________________
त्वय्यात्मानमवगच्छति कादम्बरी । तदयममृतमथनसमुद्भूतानां सर्वरत्नानामेकेशेष इति शेषनामा हारोऽमुनैव हेतुना बहुमतो भगवताम्भसांपत्या गृहमुपागताय प्रचेतसे दत्तः । पाशभृतापि गन्धर्वराजाय, गन्धर्वराजेनापि कादम्बयें, तयापि त्वद्वपुरस्यानुरूपमाभरणस्येति विभावयन्त्या नभःस्थलमेवोचितं सुधास्नुतो धाम्नो न धरेत्यवधार्यानुप्रेषितः । यद्यपि गुणगणाभरणभूषिताङ्गयष्टयो भवादृशाः क्लेशहेतुमितरजनबहुमतमाभरणभारमङ्गेषु नारोपयन्ति, तथापि कादम्बरीप्रीतिरत्र कारणम् । किं न कृतमुरसि शिलाशकलं कौस्तुभाभिधानं लक्ष्म्याः सहजमिति बहुमानमाविष्कुर्वता भगवता शाङ्गपाणिना । न च नारायणोऽत्रभवन्तमतिरिच्यते । नापि कौस्तुभमणिरणुनापि गुणलवेन शेषमतिशेते । न चापि कादम्बरीमाकारानुकृतिकलयाप्यल्पीयस्या लक्ष्मीरनुगन्तुमलम् । अतोऽर्हतीयमिमं बहुमानं त्वत्तः । न चाभूमिरेषा प्रतीप्रसरस्य । नियतं च भवता लग्नप्रणया महाश्वेतोपालम्भसहसैः खेदयित्वा स्वात्मानमुत्स -
***********
वात्मानं कादम्बर्यवगच्छति जानाति । तदयममृतमथनात्समुद्भूतानां प्रकटितानां सर्वरत्नानामेकशेषोऽवशिष्टोऽतः शेषनामायं हारोऽमुनैव हेतुनैकशेषत्वेनाम्भसापत्या भगवता समुद्रेण बहुमतो गृहमुपागताय प्राप्ताय प्रचेतसे वरुणाय दत्तोऽर्पितः । पाशभृतापि वरुणेनापि गन्धर्वराजाय दत्तः । गन्धर्वराजेनापि कादम्बर्यै दत्तः । तयाप्यस्याभरणस्य त्वद्धपुस्त्वदीयं शरीरमनुरूपं योग्यमिति विभावयन्त्या मनसि विभावनां कुर्वन्त्या । एतस्मिन्नर्थे दृष्टान्तं प्रदर्शयन्नाह - नभ इति । सुधास्नुतश्चन्द्रस्य धाम्नस्तेजसो नभस्थलमेवोचितं योग्यं धरा पृथ्वीत्यवधार्य निश्चित्यानुप्रेषितोऽनुप्रहितः । यद्यपीति । यद्यपि भवादृशा भवत्सदृशाः पुरुषा गुणाः शौर्यादयस्तेषां गणाः समुदायास्त एवाभरणानि तैर्भूषिता शोभिताङ्गयष्टिर्येषां ते तथा क्लेशहेतुः परिश्रमकारणमितरजनाः प्राकृतजनास्तैर्बहुमतमादरपूर्वकं स्वीकृतमाभरणभारं विभूषणवीवधमङ्गेषु हस्तपादादिषु नारोपयन्ति न स्थापयन्ति । तथापीति । यद्यप्येवमस्ति तथापि कादम्बरीप्रीतिरत्र हारधारणे कारणं नियामकम् । प्रीत्यान्यैरपि तथा कृतमित्याह - किं न कृतमिति । लक्ष्म्याः श्रियः सहज सार्धं समुत्पन्नमिति कृत्वा बहुमान सत्कारमाविष्कुर्वता प्रकटीकुर्वता भगवता शाङ्गपाणिना कौस्तुभाभिधानं शिलाशकलमुरसि किं न कृतं किं न विहितम् । न च नारायणस्तथा करोतु नाम । अहं तु तादृशो न भवामीत्यत आह - न चेति । नारायणः कृष्णोऽत्रभवन्तं त्वां न चातिरिच्यते नाधिको भवति । तथा च स्वानुरक्तप्रीतिसंरक्षणस्वभावसाम्येन त्वमपि स एवेत्यर्थः न च हारोऽपि कौस्तुभापेक्षया न्यून इत्याह - नापीति । कौस्तुभमणिरणुनापि गुणलवेन शेष शेषनामानं हारं नाप्यतिशेतेऽतिशयितो न भवति, एवं लक्ष्मीसादृश्यं कादम्बर्यामानयति - न चेति । लक्ष्मीः पद्माकारस्यानुकृतिरनुकरणं तस्य कलांशस्तयाप्यल्पीयस्यापि कादम्बरीमनुगन्तुं सादृश्यं कर्तुं नालं न समर्था । अतो हेतोरियं त्वत्तो भवत इयं बहुमानमर्हति योग्या भवति । नचेयं प्रीतिर्न भवतीत्याह - न च प्रीतिप्रसरस्य प्रीत्युत्कर्षस्यैषाऽभूमिरस्थानम्, अपि तु स्थानमेव । वैपरीत्ये बाधकमाह - नियतेति । नियतं निश्चितं भवता त्वया लग्नः प्रणयः स्नेहो यस्यां एवंविधा महाश्वेता उपालम्भसहसैः खेदयित्वा खेदमुत्पाद्य स्वात्मानं - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'नभःस्थलमेवोचितं सुधासूतेः (चन्द्रस्य) धाम' इति पाठः; प्रमाणं च सहृदयाः । 2 एषा (कादम्बरी) प्रीतिप्रसरस्य अपात्रं न अपि तु पात्रमेवेत्यर्थः । 3 'त्वया भग्नप्रणया (भग्नः प्रणयो यस्याः ईदृशी कादम्बरी) महातामुपालम्भसहसैः (ईदृशेन अदक्षिणेन त्वया सद्भावो विहितः, अत्र चानीतः इति) खेदयित्वा आत्मानं नियतमुत्सक्ष्यति' इत्युचितः पाठः ।
पाठा० - १ उद्धृतानाम्. २ एकः शेष. ३ लब्धनामा. ४ सुधासूते(म. ५ निजगुण. ६ शाङ्गिणा. ७ नापि. ८ महावेताम्. ९ आत्मानम्.
.
(418 A
Y कादम्बरी)
C
कथायाम-)