________________
क्षितितलनिहितजानुकरकमला सविनयमब्रवीत् - 'देव, बोरस्थिता सुरलोकमारोहतस्त्रिशङ्कोरिव कुपितशतमखहुंकारनिपातिता राजलक्ष्मीर्दक्षिणापथादागता चाण्डालकन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति - ‘सकलभुवनतलरलानामुदधिरिवैकभाजनं देवः । विहंगमश्चायमाश्चर्यभूतो निखिलभुवनतलरत्नमिति कृत्वा देवपादमूलमादायागताहमिच्छामि देवदर्शनसुखमनुभवितुम्' इति । एतदाकर्ण्य 'देवः प्रमाणम्' इत्युक्त्वा विरराम । उपजातकुतूहलस्तु राजा समीपवर्तिनां रोज्ञामालोक्य मुखानि 'को दोषः, प्रवेश्यताम्' इत्यादिदेश । __ अथ प्रतीहारी नरपतिकथनानन्तरमुत्थाय तां मातङ्गकुमारी प्रावेशयत् । प्रविश्य च सा नरपतिसहस्रमध्यवर्तिनमशनिभयपुञ्जितकुलशैलमध्यगतमिव कनकशिखरिणम्, अनेकरत्ना -
***********
त्युत्प्रेक्षा । अपूर्वेति शेषः । अत एव विग्रहिणी शरीरिणी । पुनस्तामेव विशेषयन्नाह - क्षितीति । क्षितितले भूमितले निहिती स्थापितो जानू तलकीलो, अथ च करौ तावेव कमले यया सा तादृशी । सविनयं विनयेन सहवर्तमानम् । किमब्रवीत्तदाह-देवेति । हे देव हे स्वामिन्, द्वारे स्थिता चाण्डालानां दिवाकीर्तीनां कन्यका कुमारी पञ्जरे पक्षिणामाश्रये स्थितं शुकं कीरमादाय गृहीत्वा देवं स्वामिनं विज्ञापयति । स्वरहस्यं निवेदयतीत्यर्थः । केव । सुरेति । सुराणां देवानां लोकं स्वर्गमारोहत आरोहणं कुर्वतस्त्रिशङ्कोरयाज्यस्य राजलक्ष्मीरिव । तामेव विशेषयन्नाह - कुपितेति । त्रिशङ्कोरयाज्यस्य देवयागात्स्वर्गे वासो न भवतीत्यतः कुपितः क्रुद्धो यः शतमख इन्द्रस्तस्य हुंकारः कोपध्वनिस्तेन निपातिताधः क्षिप्ता । कीदृशी चाण्डालकन्यका । दक्षिणेति । दक्षिणापथाद्दक्षिणमार्गादागता प्राप्ता । प्रतीहारी चाण्डालकन्यकायाः सामान्यतो विज्ञापनाविषयमाह - सकलेति । चाण्डालकन्यकायास्त्वियं विज्ञापना । देवेति । हे देव, इति कृत्वा तं शुकमादाय देवस्य राज्ञः पादमूलं चरणमूलमहमागता देवदर्शनसुखं महाराजस्यावलोकनसातमनुभवितुमनुभवविषयीकर्तुमिच्छामि समीहे । इतिशब्दवाच्यमाह - सकलेति । सकलानि समग्राणि यानि भुवनतलानि तेषु यानि रत्नानि तेषामेकं भाजनमुत्कर्षस्थानम् । क इव । उदधिरिव समुद्र इव । यथोदधिः सर्वरत्नानां भाजनं तथा देवो भवानपीत्यर्थः । अयं विहंगमः पक्षी शुक आश्चर्यभूत इत्यद्भुतप्रेक्षणविषयः अतस्तादृशोक्तविशेषत्वादेव निखिलानि यानि भुवनतलानि तेषां रत्नमुत्कृष्टम् । 'जातौ जातौ यदुत्कृष्टं तद्रनमभिधीयते' इति । आदाय गृहीत्वा । देवः प्रमाणमिति । यदेवास्य राज्ञोऽनुशासनं तदेव मया विधेयमित्युक्त्वा विरराम तूष्णीं बभूवेत्यन्चयः । प्रतीहार्युक्तं चाण्डालकन्यकाविज्ञापनावाक्यं सर्वं नृपेणाकर्ण्य राजमन्त्रिवैमत्यं निराकुर्वन्प्रतीहारी प्रतीत्यादिदेश । को दोषः, प्रवेश्यतामिति । स्पष्टम् । कीदृशो राजा । उपेति । उपजातमुत्पन्नं कुतूहलं कौतुकं यस्य स तथा । किं कृत्वा । समीपवर्तिनां निकटस्थानां राज्ञां मन्त्रिणां च मुखानि वदनान्यालोक्य । निरीक्ष्येत्यर्थः । तेषामपि तद्दिदृक्षेति ज्ञात्वेत्यर्थः ।
अथेति । अथ नरपतिकथनानन्तरमुत्थायोत्थानं कृत्वा प्रतीहारी तां मातङ्गकुमारी प्रावेशयत्प्रवेशमकारयत् । प्रविश्य चेति । प्रविश्य प्रवेशं कृत्वा सा चाण्डालकुमारी राजानमद्राक्षीत् । अपश्यदित्यर्थः । ‘दृशिप्रेक्षणे' इत्यस्य लुङि रूपम् । राजानं विशेषयन्नाहनरपतीति । नरपतीनां राज्ञां यत्सहसां तन्मध्यवर्तिनम् । तदन्तरालस्थितमित्यर्थः । कमिव । कनकशिखरिणमिव मेरुमिव । कीदृशं मेरुम् । अशनीति । अशनेरिन्द्रायुधाद्वज्रायद्भयमातङ्कस्तेन पुञ्जिता एकत्रीभूता ये कुलशैलाः क्षेत्रसीमाकारिपर्वतास्तेषु मध्यगतं तदन्तः स्थितम् । पुनर्नृपं विशिनष्टि - अनेकेति । अनेकानि विविधानि यानि रत्नाभरणानि मणिखचितभूष -
१ कमलं. २ द्वारि. ३ निपतिता. ४ चण्डालकन्यका काचित्. ५ विज्ञपयति. ६ तलसर्वरलाना. ७ भूत. ८ मूलमेनम्. ९ अवलोक्य. १० वचना.
(16)
कादम्बरी ।
- कथामुखे