________________
लामलकर्पूरक्षोदभस्मधवलम्, आबद्धमृणालरक्षाप्रतिसरमनोहरम्, मनोभवव्रतवेषमास्थाय मत्समागममन्त्रमिव साधयन्तम्, 'भोः कठिनहृदये, दर्शनमात्रकेणापि न पुनरनुगृहीतोऽयमनुगतो जनः' इति सप्रणयं मामुपलभमानमिव चक्षुषा, किंचिद्विवृताधरतया जीवितमपहर्तुमन्तःप्रविष्टैरिवेन्दुकिरणैर्निर्गच्छद्भिर्दशनांशुभिर्धवलितपुरोभागम्, मन्मथव्यथाविघटमानहृदयनिहितेन वामेन पाणिना ‘प्रसीद । प्राणैः समं प्राणसमे, न गन्तव्यम्' इति हृदयस्थिता मामिव धारयन्तम्, इतरेण च नखमयूखदन्तुरतया चन्दनमिव सवतोत्तानीकृतेन चन्द्रातपमिव निवारयन्तम्, अन्तिकस्थितेन चाचिरोद्गतजीवितमार्गमिवोद्ग्रीवेण विलोकयता तपःसुहृदा कमण्डलुना समुपेतम्, कण्ठाभरणीकृतेन च मृणालवलयेन रजनीकरकिरणपाशेनेव संयम्य लोकान्तरं नीयमानम्, कपिञ्जलेन मद्दर्शनात् 'अब्रह्मण्यम्' इत्यूर्ध्वहस्तेन द्विगुणीभूतबाष्पोद्गमेनाक्रोशता कण्ठे परिष्वक्तम्, तत्क्षणविगतजीवितं तमहं पापकारिणी मन्दभाग्या महाभागम द्राक्षम् ।
*********** एवंविधो यः कर्पूरक्षोदो घनसारचूर्णं तदेव भस्म विभूतिस्तेन धवलं शुभ्रम् । आबद्धेति । आबद्धो मृणालस्य तन्तुलस्य रक्षार्थ प्रतिसरो हस्तसूत्रं तेन मनोहरं शोभनम् । मनो इति । मनोभवव्रतवेषमास्थाय परिगृह्य मदीयो यः समागमस्तत्साधको मन्त्रस्तं साधयन्तमिवाराधयन्तमिव । इति मां सप्रणयं सस्नेहम् । चक्षुषा इति । उपलभमानमिवोपालम्भं ददानमिव । इतिशब्दद्योत्यमाह - भो इति । भोः कठिनहृदये, दर्शनमात्रकेणाप्ययमनुगतोऽनुरक्तो जनो न पुनरनुगृहीतो न स्वीकृतः । किंचिदिति । किंचिद्विवृतो योऽधर ओष्ठस्तस्य भावस्तत्ता तया जीवितमपहर्तुं दूरीकर्तुमन्तःप्रविष्टैरिन्दुकिरणैश्चन्द्रकरैरिव निर्गच्छद्भिर्बहिरागच्छद्भिर्दशनांशुभिर्दन्तकिरणैर्धवलितपुरोभाग शुभ्रीकृताग्रप्रदेशम् । मन्मथेति । मन्मथस्य कंदर्पस्य व्यथा पीडा तया विघटमानं भिद्यमानं यद्धृदयं तत्र निहितेन स्थापितेन वामेन सव्येन पाणिना हस्तेन कृत्वा इति हृदयस्थितां मामिव धारयन्तं रक्षन्तम् । इतिवाच्यमाह - प्रसीदेति । हे प्राणसमे, त्वं प्रसीद प्रसन्ना भव । अथ च प्राणैः समं न गन्तव्यम् । प्राणा गच्छन्तु, परं त्वया न गन्तव्यमिति भावः । एतेन प्राणेभ्योऽप्यतिवल्लभा त्वमसीति ध्वनितम् । इतरेणेति । इतरेण दक्षिणपाणिनोत्तानीकृतेनोर्वीकृतेन चन्द्रातपं कौमुदी निवारयन्तमिव निषेधयन्तमिव । किं कुर्वता । चन्दनं मलयज सवतेव क्षरतेव । कया । नखानां मयूखाः किरणास्तैर्दन्तुरतया विषमोन्नततया । अन्तिकेति । अन्तिकस्थितेन समीपवर्तिनोद्ग्रीवेणाचिरोद्गतमचिरं तत्कालं गतं यज्जीवितं तस्य मार्ग पन्थानं विलोकयतेव पश्यतेव एवंविधेन तपःसुहृदा तपस्यामित्रेण कमण्डलुना कुण्डिकया समुपेतं सहितम् । कण्ठे आभरणीकृतेन च विभूषणीभूतेन च मृणालवलयेन बिसकटकेन । श्वेतत्वसाम्यादाह - रजनीति । रजनीकरश्चन्द्रस्तस्य किरणास्तल्लक्षणः पाशो बन्धनग्रन्थिस्तेनेव संयम्य बद्ध्या लोकान्तरमन्यलोकं नीयमानं प्राप्यमाणम् । अत्रान्यः प्राकृतो जनो यमेन पाशेन बद्ध्या लोकान्तरं नीयते । अयं मुनिकुमार इति तदसंभवात्कण्ठेत्युक्तमिति भावः । मदिति । तदानीं मद्दर्शनादब्रहाण्यमनुचितमित्यूर्ध्वहस्तेन कपिञ्जलेनाक्रोशता पूत्कुर्वता कण्ठे परिष्वक्तमालिङ्गितम् । कीदृशेन कपिञ्जलेन । द्विगुणीभूतः पूर्वस्मादधिकीभूतो बाष्पस्य रोदनस्योद्गमः प्रादुर्भावो यस्मिन्स तेन । पुनः कीदृशम् । तत्क्षणे तत्काले विगतं प्रनष्टं जीवितं प्राणितं यस्य स तम् । अन्वयस्तु प्रागेवोक्तः । - - - - - - टिप्प० - 1 किञ्चिद्विवृतः अधरो यस्य तद्भावस्तत्तया, इति व्याख्यानमुचितम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ रक्षापरिसरमनोहरम्; रक्षाप्रतिसरतयातिमनोहरम्. २ साधयन्तं मदनशरशल्यवेदनाकूणितत्रिभागेन कठिन. ३ विघटमान. ४ रजनिकर. ५ उपनीयमानम्. ६ व्यस्तहस्तेन. ७ अपक्रान्त.
(उपरतः पुण्डरीकः ।
पूर्वभागः ।
351