________________
पल्लवेनेव वीजयति । पुनश्चाचिन्तयत् - 'प्रायेण मानुष्यकसुलभा लघुता मिथ्यासंकल्पसहसैरेवं मां विप्रलभते, लुप्तविवेको यौवनमदो मदयति, मदनो वा । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । स्नेहलवोऽपि वारिणेव यौवनमदेन दूरं विस्तीर्यते । स्वयमुत्पादितानेकचिन्ताशताकुला कविमतिरिव तरलता न किंचिनोत्प्रेक्षते । निपुणमैदनगृहीता चित्रवर्तिकेव तरुणचित्तवृत्तिर्न किंचिन्नालिखति । संजातरूपाभिमाना कुलटेवात्मसंभावना न क्वचिनात्मानमर्पयति । स्वप्न इवानुभूतमपि मनोरथो दर्शयति । इन्द्रजालपिच्छिकेवासंभाव्यमपि प्रत्याशा पुरः स्थापयति । भूयश्च चिन्तितवान् - 'किमनेन वृथैव मनसा खेदितेन, यदि सत्यमेवेयं धवलेक्षणा मय्येवंजातचित्तवृत्तिस्तदा नचिरात्स एवैनामप्रार्थितानुकूलो मन्मथः प्रकटीकरिष्यति । स एवास्य संशयस्य छेत्ता भविष्यति' इत्यवधार्योत्थायोपविश्य च ताभिः कन्यकाभिः सहाक्षर्गेयैश्च, विपञ्चिवाद्यैश्च, पाणविकैश्च, स्वरसदेहविवादैश्च, तैस्तैरालापैः सुकुमारैः कलाविलासैः क्रीडन्नासाचक्रे । मुहूर्तं च स्थित्वा निर्गम्योपवनालोकनकुतूहलाक्षिप्तचित्तः क्रीडापर्वतशिखरमारुरोह ।
*********** पुनरिति । पुनरचिन्तयच्चिन्तितवान् । किं तदित्याह - प्रायेणेति । प्रायेण बाहुल्येन मानुष्यके भवे सुलभा सुप्रापा लघुता मिथ्या मुधा संकल्पसहसैमनोरथसहसैरेवं पूर्वोक्तप्रकारेण । मामित्यात्मनिर्देशः । विप्रलभते वञ्चयतीत्यर्थः । तथा लुप्तो विवेको येनैतादृशो यौवनमदस्तारुण्यगर्यो मदयति मदं जनयति । एवं मदनोऽपि । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । अल्पापि योषिता चित्तविकृतिर्बहुत्वेन जानातीत्यर्थः । स्नेहलवोऽपि प्रीतिलेशोऽपि वारिणेव यौवनमदेन दूरं विस्तीर्यते दूरं नीयते । स्वयमिति । स्वयमात्मनोत्पादिता अनेकेषामभिलषणीयवस्तूनां चिन्तास्तत्तद्विषयकमनोवृत्तयस्तासां शतं तेनाकुला व्याकुला तरलता तृष्णाविशेषः किंचिन्न नोप्रेक्षतेऽभिलषते अपि तु सर्वमेवोत्प्रेक्षत इति भावः । केव कविमतिरिव । सापि स्वयमुत्पादितानेकेषां वर्णनीयानां या चिन्ता स्मृतिस्तस्याः शतं तेनाकुला व्याप्ता सती किंचिन्न नोटप्रेक्षते । अपि तु सर्वमेवोत्प्रेक्षालंकारविषयीकरोतीत्यर्थः । निपुणेति । निपुणोऽभिज्ञो यो मदनः कंदर्पस्तेन गृहीता स्वीकृता तरुणचित्तवृत्तिचित्रवर्तिकेव किंचिन्न नालिखति । अपि तु सर्वमेवालिखतीत्यर्थः । संजातेति । संजातं रूपस्य सौन्दर्यस्याभिमानोऽहंकारो यस्या एवंविधात्मसंभावना कुलटेव क्वचिन्न नात्मानमर्पयति । अपि तु सर्वत्रात्मानं दत्त इत्यर्थः । स्वप्न इवानुभूतमपि मनोरथो दर्शयति । प्रत्याशा दुराशेन्द्रजालपिच्छिकेवासंभाव्यमपि पुरोऽग्रे स्थापयति प्रतिष्ठितं करोति । भूयश्चेति । पुनरप्यन्यच्चिन्तितवान् । धृतिमाह - किमनेनेति । अनेन पूर्वोदन्तेन वृथैव मुधैव मनसा खेदितेन किम्, यदि सत्यमेव धवलेक्षणा कादम्बरी मय्येवं जातचित्तवृत्तिस्तदा नचिरात्स्तोककालेनाप्रार्थित एवानुकूलो दाक्षिण्यवान्मन्मथः स एवैनां चित्तवृत्तिं प्रकटीकरिष्यति । स एवेति । स एव कंदर्प एव । अस्येति । अस्याश्चित्तवृत्तिर्मयि वर्तते न वेत्येवंरूपस्यास्य संशयस्य छेत्ता दूरीकर्ता भविष्यति । इत्यवधार्य निश्चयं कृत्वोत्थायोपविश्य च ताभिः पूर्वोक्ताभिः कन्यकाभिः सहाक्षैः पाशकैर्गेयैर्गानैश्च । विपञ्ची वाद्य येषां तैश्च । पणवो वादिनविशेषो विद्यते येषां ते पाणविकास्तैश्च । स्वराणां षड्जादीनां ये सदेहास्तेषां विवादैश्च सुभाषितानि सूक्तानि तेषां गोष्ठीभिश्च । अन्यैश्च पूर्वोक्तव्यतिरिक्तैस्तैस्तैरालापैश्च सुकुमारैः कलाविलासैः क्रीडन्क्रीडां कुर्वनासाचक्रेऽधितस्थौ । मुहूर्तं च स्थित्वा तत्रावस्थान विधाय तदन्तरं निर्गम्य बहिरागत्योपवनस्यालोकनं तस्य कुतूहलं कौतुकं तेनाक्षिप्तं चित्तं यस्य सः क्रीडापर्वतशिखरमारुरोहारूढवान् । टिप्प० -1 अल्पामपि विकृति बहुतरां जानातीत्यर्थः । 2 आत्मश्लाघा । 3 अननुभूतमपीत्यपि पाठः । स्वप्न इव यूनां मनोरथः अननुभूतमपि द्रव्यादिकं नायिकानुरागादिकं च दर्शयतीत्यर्थः । पाठा० - १ एवमायास्य माम्. २ विसार्यते. ३ मन्मथ. ४ अननुभूतम्. ५ पर्वतक.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
चन्द्रापीडस्य मनसि विचाराः
पूर्वभागः ।
411)