________________
भरणकिरणजालकन्तरितावयवमिन्द्रायुधसहससंछादिताष्टदिग्भागमिव जेलधरदिवसम्, अवलम्बितस्थूलमुक्ताकलापस्य कनकश्रृङ्खलानियमितमणिदण्डिकाचतुष्टयस्य गगनसिन्धुफेनपटलपाण्डुरस्य नातिमहतो दुकूलवितानस्याधस्तादिन्दुकान्तपर्यङ्किकानिषण्णम्, उद्धूयमानसुवर्णदण्डचामरकलापम्, उन्मयूखमुखकान्तिविजयपराभवप्रणते शनिव स्फटिकपादपीठे विन्यस्तवामपादम्, इन्द्रनीलमणिकुट्टिमप्रभासंपर्कश्यामायमानैः प्रणतरिपुनिःश्वासमलिनीकृतैरिव चरणनखमयूखजालैरुपशोभमानम्, आसनोल्लसितपद्मरागकिरणपाटलीकृतेनाचिरमृदितमधुकैटभरुधिरारुणेन हरिमिवोरुयुगलेन विराजमानम्, अमृतफेनधवले गोरोचनालिखितहंसमिथुनसनाथपर्यन्ते चारुचामरवायुप्रनर्तितान्तदेशे दुकू वसानम्, अतिसुरभिचन्दना
**
***
णानि तेषां यानि किरणजालकानि । जालान्येव जालकानि स्वार्थे कपू । मरीचिमण्डलानि तैरन्तरिता आच्छादिता अवयवा अपघना यस्य स तम् । नीलपीतादिवर्णयोगात् । तत्रोपमानमाह-इन्द्रेति । इन्द्रायुधानां हरिकार्मुकाणां यत्सहसं तेन संछादितास्तिरोहिता अष्टौ दिग्भागाः ककुभां प्रदेशा यस्मिंस्तथाभूतं जलधरदिवसमिव प्रावृडूदिनमिव । पुनस्तमेव नृपं विशिनष्टि नातीति । नातिमहतः स्थानोचितप्रमाणस्य दुकूलं क्षौमं तस्य वितानमुल्लोचः । 'उल्लोचो वितानं कदकोऽपि ' इत्यभिधानचिन्तामणिः । तस्याधस्तात्तदधः प्रदेश इन्दुकान्तानां चन्द्रकान्तमणीनां या पर्यङ्किका मञ्चिका तस्यां निषण्णमुपविष्टम् । अथ वितानं विशेषयन्नाह - अवेति । अवलम्बित आश्रितः स्थूलानां स्थविष्ठानां मुक्तानां रसोद्भवानां कलापो जालं येन स तथा । कस्य तस्य । कनकेति । कनकं सुवर्णं तस्या या श्रृङ्खला बन्धनरश्मयस्तैर्नियमिता निबद्धा मणिदण्डिका रत्नखचिता यष्टयस्तासां चतुष्टयं यस्मिन्स तथा यस्य । गगनेति । गगनसिन्धोः स्वर्णाद्याः फेनो डिण्डीरः । ‘डिण्डीरोऽब्धिकफः फेन' इत्यभिधानचिन्तामणिः । तस्य पटलं समूहस्तद्वत्पाण्डुरं शुभ्रं तस्य । पुनर्नृपं विशिनष्टिउद्भूयेति । उद्भूयमानो व्यज्यमानः सुवर्णस्य काञ्चनस्य दण्डोऽवलम्बनयष्टिर्येष्वेतादृशानि चामराणि प्रकीर्णकानि तेषां कलापः समूहो यस्य स तम् । स्फटिकेति । स्फटिकानां स्वच्छमणीनां यत्पादपीठं चरणस्थापनस्थलं तत्र विन्यस्तः स्थापितो वामपादः सव्यचरणो येन स तथा तम् । पादपीठं विशेषयन्नाह - शशिनीति । शशिनीव चन्द्रमसीव । अथ शशिनं विशेषयन्नाह - उन्मयूखेति । उदूर्ध्वं मयूखाः किरणा यस्मिन्नेतादृशं यन्मुखं तस्य या कान्तिर्दीप्तिस्तया यो विजयो जयस्तेन यः पराभवस्तिरस्कारस्तेन प्रणते पादसंलग्ने । पुनर्नृपं विशेषयन्नाह चरणेति । चरणानां पादानां ये नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां जालानि समूहास्तैरुपशोभमानं भासमानम् । मयूखजालं विशेषयन्नाह - इन्द्रेति । इन्द्रनीलमणीनामिन्द्रमणीनां या कुट्टिमप्रभा बद्धभूमिकान्तिस्तस्याः संपर्को मिश्रभावस्तेन श्यामायमानैः श्यामवदाचरमाणैः । कीदृशैरिव । प्रणतेति । प्रणता नता ये रिपवः शत्रवस्तेषां ये निःश्वासाश्चेतनाः तैर्मलिनीकृतैर्मालिन्यं प्राप्तैरिव । पुनर्नृपं विशेषयन्नाह - ऊरू इति । ऊरू सक्थी तयोर्युगलं तेन विराजमानं शोभमानम् । ऊरूयुगलं विशिनष्टि-आसनेति । आसनमुपवेशनस्थलम्, उल्लसिता देदीप्यमाना ये पद्मरागा लोहितमणयस्तेषां ये किरणा मयूखास्तैः पाटलीकृतेन । श्वेतरक्तीकृतेनेत्यर्थः । ‘श्वेतरक्तस्तु पाटलः' इति कोशः । कमिव । अचिरेति । अचिरं त्वरितं मृदितो मर्दितो यो मधुकैटभो' दैत्यविशेषस्तस्य द्रुधिरं रक्तं तेनारुणेन रक्तेनोरुयुगलेन विराजमानं हरिमिव कृष्णमिव । पुनः किं कुर्वाणं नृपम् । वसानं दधानम् । किम् । दुकूले क्षीरोदवस्त्रे । अथैते विशिनष्टि - अमृतेति । अमृतस्य सुधायाः फेनस्तद्बद्धवले शुभ्रे । गोरोचनेति । गोरोचना गोपित्तं तेन लिखितानि यानि हंसमिथुनानि सितच्छदयुग्मानि तैः सनाथः सहितः पर्यन्तः प्रान्तदेशो ययोस्ते । चार्विति । चारुणी च ते चामरे च चारुचामरे तयोर्वायुना समीरणेन प्रनर्तिता आन्दोलिता अन्तदेशाः प्रान्तदेशा ययोस्ते । पुनर्नृपं विशेषयन्नाह - अतीति ।
-
टिप्प० - 1 उत्प्रेक्षालंकारः । 2 यौ मधु-कैटभौ दैत्यविशेषौ । इत्युचितम् ।
पाटा० - १ जलधरसमय. २ आलम्बित ३ पाण्डरस्य ४ इन्दुकान्तमणि. ५ कनक. ६ उन्मयूखकान्तिनिचयपराभव; उन्मयूखमुखविजयपराभव; उन्मयूखमुखकान्तिविजिते पराभव. ७ स्फाटिके. ८ जालकैः ९ पवननर्तित. १० अन्तर्देशे.
शूद्रकवर्णनम्
पूर्वभागः ।
17