________________
रक्तकमलवनवर्षिणमिव जीवलोकम् करसहस्फुरणेन कुसुमायुधशरसहसैरिव संच्छादितदिगन्तराणि, आभरणकिरणेन्द्रायुधजालकैरुड्डीयमानानीव भवनमयूरवृन्दानि, यौवनविकारैरूत्पाद्यमानानीव मन्मथसहस्त्राण्यद्राक्षीत् । उचितव्यापारव्यपदेशेन कुमारिकाणां सखी हस्तावलम्बेषु पाणिग्रहणानि, वेणुवाद्येषु चुम्बनव्यतिकरान्, वीणासु कररुहव्यापारान्, कन्दुकक्रीडासु करतलप्रहारान्, भुवनलतासेककलशकण्ठेषु भुजलतापरिष्वङ्गान्, लीलादोलाषु नितम्बस्तनप्रेलितानि, ताम्बूलवीटिकावखण्डनेषु दशनोपचारान्, बँकुलविटपेषु मधुगण्डूषप्रचारान्, अशोकतरुताउनेषु चरणाभिघातान्, उपहारकुसुमस्खलनेषु सीत्कारानतिरिक्त सुरतमिवाभ्यस्यन्तीनामपश्यत् ।
यत्र च कन्यकाजनस्य कपोलतलालोक एव मुखप्रक्षालनम्, लोचनान्येव कर्णोत्पलानि, हसितच्छवय एवाङ्गरागाः, निश्वासा एवाधिवासगन्धयुक्तयः, अधरद्युतिरेव कुंकुममुखानु -
***********
विद्योतनेन कुसुमायुधशरसहसैः संच्छादितदिगन्तराण्याच्छादितककुबन्तराणि । आभरणेति । आभरणकिरणान्येवेन्द्रायुधजालकानि तैरुड्डीयमानानीव व्योम्नि व्रजमानानीव भवनमयूरवृन्दानि गृहकलापिमण्डलानि । यौवनेति । यौवनविकारैस्तारुण्यविकृतिभिरुत्पाद्यमानानीव विधीयमानानीव मन्मथसहसाणि मनोभवसहसाणि । उचितेति । उचितो योग्यो यो व्यापारस्तद्व्यपदेशेन तन्मिषेण कुमारिकाणामतिरिक्तमद्भुतं सुरतं मैथुनमभ्यस्यन्तीनामिवाभ्यासं कुर्वन्तीनामिव तत्तदपश्यत् । तत्र सुरतसाधर्म्यमाह - सखीति । सखीनामालीनां हस्तावलम्बेषु करावलम्बेषु पाणिग्रहणानि हस्तगूहनानि । वेणुवाद्येषु वंशातोयेषु चुम्बनव्यतिकरान्मुखस्पर्शनवृत्तान्तान् । वीणासु वल्लकीषु कररुहव्यापारानखरव्यवहारान् । कन्दुकक्रीडास्वन्दुकलीलासु करतलप्रहारान्हस्ततलप्रघातान् । भुवनेति । भुवनलतानां गृहवल्लीना सेकार्थं कलशकण्ठेषु कुम्भनिगरणेषु भुजलतापरिष्वङ्गान्बाहुवल्ल्यालिङ्गनान् । लीलादोलासु क्रीडाप्रेवासु नितम्ब आरोहः स्तनाः कुचास्तेषां प्रेङ्खितानि धुतानि । ताम्बूलेति । ताम्बूलस्य नागवल्लया वीटिकाः प्रसिद्धास्तासां अवखण्डनेषु शकलीकरणेषु दशनोपचारान्दन्तक्षतान् । बकुलेति । बकुलविटपेषु केसरवृक्षेषु मधु मयं तस्य गण्डूषप्रचारांश्चुलुकप्रवृत्तीः । अशोकेति । अशोकतरूणां कङ्केल्लिवृक्षाणां ताडनेषु चरणाभिधातान्पादप्रहारान् । उपेति । मुक्तादीनां हारः, पुष्पादीनामुपहारः, तस्मात्कुसुमादीनां स्खलनानि पतनानि तेषु सीत्कारान्सूक्ष्मध्वनिविशेषा
शब्दान । दश्यते हि हारात्पष्पच्यतिसमये तथा ध्वनिः । अथवोपहारकसमानां स्खलितानि कमारीशरीरावयवेष सीत्कारो वेदनातिशयद्योतको दृढदन्तसंयोगनिमित्तो ध्वनिः । अनेन कुमारीणां कुसुमपातमात्रेण सीत्कार इति सौकुमार्यातिशयो व्यज्यते ।
यत्र चेति । यत्र कन्यान्तःपुरे कन्यकाजनस्य कपोलतलस्यालोक एव प्रकाश एव मुखं वक्त्रं तस्य प्रक्षालनं धावनम् । अत्र स्वच्छत्वकरणसाम्येन जलालोकयोरुपमानोपमेयभावः । कर्णान्तत्वरूपव्यङ्ग्यसाम्येनाह - लोचनेति । लोचनान्येव नेत्राण्येव कर्णोत्पलानि कर्णावतंसानि । पाण्डुरत्वसाम्येनाह - हसितेति । हसितं स्मितं तस्य छवयः कान्तय एवाङ्गरागा विलेपनानि । निश्वासेति । निश्वासाः पवनास्त एवाधिवासे वस्त्रादीनां संस्कारकरणे गन्धयक्तयः सगन्धीकरणप्रकाराः । रक्तत्वसाम्येनाह - अधरेति ।
- टिप्प० - 1 'संछादितानि दिगन्तराणि' इत्यपि पाठः । 2 भवनलतानामित्येव पाठ उचितः । 3 उपहाराय गृहभूतलानां शोभासंपादनाय यानि पुष्पाणि (रचनारूपेण विन्यस्तानि) तेषु स्खलनेषु, अर्थात् पुष्पमध्ये चरणस्खलनेन स्त्रियो भूतलपातभयात् 'सीत्कारन् कुर्वन्तीति तासां सौन्दर्यातिशयो द्योत्यते ।
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ कररुहकिरण. २ संच्छादितमष्टदिगन्तरम्. ३ किरणनिकर. ४ क्रीडासु. ५ भवन. ६ स्थल. ७ वीटिकाखण्डनेषु. ८ बकुलकुसुमदोहदेषु सीधुगण्डूषप्रदानानि. ९ कुकुमानुलेपनम्.
(कुमारीपुरस्य वृत्तान्तः
पूर्वभागः ।
381