SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ कादम्बरी तु तं दृष्ट्वा चिरयतीति महाचेतायाः किल वर्विलोकयितुं विमुच्यतां गवाक्षमित्युक्त्वानङ्गक्षिप्तचित्ता सौधस्योपरितनं शिखरमारुरोह । तत्र च विरलपरिजना, सकलशशिमण्डलपाण्डूरेणातपत्रेण हेमदण्डेन निवार्यमाणातपा, चतुर्भिर्वालव्यजनैश्च फेनशुचिभिरुद्धूयमानैरुपवीज्यमाना, शिरसि कुसुमगन्धलुब्धेन भ्रमता भ्रमरकुलेन दिवापि नीलावगुण्ठनेनेव चन्द्रापीडाभिसरणवेषमभ्यस्यन्ती, मुहुचामरशिखां समासज्य, मुहुश्छत्रदण्डमवलम्ब्य, मुहुस्तमालिकास्कन्धे करौ विन्यस्य, मुहुर्मदैलेखां परिष्वज्य, मुहुः परिजनान्तरितसकलदेहा नेत्रत्रिभागेणावलोक्य, मुहुरावलितत्रिवलीवलया परिवृत्य, मुहुः प्रतीहारीवेत्रलताशिखरे कपोलं निधाय, मुहुर्निश्चलकरविधृतामधरपल्लवे वीटिकां निवेश्य, मुहुरुद्गीर्णोत्पलप्रहारपलायमानपरिजनानुसरणदत्तकतिपयपदा विहस्य तं विलोकयन्ती, तेन च विलोक्यमाना, महान्तमपि कालमतिक्रान्तं नाज्ञासीत् । आरुह्य च प्रतीहार्या निवेदितमहाश्वेताप्रत्यागमना तस्मादवततार । स्नानादिषु मन्दादरापि महाश्वेतानुरोधेन दिवसव्यापारमकरोत् । *********** कादम्बरी तु तं चन्द्रापीडं दृष्ट्वा विलोक्य चिरयति विलम्बते इति महाश्वेतायाः किल वर्म मार्गमवलोकयितुं वीक्षितुं गवाक्षं वातायनं विमुच्यतामुद्धाट्यतामित्युक्त्वानङ्गक्षिप्तचित्ता सौधस्योपरितनं शिखरमारुरोहारूढवती । तत्र चेति । तस्मिन्स्थले । इतः कादम्बरी विशेषयन्नाह - विरलेति । विरलः स्वल्पः परिजनो यस्याः सा । सकलेति । सकलं समग्रं यच्छशिमण्डलं चन्द्रबिम्बं तद्वत्पाण्डुरेण. श्वेतेन हेमदण्डेन सुवर्णदण्डेनातपत्रेण छत्रेण निवार्यमाणो दूरीक्रियमाण आतपो यस्याः सा । उद्भूयमानैः कम्पमानैः फेनः कफस्तद्वच्छुचिभिनिर्मलैश्चतुर्भिर्वालव्यजनैश्चामरैश्चौपवीज्यमाना । शिरसीति । शिरसि मस्तके कुसुमानां पुष्पाणां गन्धस्तत्र लुब्धेन गर्धेन भ्रमरकुलेन मधुकरवृन्देन भ्रमता पर्यटता । दिवापि भ्रमरकुलस्य नीलत्वात्तत्साम्येनाह - नीलेति । नीलं यदवगुण्ठनं शिरोवेष्टनं तेनेव । अभिसारिकावेषमधिकृत्याह - चन्द्रेति । चन्द्रापीडस्याभिसरणं तत्र यो वेषस्तमभ्यस्यन्त्यभ्यासं कुर्वन्ती उत्कण्ठिताचेष्टितान्याह - मुहुरिति । मुहुः क्षणमा चामरशिखां वालव्यजनप्रान्तं समासज्यालम्ब्य । मुहुश्छत्रदण्डमवलम्व्यालम्बनीकृत्य । मुहुस्तमालिकास्कन्धे करौ हस्तौ विन्यस्य । संस्थाप्य । मुहुर्मदलेखां परिष्वज्याक्षिप्य । मुहुः परिजनेनान्तरितो व्यवहितः सकलदेहो यस्या एवंविधा सती नेत्रत्रिभागेणावलोक्य निरीक्ष्य । महरावलितं त्रिवल्या वलयं मण्डलं यस्याः सा परिखत्य परावर्तनं कृत्वा । महः प्रतीहारी द्वाररक्षानियक्ता स्त्री तस्या वेत्रलता यष्टिविशेषस्तस्याः, शिखरे प्रान्ते कपोलं गल्लात्परप्रदेशं निधाय । मुहुर्निश्चलो निष्कम्पो यः करो हस्तस्तेन विधृतां वीटिकामधरपल्लव ओष्ठकिसलये निवेश्य स्थापयित्वा । मुहुरुद्गीर्णं क्षिप्तं यदुत्पलं तस्य प्रहारस्तेन पलायमानो यः परिजनस्तस्मिन्ननुसरणं तत्र दत्तानि कतिपयपदानि यया सा विहस्य हास्यं कृत्वा तं विलोकयन्ती तेन च चन्द्रापीडेन विलोक्यमानातिक्रान्तं व्यतीतं महान्तमपि कालं समयं नाज्ञासीन ज्ञातवती । इताश्चारुह्य चारोहणं कृत्वैव प्रतीहार्या द्वारपालिकया निवेदितं ज्ञापितं महाश्वेताप्रत्यागमनं यया सैवंविधा तस्मात्सौधादवततारोत्तीर्णा । स्नानादिषु मन्दादरापि शिथिलोद्यमापि महाश्वेतानुरोधेन दिवसव्यापार दिनकृत्यमकरोद्व्यदधात् । चन्द्रापीडोऽपि तस्मात्क्रीडापर्वतशिखरा - टिप्प० - 1 महाश्वेतामार्गदर्शनार्थं गवाक्षोद्धाटने आज्ञापिते पुनः सौधपृष्टारोहणस्याप्रसक्तत्वात् । तस्मात् - तं (क्रीडापर्वतकस्थं चन्द्रापीडम्) दृष्ट्वा 'महाश्वेता चिरयति' इति तस्या आगमनमार्गमवलोकयितुम् (सोयं व्याजः,वास्तवे तु चन्द्रापीडदर्शनार्थम्) 'विमुच्य तं गवाक्षम् अधिष्ठितं गवाक्षं त्यक्त्वा प्रासादस्य शिखरमासरोह । इति पाठः, तदर्थश्च । पाठा० - १ तातम्. २ अवलोकयितुमुद्यता. ३ विमुच्य तं गवाक्षमनङ्ग. ४ तलं कैलासशिखरमिव गौर्यारोह. ५ शशि. ६ विरचितहेमदण्डेन. ७ वेषाभ्यासं कुर्वती मुहुः, वेषाभ्यासमिव कुर्वती कैलासशिखर इब गौरी मुहुः. ८ मदलेखां सखीम्. ९ त्रिभागेण मुहुः. १० विनिवेश्य. ११ उद्गीर्णकर्णोत्पल; उद्भूर्णकर्णोत्पल. - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - 412 कादम्बरी। कथायाम्
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy