________________
1
सेकमिव सूचयति । उपचारोऽपि चपलतामिव प्रकाशयति । प्रीतिरप्यनात्मज्ञतामिव ज्ञापयति । विज्ञापनापि प्रागल्भ्यमिव जायते । सेवापि चापलमिव दृश्यते । दानमपि परिभव इव भवति । अपि च स्वयं गृहीतहृदयाय किं दीयते । जीवितेश्वराय किं प्रतिपाद्यते । प्रथमकृतागमनमहोपकारस्य का ते प्रत्युपक्रिया । दर्शनदत्तजीवितफलस्य सफलमागमनं केन ते क्रियते । प्रणयितां चानेन व्यपदेशेन दर्शयति कादम्बरी, न विभवम् । अप्रतिपाद्या हि परस्वता सज्जनविभवानाम् । आस्तां तावद्विभवः, भवादृशस्य दास्यमप्यङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते । दत्त्वात्मानमपि वञ्चिता न भवति । जीवितमप्यर्पयित्वा न पश्चात्तप्यते । प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती महत्ता सताम् । न च तादृशी भवति याचमानानां यादृशी ददतां लज्जा । यत्तु सत्यममुना व्यतिकरेण कृतापराधमिव
***********
उत्कर्षस्तमिव सूचयति । उपचारोऽप्यभ्युत्थानादिरूपोऽपि चपलतामिव प्रकाशयति प्रकटीकरोति । प्रीतिरपि स्नेहोऽप्यनात्मज्ञतां स्वस्वरूपानभिज्ञतां ज्ञापयति । विज्ञापनापि विज्ञप्तिरपि प्रागल्भ्यमिव पाण्डित्यमिव जायते । सेवापि सपर्यापि चापलमिव दृश्यते । दानमपि परिभव इव पराभव इव भवति । प्रथितमहिमवत्त्वादितिभावः । अपि चेति युक्त्यन्तरे, स्वयं गृहीतं हृदयं येनैवंविधाय किं दीयते । अथ च जीवितेश्वराय किं प्रतिप्राद्यते किं कथ्यते । अयं भावः - हृदयाधीनं जीवितं, हृदयं चेद् गृहीतं तदा जीवितेश्वर एव जातः । एवं सति तस्मै जीविताभिधानं किं वस्तु नेयम् । सर्वेषां वस्तूनां जीवितार्थत्वात् । एतदपरं किं प्रतिपाद्यम् । प्रतिपाद्यानां जीवितावधित्वात् । प्रथमं कृतं यदागमनं तदेव महोपकारो यस्यैवंविधस्य ते भवतः का प्रत्युपक्रिया । न कापीत्यर्थः । दर्शनेन दत्तं जीवितफलं येनैवंविधस्य ते तव सफलमागमनं केन क्रियते । अयं भावः - सर्वापेक्षयोत्कृष्टं जीवितफलं त्वयैव दत्तम् । इतः परं त्वत्सदृशमस्माकं किमपि नास्ति, येन त्वदागमनसाफल्यं क्रियते कादम्बर्यनेन व्यपदेशेन हारानयनमिषेण प्रणयितां स्नेहवत्तां त्वयि दर्शयति । न विभवमैश्वर्यम् । तवैतादृशं वस्तु नास्ति यादृशं मम वर्तत इत्येवम् । नन्वत्युत्तममुक्ताकलापस्य स्वविभवत्वप्रदर्शने कोऽयमस्वरस इत्यत आह- अप्रतीति । हीति निश्चितम् । सज्जनल्लिभवानां परस्वता स्वीयपरकीयभावोऽप्रतिपाद्या वर्तते । सतां प्रवृत्तेः परोपकारनिमित्तकत्वेन तद्विभवस्यापि तथात्वादिति भावः । अथ यद्यपरितोषस्तदा विभवो हारादिरूपः स्वोत्कर्षहेतुस्तावदास्तां तिष्ठतु । किं तु भवादृशस्य दास्यमङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते नाकृत्यविधायिनीति व्यपदिश्यते । दत्त्वेति । आत्मानमपि दत्त्वा त्वदधीनं कृत्वा वञ्चिता न भवति न स्यात् । जीवितमप्यर्पयित्वा न पश्चात्तप्यते न प्रश्चात्तापं करोति । (यत्) सतां सत्पुरुषाणां महत्ता गुरुता प्रणेयो विद्यते यस्मिन्नेवंभूतो यो जनस्तस्य प्रत्याख्यानं निराकरणं तत्र पराङ्मुखी प्रणयिजनाभीष्टप्रदाननिराकरणशीला न भवतीत्यर्थः । तत्र हेतुमाह - दाक्षिण्येति । दाक्षिण्यमनुकूलता तस्याः परवती । तदधीनेत्यर्थः दाक्षिण्यं लज्जाधीनं स्यादित्यत आह- न चेति । ददतां वितरणं कुर्वतां यादृशी लज्जा त्रपा स्यात्तादृशी याचमानानां नीचानां च न स्यात् । यत्त्विति । तु पुनरर्थे । यत्पूर्वोक्तं तत्सत्यम् । ततः किमित्य अमुनेति । अमुना व्यतिकरेण त्वदागमनसंबन्धेन त्वयि कृतापराधं विहिताग
-
पूर्वभागः ।
टिप्प० - 1 सतां महत्त्वं तद्वर्तते यद्धि प्रणयिजनानां (द्रव्योपहारदानस्य ) प्रत्याख्याने प्रतिषेधने पराङ्मुखम्, अर्थात् न कदाचित् प्रत्याख्यानं कुर्वन्ति; यतो हि दाक्षिण्यस्वाधीना सा महत्ता । 2 याचकानां तु पूर्वमेव लाघवस्वीकारान्न सा । अत एव अमुना हारसमर्पणव्यतिकरेण कृतापराधमिवात्मानं जानाति, यत्त्वत्स्वरूपयोग्यदानाऽभावेति दातृत्वं स्वीकृतमिति ।
पाठा० १ ज्ञायते. २ गृह्यते. ३ परवशा.
कादम्बरीप्रहितोपहारसमर्पणम्
-
417