________________
मृगमदामोदमनोहरं च मलयजविलेपनम् । अब्रवीच्च - 'चूडामणिचुम्बिना कोमलाङ्गुलिविनिर्गतलोहितांशुजालेनाजलिना देवमर्चयति देवी कादम्बरी, महाश्वेता च सकण्ठग्रहेण कुशलवचसा, पर्यस्तशिखण्डमाणिक्यज्योत्स्नास्नपितललाटेन च नमस्कारेण मदलेखा, क्षितितलघटितसीमन्तकरिकाकोटिकोणेन सकलकन्यालोकश्च, सचरणरजःस्पर्शेन च पादप्रणामेन तमालिका । संदिष्टं च तव महाश्वेतया - 'धन्याखलु ते येषां न गतोऽसि चक्षुषोरेविषयम् । तथा नाम समक्षं भवतस्ते तुहिनशीतलाश्चन्द्रमया इव गुणा विरहे विवस्वन्मया इव वृत्ताः । स्पृहयन्ति खलु जनाः कथमपि दैवोपपादितायामृतोत्पत्तिवासरायेवातीतदिवसाय । त्वया वियुक्तं निवृत्तमहोत्सवालसमिव वर्तते गन्धर्वराजनगरम् । जानासि च मां कृतसकलपरित्यागाम्, तथाप्यकारणपक्षपातिनं भवन्तं द्रष्टुमिच्छत्यनिच्छन्त्या अपि मे बलादिव हृदयम् । अपि च बलवदस्वस्थशरीरा कादम्बरी । स्मरति च स्मेराननं स्मरकल्पं त्वाम् । अतःपुनरा -
***********
लीदलानि नागवल्लीपत्राणि । तथा हरस्येश्वरस्य यश्चन्द्रखण्डस्तद्वत्स्थूलं शकलं खण्डं यस्यैतादृशं कर्पूरं हिमवालुका । तथातिबहलोऽतिनिबिडो यो मृगमदामोदः कस्तूरीपरिमलस्तेन मनोहरं रुचिरं यन्मलयजविलेपनं चन्दनाङ्गरागः । एतद्दर्शनानन्तरमब्रवीदवोचत् । चकारः समुच्चयार्थः । कादम्बरी देव्यञ्जलिना बद्धपाणिपुटेन देवं भगवन्तमर्चयति पूजयति । अथाञ्जलिं विशिनष्टि - चूडेति । चूडामणिः शिरोमणिस्तच्चुम्बिना तत्पर्शिना कोमलाङ्गुलिभ्यो मृदुकरशाखाभ्यो विनिर्गमो यस्यैवंभूतं लोहितं रक्तमंशुजालं किरणसमूहो यस्मिन्स तेन । महाश्वेता च सकण्ठग्रहेण निगरणसहितेन कुशलवचसा मङ्गलवाक्येन देवमर्चयतीत्यस्य सर्वत्र संबन्धः । तथा मदलेखा नमस्कारेण प्रणामेन । कीदृशेन । पर्यस्तेति । पर्यस्तं पतितं यच्छिखण्डमाणिक्यं शिखारत्नं तस्य ज्योत्स्ना कान्तिस्तया स्नपितं क्षालितं ललाटमलिक यस्मिन्स तेन । सकलकन्यालोकश्च क्षितितले घटितो लग्नः सीमन्तः केशवेशवम॑ तस्य मकरिकाभरणविशेषस्तस्याः कोटेरग्रभागस्य कोणोऽश्रिर्यस्मिन्नेवंविधेन चरणरजःस्पर्शेन सहवर्तमानेन पादप्रणामेन तमालिका । तथा तव महाश्वेतया संदिष्टं कथितं वर्तते । तदेव दर्शयति - धन्या इति । खलु निश्चयेन । ते धन्या जनाः यत्तदोर्नित्याभिसंबन्धादाह - येषामिति । येषां नृणां चक्षुषोनॆत्रयोरविषयमगोचरं न गतोऽसि । तथा नाम भवतः समक्षं तत्प्रत्यक्षं ते तव गुणा औदार्यादयस्तुहिनं हिमं तद्वच्छीतलाः सुशीताश्चन्द्रमया इव विरहे त्वद्वियोगे विवस्वन्मया इव दाहजनकत्वात्सूर्यमया इव वृत्ताः संपन्नाः । एतेन विरहाधिक्यं सूचितम् । खलु निश्चयेन जनास्तनगरनिवासिनो लोकाः कथमपि महता कष्टेन देवेन भाग्येनोपपादिताय विहितायामृतोत्पत्तिवासरायेव । यद्दिनेऽमृतं समुत्पन्न समुद्रादहिर्निर्गतं तस्मिन्दिने त्रिभुवन आनन्दः समभूत् । अतोऽमृतोत्पत्तिवासरोपमानम् । अतीतदिवसाय पूर्वं यद्दिने त्वया सह संबन्धःसमभूत्तद्वासराय स्पृहयन्ति वाञ्छयन्ति । त्वया वियुक्तं विरहितं, निवृत्तो दूरीभूतो यो महोतसवः क्षणस्तेनालसमिवालस्योपेतमिव गन्धर्वराजनगरं वर्तते समस्ति । कृत इति । कृतो विहितः सकलवस्तुनः परित्यागो ययैवंविधा मां महाश्वेतां च त्वं जानासि, तथाप्यकारणेनानिमित्तेन पक्षपातिनं साहाय्यकारिणं भवन्तं त्वां द्रष्टुं वीक्षितुमनिच्छन्त्या अप्यवाञ्छन्त्या अपि मे मम हृदयं बलादिव हठादिवेच्छति स्पृहयति । अपि चेति हेत्वन्तरे । बलवदतिशयेनास्वस्थं पीडायुक्तं शरीरं देहो यस्याः सैवंविधा कादम्बरी स्मेराननं विनिद्रमुखं -
- - - - - टिप्प० - 1 येषां नेत्रयोर्गोचरं न गतोसि त एव धन्याः, येषां गतोसि ते तु तव वियोगेन तप्यन्त इत्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा०.१ विवरविनिर्गत. २ विषयम्. ३ संवृत्ताः. ४ विनिवृत्त. ५ महोत्सवानन्दम्.
कादम्बर्याः संवादप्रेषणम
। पूर्वभागः।।
431