________________
मण्डलसहसैरिव निर्मितसंस्थानम्, ज्योत्स्नयेव घटितसंनिवेशम्, आभरणप्रभाभिरिव निष्पादितदिगन्तरम्, विभ्रमैरिव कृतसर्वोपकरणम्, यौवनविलासैरिवोत्पादितावयवम्, रतिविलसितैरिव रचितसंचयम्, मन्मथाचरितैरिव कल्पितावकाशम्, अनुरागेणेवानुलिप्तसकलजनप्रेवेशम्, श्रृङ्गारमयमिव, सौन्दर्यमयमिव, सुरताधिदैवतमयमिव, कुसुमशरमयमिव, कुतूहलमयमिव, आश्चर्यमयमिव, सौकुमार्यमयमिव, कुमारः कुमारीपुराभ्यन्तरं ददर्श ।
अतिबहलतया च तस्य कन्यकाजनस्य समन्तादाननद्युतिभिरिन्दुबिम्बवृष्टिमिव पतन्तीम्, अपाङ्गविक्षेपैश्चलितकुवलयवनमयीमिव क्रियमाणामवनीम्, अतिनिभृतभ्रूलताविभ्रमैः कामकार्मुकबलानीव प्रचलितानि, शिरसिजकलापान्धकारैर्बहुलपक्षप्रदोषसार्थानिव संबध्नतः, स्मितप्रभाभिरुत्फुल्लकुसुमधवलानिव वसन्तदिवसान्संचरतः, श्वसितानिलपरिमलैर्मलयमारुतानिव परिभ्रमतः, कपोलमण्डलालोकर्माणिक्यदर्पणसहसाणीव स्फुरितानि, करतलरागेण -
*********** कृतविशेषो यस्यैतादृशमिव । श्यामतासाम्यादिति भावः । पाण्डुरत्वेनाह - ज्योत्स्नयेति । ज्योत्स्नया चन्द्रिकया घटितो निर्मितः संनिवेशः संस्थानं यस्य स एतादृशमिव । अमृतरसविश्रुतेर्वा साम्यम् । आभरणेति । आभरणप्रभाभिभूषणकान्तिभिर्निष्पादितं दिगन्तरं दिगवकाश यस्मिनेतादृशमिव । एतेनाभरणानामतिशयो योतितः । विभ्रमैरिति । विभ्रमैपूँसमुद्भवैः कृतं सर्वोपकरणं सर्वा सामग्री यस्मिन्नेतादृशमिव । यौवनेति । यौवनविलासैस्तारुण्यविलसितैरुत्पादिता अवयवा यस्मिन्नेतादृशमिव । रतीति । रतिः कामयोषित्तद्विलसितै रचितः संचयः समूहो यस्मिन्नेतादृशमिव । मन्मथेति । मन्मथाचरितैः कंदर्पाचरणैः कल्पितोऽवकाशोऽवगाहो यस्मिन्नेतादृशमिव । अन्विति । अनुरागेण प्रीत्यानुलिप्तः सकलजनप्रवेशो यस्मिन्नेवभूतमिव । श्रृङ्गारमयमिव संभोगमयमिव सौन्दर्यमयमिव सुरूपतामयमिव । सुरताधिदैवतमयमिव मैथुनाधिष्ठात्रीमयमिव । कुसुमशरमयमिव कंदर्पबाणमयमिव । कुतूहलमयमिव कौतुकमयमिव । सौकुमार्यमयमिव मार्दवमयमिव ।
चन्द्रापीडस्तस्मिन्कुमारीपुराभ्यन्तर एतान्यद्राक्षीत् तान्येवाह - अतीति । तस्य कन्यकाजनस्यातिबहलतयातिबाहुल्यतया समन्तादाननयुतिभिर्मुखकान्तिभिः कृत्वा पतन्ती क्षरन्तीमिन्दुबिम्बवृष्टिमिव चन्द्रमण्डलवर्षणमिव । अत्र मुखे तत्तदतिशयो व्यङ्ग्यः । अपाङ्गेति । अपाङ्गविक्षेपैः कटाक्षैश्चलितं कम्पितं यत्कुवलयवनमुत्पलखण्डं तन्मयीमवनी पृथ्वी क्रियमाणामिव । प्रबलेन दुर्बलस्योच्चालनं संभवतीति कुमुदातिशयोऽपाङ्गेषु द्योत्यते । अतीति । अतिनिभृता निश्चला ये भ्रूलताविभ्रमास्तैः प्रचलितानि गन्तुं प्रवृत्तानि कामकार्मुकस्य कन्दर्पचापस्य बलानीवोत्कर्षरूपाणीव । अत्र वक्रत्वसाम्यादुपमानोपमेयभावः । शिरसीति । शिरसिजाः केशास्तेषां कलापाः समुदायास्तद्रूपाण्यन्धकाराणि तैर्बहुलपक्षाणां कृष्णपक्षाणां प्रदोषसार्थान्यामिनीमुखसमूहान्संबध्नत इव संग्रथ्नत इव । एतेन केशकलापेषु श्यामतातिशयो द्योत्यते । स्मितेति । स्मितं हास्यं तस्य प्रभाभिः कान्तिभिरुत्फुलकुसुमधवलान्वसन्तदिवसान्संचरत इव व्रजत इव । श्वसितेति । वसितानिलस्य वासवायोः परिमलैरामोदैर्मलयमारुतान्परिभ्रमत इव संचरत इव । कपोलेति । गल्लात्परप्रदेशाः कपोलास्तेषां मण्डलं समूहस्तस्यालौकेः प्रकाशैः स्फुरितानि माणिक्यदर्पणसहसाणीव रत्नादर्शदशशतानीव । एतेन कपोलयोः स्वच्छतातिशयो दर्शितः । करेति । करतलरागेण रक्तकमलवनवर्षिणं जीवलोकमिव । कररुहा नखास्तेषां स्फुरणेन -
- - - - - - - - -- टिप्प० -1 विलासैः । 2 अविचारितार्थोयं पाठः । 'अनुलिप्तसकलजनप्रदेशम्' इत्येव पाठः । प्रदेशस्यैव अनुलेपार्हत्वात् । 3 बलानीति पाठो लिपिकृता भ्रान्तीकृतः । 'कामकार्मुकविलासशतानि' इत्येव पाठः । भृकुटीनामेव कार्मुकेण साकं तुलनौचित्यात् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ विरचित. २ प्रदेशम्. ३ प्रेममयमिव, कुमारः. ४ अनिभृत. ५ शतानि; विलासशता. ६ केशनि.
380
कादम्बरी।
कथायाम