________________
निबध्य मुनिभोजनोचितैः फलादिभिरेव यौवनमुपनीतोऽस्मि । कियत्कालानन्तरमेकदा प्रातरकस्मादात्मानं सुवर्णपञ्जरगतं तां च चाण्डालदारिकामीदृशीमपश्यं यादृशी देवेनाद्य दृष्टा । यावदहमाश्चर्यमिदं जिज्ञासितुं मौनमुत्सृजामि तावदेव सेयं मामादाय देवपादमूलमायाता । तत्केयम्, किमर्थं वाऽहमाबध्य इहानीत इत्यस्मिन्विषये भवानिवाहमप्यनपगतकुतूहल एवास्मि" इत्युक्त्वा शुको विरराम ।
प्रवृद्धकुतूहलेन राज्ञाऽऽहूता चाण्डालकन्यका त्वागत्य स्वतेजसा राजानमभिभवन्ती प्रागल्भ्येन बभाषे - 'कादम्बरीलोचनानन्द चन्द्र ! सर्वस्त्वयाऽस्य दुर्मतेरात्मनश्च पूर्वजन्मवृत्तान्तः श्रुत एव । अस्मिन् शुकजन्मन्यपि पित्रा निषिद्धेऽपि सोऽयं परिचितप्रणयाय प्रस्थित इत्यनेन स्वयं कथितम् । अहमस्य दुरात्मनो जननी श्रीः । दुर्देवशमनपर्यन्तं मर्त्यलोके एवैनमभिरक्षितुं पित्राऽस्य समादिष्टा, तथाप्रस्थितमेनमिहानीतवती । भवतश्चास्य च शापावसानसमयः । तद् द्वावपि दुःखबहुले तनू परित्यज्य सममेव स्वेष्टजनसमागमसुखमनुभवतम्' इति कथयन्त्येव विद्युदिव चमत्कृत्य क्षितेर्गगनमुदपतत् ।
जन्मान्तरस्मरणेन द्वयोरपि (शूद्रकवैशम्पायनयोः) शरीरं काष्ठीभूतमभूत् । इतो मनोवृत्तिमुद्दीपयतो वसन्तस्य विजृम्भणेन सहसैव प्रोद्दीपितरागा कादम्बरी आत्मानं धारयितुमपारयन्ती तां चन्द्रापीडतनुं रागाद्यावत्कण्ठे गृह्णाति तावदेव कादम्बरीस्पर्शतो निवृत्तशापस्यास्य पुनः परववृते जीवः । सुप्तप्रबुद्ध इवायमवादीत् 'प्रत्युज्जीवितोऽस्मि तवानेन कण्ठग्रहेण । निवृत्ता सा शुद्रकाख्या तनुः । तव प्रियसख्या महाश्वेताया अपि प्रियतमो मयैव सह निवृत्तशापः ' । इत्यभिदधत्येव कपिञ्जलकरावलम्बी गगनादवतरन्पुण्डरीकोऽपि संमुखमदृश्यत ।
यावत्कादम्बरी प्रियसखीं महाश्वेतां प्रियसमागमप्रियाख्यानेनाभिवर्द्धयति तावदेव विलासवतीतारापीडादयोऽपि समागत्य परमं प्रमोदमन्वभवन् । चन्द्रात्मकत्वेऽपि तारापीडादीनां पूर्ववत्पादयोः प्रणमस्तैश्चाशीर्भिरभिवर्द्धितश्चन्द्रापीडः स्वपित्रोस्तत्पित्रोश्च 'एष वो वैशम्पायनः' इति विनयविलक्षवदनं पुण्डरीकमदर्शयत् । अस्मिन्नवसरे कपिञ्जलः समुपसृत्य शुकनासमवादीत् - ' एवं संदिष्टमार्यस्य श्वेतकेतुना - अयं पुण्डरीकः केवलं संवर्द्धितो. मया, आत्मजः पुनस्तव । अस्यापि भवत्स्वेव लग्नः स्नेहः । तद्वैशम्पायन इत्येवावगत्याऽयमविनयेभ्यो निवारणीयः' ।
अपरेद्युः सकलगन्धर्वानुगतौ मदिरा - गौरीभ्यां सह चित्ररथ - हंसौ गन्धर्वराजावपि तत्रैवाजग्मतुः । चित्ररथश्चन्द्रापीडविवाहाय स्वराजधानी नेतुं तारापीडं प्रार्थयत । तारापीडस्तं प्रत्यवादीत् - 'गन्धर्वराज ! मदीयं सर्वस्वमपि मया ते जामातरि संक्रमितम् । संप्रत्यहं सर्वं सुतसात्कृत्य तपोवन एव निवस्तुमिच्छामि ।' सर्वैः सह हेमकूटं गतश्चित्ररथः । कादम्बर्या सह समग्रमेव स्वं राज्यं चन्द्रापीडाय न्यवेदयत् । हंसोऽपि पुण्डरीकाय समं महाश्वेतया निजपदमदात् । एकदा विषण्णमुखी कादम्बरी चन्द्रापीडमूर्ति चन्द्रमप्राक्षीत् - 'आर्यपुत्र ! सर्वे वयं वियुक्ताः परस्परं संघटिताः । सा पुनर्वराकी पत्रलेखा न दृश्यते ।' चन्द्रापीडः प्रत्यवादीत् - 'सा खलु मद्दुःखदुःखिता रोहिणी । शापवशान्महीमागतेन मया सह स्नेहादवतीर्णा । संप्रति मया साऽऽत्मलोकं विसर्जिता, तत्रैव तां पुनर्द्रक्ष्यसि ।'
एवं पुण्डरीके समारोपितराज्यभारः परित्यक्तस्वकार्ययोः पित्रोः पादावनुचरन्, कदाचिदुज्जयिन्यां कदाचिद्धेमकूटे कदाचिच्च पुण्डरीकप्रीत्या लक्ष्मीनिवाससरसि, यथेच्छं विहरश्चन्द्रापीडमूर्तिश्चन्द्रः कादम्बर्या सह, कादम्बरी महाश्वेतया सह महाश्वेता पुण्डरीकेण सह, पुण्डरीकोऽपि चन्द्रमसा सह परस्परावियोगेन सुखान्यनुभवन्तः सर्वे परां कोटिमानन्दस्याऽध्यगच्छन् ।
(‘कादम्बरी-सार' इत्यभिलेखस्य पूर्वावृत्तितः साभारमत्र प्रस्तुतिः )
10
कादम्बरीसारः