SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ बारितम्, अलिभिरपि कुसुमामोदमदमुखरैराबद्धदन्तवीणैरिव वाचालितम्, लताभिरपि मधुकरपटलजटिलाभिर्गृहीतनीलप्रावरणकाभिरिव विराजितमाससाद । क्रमेण च तत्रान्तर्बहिश्चातिबहलेन पिण्डहार्येणेवोपलिप्यमानोऽतिशीतलेन स्पर्शेनाऽमन्यतात्मनो मनश्चन्द्रमयं कुमुदमयानीन्द्रियाणि ज्योत्स्नामयान्यङ्गानि मृणालिकामयीं धियम् । अगणयच्च हारमयानर्ककिरणांश्चन्दनमयमातपं कर्पूरमयं पवनमुदकमयं कालं तुषारमयं त्रिभुवनम् ।। एवंविधस्य च तस्यैकदेशे सखीकदम्बकपरिवृताम्, अशेषसरित्परिवारामिव भगवतीं गङ्गां हिमवतो गृहाचलगताम्, कुल्याभ्रमिभ्रमितेन कर्पूररसस्त्रोतसा कृतपरिवेषाया मृणालदण्डमण्डपिकायास्तले कुसुमशयनमधिशयानाम्, हाराङ्गदवलयरसनानूपुरैर्मृणालमयैर्निगडेरिव संयतामीjया मन्मथेन, चन्दनधवले स्पृष्टामिव ललाटे शशलाञ्छनेन, बाष्पवारिवाहिनि चुम्बितामिव चक्षुषि वरुणेन, वर्धितनिःश्वासमरुति द॑ष्टामिव मुखे मातरिश्चना, संतापप्रतप्ते - *********** वेपथुः कम्पो येषामेतादृशैरिव परिवारितम् । अलिभिरपि भ्रमरैरपि कुसुमानामामोदः परिमलस्तज्जनितो मदस्तेन मुखरैर्वाचालैरत एवाबद्धा दन्तवीणा यैरेवंविधैरिव वाचालितं मुखरितम् । लताभिरपि वल्लीभिरपि मधुकराणां पटलं तेन जटिलाभिर्व्याप्ताभिर्गृहीतं स्वीकृतं नील प्रावरणं प्रच्छादनं याभिरेवंविधाभिरिव विराजितं शोभितमेतादृशं हिमगृहकस्य मध्यभागमाससाद प्राप्तवान् । क्रमेणेति । क्रमेण परिपाट्यान्तर्बहिश्चातिशीतलेन स्पर्शेनोपलिप्यमानः । ननु मूर्तव्यतिरेकेणोपदिग्धक्रिया न संभवतीत्याशयेनाह - अतीति । अतिवहलेनातिदृढेन पिण्डहार्येणेव पिण्डरूपेणाहर्तुं शक्यं पिण्डहार्यं तेनेव, एतेनातिशीतलस्पर्शस्य बाहुल्य तया हस्तग्राह्यत्वं सूचितम् । तथातिशीतलेन स्पर्शनात्मनः स्वस्य मनश्चितं चन्द्रमयममन्यताऽजानात् । तथा कुमुदमयानि कैरवमयानीन्द्रियाणि करणानि, ज्योत्स्नामयानि चन्द्रिकामयान्यङ्गानि हस्तपादादीनि, मृणालिकामयीं बिसमयीं धियं बुद्धिम् । अमन्यतेत्यस्य सर्वत्र संबन्धः । तथाकिरणान्सूर्यकरान् । शुभ्रत्वायतत्वसाम्यादाह - हारमयान्मुक्ताप्रालम्बमयानगणयत् । अग्रेऽप्येतस्य संबन्धः । आतपं सूर्यालोकं चन्दनमयं मलयजमयम् । अतिशीतलत्वादिति भावः । तथा पवनं समीरं कर्पूरमयं घनसारमयम् । तद्गन्धयुक्तत्वात् । तथा कालं समयमुदकमयं जलमयम् । त्रिभुवनं त्रिविष्टपं तुषारमयं हिममयम् । अतिशीतलस्य शेषाधिवशात्किरणरूपतया सत्त्वेऽपि हाररूपतयागणयदित्यर्थः । ___ एवंविधस्य तस्य हिमगृहस्य एकदेश एकस्मिन्प्रदेशे सखीकदम्बकेन वयस्यासमूहेन परिवृताम् । अशेषसरित्परिवारां समग्रतटिनीपरिच्छदा हिमवतः पर्वतात् गृहाचलगतां गृहशिलागतां भगवतीं गङ्गामिव जाह्नवीमिव, विरहजनितपाण्डुरत्वसाम्यात्तदुपमानम् । अन्यासां च नद्युपमानम् । कुल्या सारणी तस्याभ्रमिभ्रमण तया भ्रमितेन कर्पूररससोतसा घनसारद्रवप्रवाहेण कृतो विहितः परिवेषः परिधिर्यस्या एवंविधाया मृणालदण्डमण्डपिकाया बिसदण्डमण्डपस्य तलेऽधोभागे कुसुमशयनं पुष्पशय्यामधिशयानां कृतस्वापाम् । हारेति । हारो मुक्ताप्रालम्बः, अङ्गदं बाहुकटकम्, वलयं कङ्कणम्, रसना काञ्ची, नूपुराणि पादकटकानि, एतैर्मृणालमयैर्बिसमयैर्निगडैरिवान्दुकैरिवर्ण्यया स्पर्धया मन्मथेन कंदर्पण संयतां बद्धाम्, चन्दनेन धवले शुभ्रीकृते ललाटेऽलिके शशलाञ्छनेन चन्द्रेण स्पृष्टामिवालिङ्गितामिव । शुभ्रत्ववक्रत्वसाम्याच्चन्द्रोपमानम् । बाष्पवारि नेत्राम्बु तद्वाहिनि चक्षुषि नेत्रे वरुणेन प्रचेतसा चुम्वितामिव । जलच्युतिसाम्यावरुणेनेत्युक्तम् । वर्धितो वृद्धिं प्राप्तो निःश्वासमरुदेतनवायुर्यस्मिन्नेवंविधे मुखे । वायुबाहुल्यादाह - मातरिश्वना वायुना दष्टामिव भक्षितामिव । संतापः संज्चर - - - - - - - - - -- - - - - - - - - - - - टिप्प० -1 शैत्यातिशयेन मुखवेपथुसमये उपर्यधोभागदन्तानां परस्परसंघट्टनजनितः शब्दो दन्तवीणा । 2 'गुहातलगताम्' इत्युचितः पाठः । हिमवतः हिमाचलस्य गुहातलस्थितां भगवतीं गङ्गामिव, इति स्फुटोऽर्थः । 3 चन्दनस्य चन्द्र उपमानमित्याशयः । पाटा० -१ निरन्तरमधुकर. २ नीहारमयान्. ३ गुहातलगताम्; महीतले पतिताम्. ४ दृष्टाम्. (कादम्बरीभवने शीतोपचाराः पूर्वभागः । 1A1
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy