________________
उद्भूतमून्धकारा च पातालतलमिवावतीर्णा तदा क्वाहमगमम्, किमकरवम्, किं व्यलपम्, इति सर्वमेव नाज्ञासिषम् । असवश्च मे तस्मिन्क्षणे किमतिकठिनतयास्य मूढहृदयस्य, किमनेकदुःखसहससहिष्णुतया हतशरीरकस्य, किं विहिततया दीर्घशोकस्य, किं भाजनतया जन्मान्तरोपात्तस्य दुष्कृतस्य, किं दुःखदाननिपुणतया दग्धदेवस्य, किमेकान्तवामतया दुरात्मनो मन्मथहतकस्य, केन हेतुना नोद्गच्छन्ति स्म तदपि न ज्ञातवती । केवलमतिचिराल्लब्धचेतना दुःखभागिनी वह्नाविव पतितमसह्यशोकदह्यमानमात्मानमवनौ विचेष्टमानमपश्यम् । अश्रद्दधानं चासंभावनीयं तत्तस्य मरणमात्मनश्च जीवितमुत्थाय, 'हा, किमिदमुपनतम्' इति मुक्तार्तनादा, 'हो अम्ब, हा तात, हा सख्यः' इति व्याहरन्ती 'हा,नाथ जीवितनिबन्धन, आचक्ष्व । क्व मामेकाकिनीमशरणामकरुणं विमुच्य यासि । पृच्छ तरलिकां त्वत्कृते मया यानुभूतावस्था । युगसहसायमाणः कृच्छ्रेण नीतो दिवसः । प्रसीद । सकृदयालप । दर्शय भक्तवत्सलताम् । ईषदपि विलोकय । पूरय मे मनोरथम् । आर्तास्मि । भक्तास्मि । अनुरक्तास्मि । अनाथास्मि । बालास्मि । अगतिकास्मि । दुःखितास्मि ।
***********
तदेति । तदा तस्मिन्क्षणे सर्वेमेवेति नाज्ञासिषं नाबोधिषम् । इतिद्योत्यमाह - उद्भूतेति । क्वाहमगममव्रजम्, किमकरवमघटयम्, किं व्यलपं किमवोचम् । कीदृश्यहम् । उद्भूतं प्रकटीभूतं मूर्छा एवान्धकारं यस्यां सा तथा पातालतलं रसातलमवतीर्णेव । असवश्चेति । तस्मिन्क्षणे मे ममासवः प्राणा अस्य मूढहृदयस्य किमतिकठिनतयातिकाठिन्यतया । किं हतशरीरकस्य निःप्रयोजनदेहस्यानेकानां दुःखसहसाणां सहिष्णुतया सहनतया । किं दीर्घशोकस्य चिरकालीनशुचो विहिततयावश्यभोक्तव्यतया । किं जन्मान्तरोपात्तस्यान्यभवार्जितस्य दुष्कृतस्य पापस्य भाजनतया पात्रतया । किं दग्धदैवस्य ज्वलितभाग्यस्य दुःखदाने कृच्छ्रप्रदाने निपुणतया दक्षतया । किं दुरात्मनः पापिष्ठस्य मन्मथहतकस्यैकान्तवामतयात्यन्तप्रतिकूलतया । एतेषां मध्ये केन हेतुना नोद्गच्छन्ति स्म न बहिः प्रयान्ति स्म तदपि न ज्ञातवती । केवलमतिचिराच्चिरकालेन लब्धा प्राप्ता चेतना चैतन्यं यया सैवंविधा दुःखभागिनी वह्नाविवाग्नाविव पतितमसह्यो यः शोकः शुक् तेन दह्यमानं ज्वलन्तमवनौ पृथिव्यां विचेष्टमानं लुठमानमात्मानमपश्यमवालोकयम् । तस्य मुनिकुमारस्य तन्मरणमात्मनश्च स्वकीयस्य च जीवितमसंभावनीयमश्रद्दधानमश्रद्धाविषयीकुर्वाणमुत्थाय । हेति खेदे । किमिदमुपनतमागतमिति मुक्त आर्तनाद आक्रन्दशब्दो यया सा तथा । हा अम्ब मातः, हा तात हा पितः, हा सख्यः हा आल्यः, इति पूर्वोक्तं व्याहरन्ती कथयन्ती । हा नाथ हा स्वामिन्, जीवितनिबन्धनं जीवितकारणमाचक्ष्व कथय । मामेकाकिनीमसहायामशरणामत्राणामकरुणं निर्दयं यथा स्यात्तथा विमुच्य त्यक्त्वा क्य यासि क्व व्रजसि । तरलिकां पृच्छ प्रश्नं कुरु, त्वत्कृते त्वदर्थं मया महाश्वेताभिधानया यानिर्वचनीयावस्था दशानुभूतानुभवविषयीकृता । युगसहसवदाचरमाणो दिवसो वासरः कृच्छ्रेण कष्टेन नीतः प्रापितः । प्रसीद प्रसन्नो भव । सकृदप्येकवारमप्यालप ब्रूहि । भक्तवत्सलतां हितकारितां दर्शय प्रकाशय । ईषदपि किंचिदपि विलोकय निरीक्षणं -
टिप्प० -1 काठिन्यमिति भावप्रत्ययान्तान पुनर्भावार्थकप्रत्ययः । नानुक्रियतां विद्यार्थिभिः । 2 अभिन्नहृदया महातैव पुण्डरीकेण सह आत्मनो मरणं च जीवितं च वक्तुं शक्ता । अतएव 'अश्रद्दधाना' इति स्त्रीलिङ्गपाठ एवोचितः । 'अयं मृतः स्यात् अहं च जीवेयम्' इत्येव न विश्वसनीयमिति तदाकृतम् । 3 'जीवितनिबन्धनमाचक्ष्व' इति पाठो विवक्षितष्टीकाकारस्य । किन्तु मूले शोषितः पाठो दृश्यते । नाहमिमं लेखन्या चिच्छित्सामि ।
पाठा०-१ पातालमिव. २ अश्रद्दधानाम् अश्रद्दधाना. ३ मरणकारणम्. ४ हा हा. ५ अम्ब हा मातः. ६ निबन्धनमाचक्ष्व. ७ अकरुण.
352
कादम्बरी ।
कथायाम्
ܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠ