________________
ष्वध्यासितामिवाङ्गेष्वनङ्गेन, कंदर्पदाहदीपिते गृहीतामिव हृदये हुतभुजा, स्वेदिनि परिष्वक्तामिव वपुषि जलेन, दैवतैरपि विलुप्यमानसौभाग्यामिव सर्वशः, हृदयेन सह प्रियतमसमीपोपगतैरभैरुपजनितदौर्बल्याम्, आश्यानचन्दनपाण्डुरं च रोमाञ्चमनवरतहारस्पर्शलग्नं मुक्ताफलकिरणपुञ्जमिवोद्वहन्तीं स्वेदसीकरिणी च कपोलपालीम्, पक्षपवनेन वीजयद्भिरनुकम्प्यमानामिवावतंसमधुकरैः, अवतंसमधुकररवदहनदग्धमिव श्रोत्रमपाङ्गनिर्गतेनाथुस्त्रोतसा सिञ्चन्तीम्, अतिप्रवृत्तस्य चाश्रुणो निर्वाहप्रणालिकामिव कर्पूरकेतकीकलिकां कर्णे कलयन्तीम्, आयतश्चासविधुतितरलितेन च संतापभयपलायमानेन देहप्रभावितानेनेवांशुकेन विमुच्यमानकुचकलशाम्, आपतत्प्रचलचामरप्रतिबिम्बं च कुचकलशयुगलं प्रियान्तिकगमनौत्सुक्यकृतपक्षमिव करतलेन निरुन्धन्तीम्, मुहुर्मुहुर्भुजलतया तुषारशिलाशालभञ्जिकामालिङ्गन्तीम्, मुहुः कपोलफलकेन कर्पूरपुत्रिकामाश्लिष्यन्तीम्, मुहुश्चरणारविन्देन चन्दन -
***********
स्तेन प्रतप्तेषूष्णेष्वङ्गेष्वनङ्गेन कंदर्पणाध्यासितामाश्रितामिव । कुत्रचित् ‘पतङ्गेन' इति पाठः । तत्र पतङ्ग सूर्यस्तापजनकत्वात् । तदाश्रितामित्यर्थः । कंदर्पदाहदीपिते मदनदाहज्वलिते हृदये । दाहजनकत्वसाम्यादाह - हुतभुजेति । हुतभुजा वह्निना गृहीतामिव स्वीकृतामिव । स्वेदिनि प्रस्वेदवति वपुषि जलेन नीरेण परिष्वक्तामिवाश्लिष्टामिव । एतेन स्वेदबाहुल्यं सूचितम् । दैवतैरप्यदृष्टैरपि सर्वशः सर्वप्रकारेण विलुप्यमानं लोपमाप्यमान सौभाग्यं यस्याः सा तामिव । हृदयेन चित्तेन सह सार्धं प्रियतमसमीपं प्राणप्रियनिकटमिवोपगतैरङ्गैः कृत्वोपजनितं विहितं दौर्बल्यं कृशत्वं यस्या एतादृशीम् । आश्यानमिति । आश्यानं शुष्कं यच्चन्दनं मलयजं तेन पाण्डुरं शुभं रोमाञ्चं चानवरतं निरन्तरं हारस्पर्शेन लग्नं मिलितं मुक्ताफलानां किरणा दीधितयस्तेषां पुञ्जः समूहस्तमिवोद्वहन्तीं धारयन्तीम् । अत्र चन्दनधवलीकृतस्य रोमोद्गमस्य मुक्ताकिरणसमूहोपमानम् । तथा स्वेदस्य धर्मजलस्य सीकरा विद्यन्ते यस्यामेतादृशीं कपोलपालीमुदहन्तीम् । चकारः समुच्चयार्थः । अवेति । अवतंस उत्तंसस्तस्य मधुकरैर्भमरैः पक्षपवनेन वीजयद्भिरनुकम्प्यमानामिवानुकम्पाविषयीक्रियमाणामिव । अवतंसमधुकराणा रवः शब्दः स एव दाहकत्वाइँहनो वह्निस्तेन दग्धमिव ज्वलितमिव । श्रोत्रं श्रवणमपाङ्गनिर्गतेनाक्षिवाह्यायातेनाश्रुस्त्रोतसा नेत्रजलप्रवाहेण करणभूतेन सिञ्चन्तीं सेक कुर्वन्तीम् । अतिप्रवृत्तस्यातिप्रसृतस्याश्रुणो नेत्रजलस्य निर्वाहार्थं सुखेन गमनार्थ प्रणालिकामिव जलमार्गमिव कर्पूरकेतकीकलिका कर्पूरेषूक्ता या केतकी तस्याः कलिका कोरकः तां कर्णे कलयन्ती कलना कुर्वन्तीं धारयन्तीम् । आयतो विस्तीर्णो यः श्वासः श्वसितं तस्माद्या विधुतिः कम्पस्तेन तरलितेन कम्पितेन संतापभयात्पलायमानेन धावता । अतिशुभ्रत्वसचिक्वणत्वसाम्यादाह - देहेति । देहप्रभावितानेनेव शरीरदीप्तिसमूहेनेवांशुकेन वस्त्रेण विमुच्यमानौ कुचावेव कलशौ यस्याः सा ताम् । आपतत्प्रचलचामरयोः प्रतिबिम्ब यस्मिन्नेतादृशं कुचकलशयुगलं प्रियस्य वल्लभस्यान्तिक समीपं तत्र गमने याने यदौत्सुक्य रणरणकता तेन कृताः पक्षा येनैतादृशमिव करतलेन निरुन्धन्ती निरोधं कुर्वन्तीम् । मुहुर्मुहुर्भुजलतया बाहुवल्ल्या तुषारशिला तस्याः शालभञ्जिका पाञ्चालिकामालिङ्गन्तीमाश्लेषं कुर्वन्तीम् । मुहुः कपोलफलकेन कर्पूरपुत्रिकां घनसारपाञ्चालिकामाश्लिष्यन्तीमालिगन्तीम् । महश्चरणारविन्देनाघ्रिकमलेन चन्दनपकस्य मलयजकर्दमस्य प्रतियातनां प्रतिमाम । 'प्रतिमा यातनाविधिः । छायः .
-- -- - - - - - - - -- - - - - -- - टिप्प० - 1 सौन्दर्यमुग्धत्वाद्देवा अपि तस्या भर्तृप्रियत्वम् ('सुहाग') न्यूनीकृत्य आत्मनि तदासक्ति कामयन्त इत्याशयः । 2 दूरगमनश्रमेण दौर्बल्यं भवत्येवेत्याशयः । 3 विरहोद्दीपनेन ईत्यर्थः । 4 कर्पूरवत् (शुभ्रा) केतकीकलिका, कर्पूरवासिता केतकीकलिका वा ।
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ जलदेन. २ अवतंसकुसुम.
442
कादम्बरी ।
कथायाम