________________
गमनगौरवेणार्हसीमा गुणवदभिमानिनी कर्तुम् । उदारजनादरो हि बहुमानमारोपयत्यवश्यम् । सोढव्या चेयमस्मद्विधजनपरिचयकदर्थना कुमारेण । भवत्सुजनतैव जनयत्यनुचितसंदेशप्रागल्भ्यम् । एष देवस्य शयनीये विस्मृतः शेषो हारः' इत्युत्तरीयपटान्तसंयतं सूक्ष्मसूत्रविवरनिःसृतैरंशुसंतानैः संसूच्यमानं विमुच्य चामरग्राहिण्याः करे समर्पितवान् ।
अथ चन्द्रापीडः ‘महाश्वेताचरणाराधनतपःफलमिदं यदेवं परिजनेऽप्यनुस्मरणादिकं प्रसादभारमतिमहान्तमारोपयति देवी कादम्बरी' इत्युक्त्वा तत्सर्वं शिरसि कृत्वा स्वयमेव जग्राह । तेन च कादम्बर्याः कपोललावण्येनेव गलितेन, स्मितालोकेनेव रसतामुपनीतेन, हृदयेनेव द्रुतेन, गुणगणेनेव विस्यन्दितेन, स्पर्शवता ह्लादिना सुरभिणा च विलेपनेन विलिप्य तमेव कण्ठे हारमकरोत् । आगृहीतताम्बूलश्च मुहूर्तादिवोत्थाय वामबाहुना स्कन्धदेशेऽवलम्ब्य केयूरकमूर्ध्वस्थित एव कृतयथाक्रियमाणसंमानमुदितं प्रधानराजलोकं विसृज्य शनैः -
***********
स्मरकल्पं कंदर्पतुल्यं त्वां स्मरति गोचरीकरोति अतो हेतोः पुनर्द्धितीयवारं यदागमनगौरवं तेन कृत्वेमां कादम्बरी गुणवत्स्वभिमानो विद्यते यस्या एवंविधां कर्तुमर्हसि योग्यो भवसि । हि निश्चितम् । उदारजनेष्वादरोऽवश्यं बहुमानं सत्कारमारोपयति । इयमस्मद्विधजनपरिचयजनिता या कदर्थना संकोचलक्षणा सा च कुमारेण सोढव्या सहनीया । सदेशानौचित्यदोषं परिहरन्नाह - भवदिति । भवतस्तव सुजनतैव सज्जनतैवानुचितोऽयोग्यो यः संदेशस्तत्र प्रागल्भ्यं पाण्डित्यं जनयति निष्पादयति । एष देवस्य शयनीये शय्यायां विस्मृतो विस्मरणं प्राप्तः शेषाभिधानो हार इत्युत्तरीयपटः संव्यानपटस्तस्यान्तेन प्रान्ताञ्चलेन संयतं बद्धं सूक्ष्मं यत्सूत्रं तेषां विवराणि रोकाणि तेभ्यो निःसृतैर्विनिर्गतैरंशुसंतानैः किरणसमूहैः संसूच्यमानमभिव्यज्यमानं चामरग्राहिण्याः करे विमुच्य समर्पितवान्प्रदत्तवान् । __ अथेति । हारप्रदानानन्तरं चन्द्रापीडस्तत्पूर्वप्रतिपादितं सर्वं शिरसि कृत्वा मस्तक आरोग्य स्वयमेवात्मनैव जग्राह गृहीतवान् । इतिशब्दार्थमाह - महाश्वेतेति । इदं महाश्वेतायाश्चरणयोराराधनं सेवनं तल्लक्षणं यत्तपस्तस्य फलं तस्माद्धेतोरेवममुना प्रकारेण परिजनेऽपि सत्यप्यनुस्मरणादिकमतिमहान्तं प्रसादभारमारोपयति देवी कादम्बरी । इत्युक्त्वेत्यभिधाय तत्पूर्वोक्तं शिरसि कृत्वा मस्तक आरोग्य जग्राह गृहीतवान् । तेनेति । तेनानिर्वचनीयस्वरूपेण स्पर्शवता ह्लादिना प्रमोदकारिणा सुरभिणा सुगन्धेन विलेपनेन विलिप्य कण्ठे तमेव हारमकरोदघटयत् । अथ श्वेतत्वसाम्याद्विलेपनमुत्प्रेक्षयन्नाह - कादम्बर्या इति । कादम्बर्या गलितेन च्युतेन कपोललावण्येन । (इव) च, तथा रसतामुपनीतेन द्रवतां प्रापितेन स्मितालोकेनेवादृष्टरदहास्यप्रकाशेनेव, द्रुतेन विलीनेन हृदयेनेव चित्तेनेव, विस्यन्दितेन प्रसवितेन गुणगणेनेव । अन्वयस्तु प्रागेवोक्तः । आगृहीतेति । आगृहीतं ताम्बूलं येन स तथा मुहूर्तादिवोत्थाय वामबाहुना केयूरकं स्कन्धदेशेऽवलम्ब्यालम्बनं विधायोर्ध्वस्थित एव कृतं विहितं यथाक्रियमाणं पूर्वपरम्परया विधीयमानं संमानं तेन मुदितं हर्षितमेवंविधं प्रधान प्रकृष्टं राजलोकं सामन्तादिसेवकवर्ग विसृज्य गृहे गम्यतामित्युक्त्वा शनैः शनैर्मन्दं मन्दं गन्धमादननामानं -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 आत्मानं गुणवन्तमभिमन्यते सा, चन्द्रापीडसदृशोपि ममान्तिकमागच्छतीति गुणवत्यहमित्यात्मन्यभिमान इत्याशयः । 2 अस्मद्विधानां गुणशून्यजनानां परिचयेन या कदर्थना (आत्मनोऽवमानः) सा सौजन्यवशात्कुमारेण सोढव्येत्यर्थः । 3 अनुपविष्ट एव, 'दण्डायमान एव' ।
पाटा० - १ हारः प्रहितः. २ अवलोकेन. ३ निःस्पन्दितेन. ४ समवलम्ब्य.
432
कादम्बरी ।
कथायाम्