________________
क्रमेण च गत्वा हेमकूटमासाद्य गन्धर्वराजकुलं समतीत्य काञ्चनतोरणानि सप्तकक्षान्तराणि कन्यान्तःपुरद्वारमवाप । महाश्वेतादर्शनप्रधावितेन दूरादेव कृतप्रणामेन कनकवेत्रलताहस्तेन प्रतीहारजनेनोपदिश्यमानमार्गः प्रविश्यासख्येयनारीशतसहस्त्रसंबोध स्त्रीमयमपरमिव जीवलोकम्, इयत्तां ग्रहीतुमेकत्र त्रैलोक्यस्त्रैणमिव संहृतम्, अपुरुषमिव सर्गान्तरम्, अङ्गनाद्वीपमिवापूर्वमुत्पन्नम्, पञ्चममिव नारीयुगावतारम् अपरमिव पुरुषद्वेषिप्रजापतिनिर्माणम्, अनेककल्पकल्पनार्थमुत्पाद्य स्थापितमिवाङ्गनाकोशम्, अतिस्तारिणा युवतिजनलावण्यप्रभापूरेण प्लावितदिगन्तरेण सिञ्चतेवामृतरसविसरेण दिवसमार्दीकुर्वतेव भुवनान्तरालं बहुलप्रभावर्षिणा मरकतमणिमयेन सर्वतः परिगततया तेजोमयमिव
चन्द्र
***********
क्रमेण परिपाट्या गत्वा च हेमकूटं गन्धर्वराजकुलमासाद्य प्राप्य काञ्चनस्य सुवर्णस्य तोरणानि बहिाराणि येष्वेवंविधानि सप्तकक्षान्तराणि गृहान्तराणि समतीत्य व्यतिक्रम्य कन्यानां यदन्तःपुरं तस्य द्वारयाप प्राप्तवान् तदनन्तरं कुमारः कुमारीपुराभ्यन्तरं ददर्शक्षाचक्रे । किंविशिष्टः कुमारः । महाश्वेताया दर्शनार्थमवलोकनार्थं प्रधावितेनोच्चलितेन दूरादेव कृतप्रणामेन कनकवेत्रलता हस्ते यस्यैवभूतेन प्रतीहारजनेन द्वारपालकलोकेनोपदिश्यमानो वचनव्यक्त्या प्रोच्यमानो मार्गः पन्था यस्य सः । किं कृत्वा । प्रविश्य प्रवेशं कृत्वा । इतः कुमारीपुराभ्यन्तरं विशेषयनाह - असंख्येति । असंख्येयानि गणनावर्जितानि नारीणां स्त्रीणां शतसहस्त्राणि लक्षाणि तैः संबाधं संकीर्णं स्त्रीमयमपरं भिन्नं जीवलोकमिव । इयत्तेति । इयत्तामेतावत्यो नार्यः सन्तीति संख्यां ग्रहीतुं त्रैलोक्यस्त्रैणं त्रिभुवनस्त्रीवृन्दमेकस्मिन्स्थले संहृतमिव संगृहीतमिव । केवलाङ्गनानामेव सद्भावं प्रदर्शयन्नाह - अपुरुषेति । अपुरुषं पुरुषवर्जितं सर्गान्तरमिव सृष्ट्यन्तरमिव । तासामेव विपुलाश्रयत्वादाह - अङ्गनेति । अपूर्वमभिनवमुत्पन्नमङ्गनाद्वीपमिव स्त्रीणामन्तरीपमिव । पञ्चममिति । नारीप्रधानं ययुगं तस्य पञ्चममवतारमिव । अपरमिति । पुरुषे द्वेषो विद्यते यस्यैवंभूतो यः प्रजापतिर्बहाा तस्यापरमन्यनिर्माणमिव । पुरुषद्वेषिविशेषणेन केवलं स्त्रीनिर्माणकर्तृत्वमेव सूचितम् । अनेकेति । अनेके ये कल्पा युगान्तास्तत्र कल्पना रचना । स्त्रीणामिति शेषः । तदर्थमङ्गनाकोश स्त्रीभाण्डागारमुत्पाद्य विधाय स्थापितमिव रक्षितमिव । एतेन युगान्तरे स्त्रीनिर्माणप्रयासाभाव इति सूचितम् । पुनः कीदृशम् । अतिविस्तारिणा युवतिजनानां लावण्यं सौन्दर्यातिशयस्तस्य या प्रभा कान्तिस्तस्याः पूर उत्कर्षस्तेन । अथ च बहुला या प्रभा कान्तिस्तद्वर्षिणा मरकतमणिमयेनाश्मगर्भमणिप्रचुरेण अर्थान्निर्माणेन सर्वतः समन्तात्परिगततया व्याप्ततया तेजोमयमिव कान्तिसमूहमयमिव । अथ युवतिलावण्यं विशेषयन्नाह - अमृतेति । अमृतरसस्य पीयूषद्रवस्य यो विसरः समूहस्तेन दिवसं दिनं सिञ्चतेव सेकक्रियां कुर्वतेव, प्लावितं क्षालितं दिगन्तरं येन तेन । किं कुर्वता । लावण्यप्रभापूरेण भुवनान्तरालं विष्टपान्तरालमार्दीकुर्वतेवाशुष्कतां विदधतेव । अत्र च मरकतमणेः श्यामत्वे लावण्यप्रभापूरस्य च पाण्डुरत्वे क्रम विहाय यथोचितमुत्प्रेक्षते - चन्द्रेति । चन्द्रमण्डलसहसैनिर्मितं रचितं संस्थानमा -
- - - - -- - टिप्प० - 1 सत्यादीनि चत्वारि युगानि तु सन्त्येव येषामवतारः (प्रवर्तनम्)सुपरिचितः, किन्तु अभिनवः सोयं पञ्चमो नारीयुगावतार इत्याशयः । 2 'युवतिजनलावण्य विशेषयन्नाह' इति प्रतिज्ञाय पुनस्तत्र 'लावण्यप्रभापूरेणे'त्यादि विशेषयन् न जायते काव्यस्पष्टीकरणम् । अतः सेयं योजना-अतिविस्तारिणा प्लावितदिगन्तरेण, (अत एव) अमृतरसविसरेण (करणेन) अर्थात् पीयूषद्रवप्रवाहद्वारा दिवसं सिञ्चतेव तथा अमृतरसप्रवाहद्वारा भुवनान्तरालमार्दीकुर्वतेव ईदृशेन युवतिजनलावण्यप्रभापूरेण (का), तथा बहुलप्रभावर्षिणा मरकतमणिमयेन (आभरणेन, कर्ना) सर्वतः परिगततया तेजोमयमिव । अयं भावः - कन्यान्तःपुरम् अतिविस्तार्यादिविशेषणविशिष्टेन युवतिजनलावण्यप्रभापूरेण व्याप्तं तथा मरकतमयभूषणेन च व्याप्तम् । अत एव तेजोमयमिवेत्युत्प्रेक्षा ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ द्वारपालप्रतीहारी. २ संबाधः. ३ संगृहीतम्. ४ बहल. ५ भूषणेनेव सर्वतः.
कादम्बरीभवनप्राप्तिः
पूर्वभागः ।
379