________________
शनैर्गन्धमादनं करिणं द्रष्टुमयासीत् । तत्र च स्थित्वा क्षणमिव तस्मै स्वयमेव निजनखांशुजालजटिल समृणालमिव शष्पकवलमवकीर्य वल्लभतुरगमन्दुराभिमुखः प्रतस्थे । गच्छंश्चोभयतः किंचित्किंचिदिव तिर्यग्वलितवदनः परिजनं विलोकयांबभूव ।
अथ चित्तज्ञैः प्रतीहारैः प्रतिषिद्धानगमने निखिले समत्सारिते परिजने केयरकद्वितीय एव मन्दरां प्रविवेश । उत्सारणभयसंभ्रान्तलोचनेषु प्रणम्यापसृतेषु मन्दुरापालेषु, इन्द्रायुधपृष्ठावगुण्ठनपटं किंचिदेकपाधै गलितं समीकुर्वनुत्सारयश्च कूणितनेत्रत्रिभागस्य दृष्टिनिरोधिनी कुङ्कुमकपिलां केसरसटां खुरधारणीविन्यस्तचरणो लीलामन्दं मन्दुरादारुदत्तदेहभरः सकुतूहलमुवाच - ‘केयूरक, कथय मनिर्गमादारभ्य को वा वृत्तान्तो गन्धर्वराजकुले, केन वा व्यापारेणावसरमतिनीतवती गन्धर्वराजपुत्री, किं वाकरोन्महाश्वेता, किमभाषत वा मदलेखा, के वाऽभवनालापाः, परिजनस्य भवता वा को व्यापार आसीत्, आसीद्धा काचिदस्मदाश्रयिणी कथा ।
केयूरकस्तु सर्वमाचचक्षे - 'देव, श्रूयताम् । निर्गते त्वयि हृदयसहसप्रयाणपटहकलकलमिव नूपुरनैवक्वणितेन कन्यकान्तःपुरे कुर्वन्ती देवी कादम्बरी सपरिजना सौधशिखरमारुह्य -
***********
करिणं हस्तिनं द्रष्टुमीक्षितुमयासीदगमत् । तत्र चेति । गन्धमादनसमीपे क्षणमिव समयसदृशं स्थित्वा तस्मै हस्तिने स्वमेवात्मनैव निजमात्मीयं यत्रखानामशुजाल किरणपटलं तेन जटिलं व्याप्तम् । पाटलत्वसाम्यादाह - समृणालमिव बिसैः सहवर्तमानमिव शष्पकवलं
तृणगुडेरकमवकीर्य पुरोऽवक्षिप्य वल्लभः प्रियो यस्तुरगोऽश्वस्तस्य मन्दुरा वाजिशाला तस्या अभिमुखः संमुखः प्रतस्थे चचाल । गच्छश्च 'ब्रजचोभयतो द्वयोः पार्श्वयोः किंचित्तिर्यक् साचि विवलितं वदनं यस्य सः । परिजनं परिच्छदलोक विलोकयांबभूवेक्षांचक्रे ।
अथेति । तन्निकटगमनानन्तरं चित्तज्ञैः प्रभोरभिप्रायविद्भिः प्रतीहारैर्द्वारपालैः प्रतिषिद्धं निवारितमनुगमनमनुयानं यस्यैवविधे निखिले समग्रे परिजने सेवकजने समुत्सारिते दूरीकृते सति केयूरक एव द्वितीयो यस्यैवंभूतश्चन्द्रापीडो मन्दुरा वाजिशाला प्रविवेश प्रवेशं चकार । उत्सारणं दूरीकरणं तस्माद्यद्भयं तेन संभ्रान्तानि त्रस्तानि लोचनानि येषां तेषु मन्दुरापालेषु प्रणम्यापसृतेषु दूरीभूतेषु सत्सु, इन्द्रायुधपृष्ठस्यावगुण्ठनपटमाच्छादनवस्त्रं किंचिदेकपाधै गलितं सस्तं समीकुर्वन्स्वस्थाने नयन्कूणितनेत्रत्रिभागस्येन्द्रायुधस्य दृष्टिनिरोधिनी दृष्टिवाधाकारिणी कुङ्कुमवत्कपिला पिङ्गला केसरसटां स्कन्धकेशश्रेणीमुत्सारयश्चोच्चैःकुर्वन्खुरधारिण्यां खुरबन्धनशङ्को विन्यस्तौ स्थापितो चरणौ येन सः लीलामन्दं यथा स्यात्तथा मन्दुरादारौ दत्तो देहभरो येन सः । सकुतूहलं सकौतुकं यथा स्यात्तथोवाचाब्रवीत् । हे केयूरक, कथय ब्रूहि मनिर्गमान्मदीयचलनादारभ्य गन्धर्वराजकुले को वा वृत्तान्त उदन्तः । केन व्यापारेणावसरं समयं गन्धर्वराजपुत्री कादम्बयंतिनीतवत्यतिक्रान्तवती । किं वा महाश्वेताकरोदन्वतिष्ठत् । वेति विकल्पार्थः सर्वत्र । मदलेखा किमभाषत किमवोचत् । के वालापा वचनव्यापारा अभवन् । परिजनस्य परिच्छदस्य भवतो वा को व्यापारो व्याकृ(पृ)तिरासीदभवत् । काचिदस्मदाश्रयिणी कथा यातासीत् ।
केयूरकस्तु सर्वं प्राणविषयीकृतमाचचक्षे कथयामास । देवेति । हे देव, श्रूयतामाकर्ण्यताम् । त्वयि निर्गते चरिते सति नपुराणा पादकटकानां नवक्वणितेनाभिनवशब्दितेन हृदयानां सहसाणि तेषां प्रयाणं प्रस्थानं तत्र यः पटहस्य कलकलः कोलाहलस्ताभव कन्यकान्तःपुरे कुर्वन्ती सृजन्ती देवी कादम्बरो सपरिजना सपरि -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -- - -- - - टिप्प० - 1 'कुर्वति' इति सप्तम्यन्त एव पाटः । कन्यकान्तःपुरे नूपुरनवक्वाणतेन हृदयसहसाणा यत्प्रयाणम् (गृह प्रत्यागच्छता त्वया सह प्रस्थानम् तस्य पटहकलकलमिव कुर्वति सति । नपुरशब्दा नासन्, मन्ये त्वया सह प्रस्थितानां कन्यकाहृदयसहसाणां प्रयाणे पटहध्वनय एवाभूवन्नित्याशयः ।
पाटा० - १ तुरङ्गम्. २ इन्द्रायुधस्य. ३ पार्श्व. ४ खुरवारणी; खुरधोरणी. ५ वासरम्. ६ चक्रक्वणितेन. ७ कुर्वति.
कादम्बरीविषयकः प्रश्नः
पर्वभागः ।
433