशलया दक्षया वामया प्रतिकूलया पापया दुष्टकर्मकारिण्या मया किं वा स्यात् । आः इति ज्ञातम् । अहमद्याप्येतावत्कालमपि प्राणिमि जीवामि । हा हतास्मि । दैवेन ताडितास्मीति भावः । अतएव मन्दभागिनी । तदेव दर्शयति - कथमिति । न त्वं भवान् जातः । पतिरिति शेषः । अतश्च न विनयो न मर्यादा, न वा बन्धुवर्गो न स्वजनलोकः, न परलोको न प्रेत्यभावः । मां धिगस्तु धिक्कारोऽस्तु । मां कीदृशीम् । दुष्कृतकारिणीं दुष्कर्मकरणशीलाम् । यस्याः पापकारिण्याः कृते तव भवति इयं परित्यक्तजीवितरूपा दशावस्था वर्तते । मत्सदृशी मत्समा नृशंसह्यदया क्रूरचित्ता नास्ति न विद्यते, याहमेवंविधं भवन्तमुत्सृज्य त्यक्त्वा गृहं धाम गतवती । मे मम किं गृहेण सदनेन, किमम्बया मात्रा, किं वा तातेन पित्रा, किं वा बन्धुभिः स्वजनैः, किं परिजनेन परिच्छदेन । हेति खेदे । कं शरणमुपयामि गच्छामि । हे दैव हे भाग्य, मयि विषये दयां कृपां दर्शय । त्वां प्रति विज्ञापयामि विज्ञप्तिं करोमि । हे भवितव्यते भगवति, दयितदक्षिणां देहि । कृपा दयां कुरु । अनाथां वनितां स्त्रियं पाहि रक्ष । हे भगवत्यो वनदेवताः, यूयं प्रसीदत प्रसन्ना भवत । अस्य मुनिकुमारस्य प्राणान्प्रयच्छत ददत । हे सकललोकानुग्रहजननि वसुंधरे, अव रक्ष । हे रजनि हे रात्रि, नानुकम्पसे नानुकम्पां करोषि । हे तात कैलास, ते तव शरणागतास्मि । दयालुतां कृपालुतां दर्शय - टिप्प० - 1 अन्यदित्युचितम् । 2 'कथं मे न त्वम्, न तातः' इत्येव पाठः । त्वं मे मम (संबन्धी) न जातः, कुतः ? मरणात् । तातोपि न, अर्थात् पितापि मे पक्षपोषको न स्यात् अभिसरणेन कुलमर्यादोल्लङ्घनात् । विनय-बन्धुवर्ग-परलोका अपि मम न भवेयुः । अभिसरणेन तत्प्रतीपाचरणात्, इति तदाशयः ।
पाठा० - १ किमपराद्धम्. २ कुपितः. ३ दासीजनम्. ४ प्रतारण. ५ याहम्. ६ कथं मे त्वं, न तातः. ७ अयि. ८ दक्षिणाम्. ९ अम्ब. १० किमर्थं नानु. ११ अस्मि.
(महाश्वेताविलापः
। पूर्वभागः ।।
353)