________________
क्ष्यति । अतएव महाश्वेता तरलिकामपीमं हारमादाय त्वत्सकाशं प्रेषितवती । तयापि कुमारस्य संदिष्टमेव - ‘न खलु महाभागेन मनसापि कार्यः कादम्बर्याः प्रथमप्रणयप्रसरभङ्गः' इत्युक्त्वा च ताराचक्रमिव चामीकराचलस्य तटे तं तस्य वक्षःस्थले बबन्ध ।
चन्द्रापीडस्तु विस्मयमानः प्रत्यवादीत् - 'मदलेखे, किमुच्यते । निपुणासि, जानासि ग्राहयितुम् । उत्तरावकाशमपहरन्त्या कृतं वचसि कौशलम् । अयि मुग्धे, के वयमात्मनः, के वा वयं ग्रहणाग्रहणस्य वा । आगता खल्वियमस्तं कथा । सौजन्यशालिनीभिर्भवतीभिरुपकरणीकृतोऽयं जनो यथेष्टमिष्टेष्वनिष्टेषु वा व्यापारेषु विनियुज्यताम् । अतिदक्षिणायाः खलु देव्याः कादम्बर्या निर्दाक्षिण्या गुणा न कंचिन्न दासीकुर्वन्ती त्युक्त्वा च कादम्बरीसंबद्धाभिरेव कथाभिः सुचिरं स्थित्वा विसर्जयांबभूव मदलेखाम् । अनतिदूरं गतायां च तस्यां क्रीडापर्वतगतमुदयगिरिगतमिव चन्द्रमसं चन्दनदुकूलहारधवलं चन्द्रापीडं द्रष्टुं समुत्सारितवेत्रच्छत्रचामरचिह्ना निषिद्धाशेषपरिजना तमालिकाद्वितीया -
***********
निजात्मानमुत्सक्ष्यति त्यक्ष्यति । अतएवातो हेतोर्महाश्वेतेमं हारमादाय गृहीत्वा त्वत्सकाशं भवत्समीपं तरलिका प्रेषितवती प्रहितवती । तयापि महाश्वेतयापि कुमारस्य संदिष्टं कथितमेव । महाभागेन सत्पुरुषेण त्वया कादम्बर्याः प्रथमप्रणयप्रसरभङ्गो मनसापि न कार्यो न विधेयः । कायवाग्भ्यां तु सर्वथा निषेध एव सूचितः । इत्युक्त्वेत्यभिधाय चामीकराचलस्य मेरोस्तटे ताराचक्रमिव नक्षत्रसमूहमिव तं हार तस्य वक्षस्थले बबन्ध । चन्द्रापीडस्तु विस्मयमानो विस्मयं कुर्वाणः प्रत्यवादीत्प्रत्यवोचत् । हे मदलेखे, त्वया किमुच्यते । त्वं निपुणासि पण्डितासि । अत एव ग्राहयितुं स्वीकारयितुं जानासि । उत्तरस्य प्रतिवचसोऽवकाशं प्रवेशयोग्यतामपहरन्त्या दूरीकुर्वन्त्या वचसि वाग्व्यापारे कौशलं पाण्डित्यं कृतम् । अयीति कोमलामन्त्रणे । हे मुग्धे, आत्मनो भवदपेक्षया के वयम् । युष्माकं देवयोनित्वादिति भावः । अथ च के वा वयं ग्रहणाग्रहणस्य वा । आगता खलु निश्चितम् इयमस्तं कथा । सौजन्यशालिनीभिः सुजनताशोभिनीभिर्भवतीभिरुपकरणीकृतोऽयं जनो यथेष्टमिष्टेष्वनिष्टेषु वा व्यापारेषु विनियुज्यतां प्रेर्यताम् । खलु निश्चितम् । अतिदक्षिणाया अत्युदारायाः । 'दक्षिणे सरलोदारौ' इति कोशः । कादम्बर्या निर्दाक्षिण्याः सर्वत्र भ्रमणशीला गुणाः कंचित्पुरुषं न दासीकुर्वन्ति । अपि तु सर्वानेव । इत्युक्त्वा चेत्यभिधाय च कादम्बरीसंबद्धाभिरेव कथाभिः सुचिरं स्थित्वा तां मदलेखां विसर्जयांबभूव गृहे गमनायानुज्ञापितवान् । तदनन्तरं तस्यां मदलेखायामनतिदूरं गतायां नातिदूरं प्राप्तायां चित्ररथसुता कादम्बरी पुनरपि द्वितीयवारमपि तदेव सौधशिखरमारुरोहारूढा । अत्र सौधशिखरं विशेषयन्नाह - क्रीडेति । क्रीडार्थं यः पर्वतः शैलस्तत्र गतम् । कमिव । उदयगिरिरुदयाचलस्तत्र गतमिव चन्द्रमसम् । चन्दनं मलयजम्, दुकुलं क्षोमम्, हारः शेषाभिधानः, एतैर्धवलं शुभ्रं चन्द्रापीडं द्रष्टुं वीक्षितुं समुत्सारितानि दूरीकृतानि वेत्रच्छत्रचामरचिह्नानि यया सा । निषिद्धो वर्जितोऽशेषः समग्रः परिजनः परिच्छदो -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 आत्मनः के वयम् ? वयमात्मनोपि न प्रभवः, किमुतान्यस्येत्यर्थः । 2 अत एव - 'निर्दाक्षिण्यमपि इति पाठः । कादम्बर्या गुणा निर्दाक्षिण्यम् (अनुदारमपि, मादृशम्) अपि के न दासीकुर्वन्ति, अपि तु सर्वमेवेत्यर्थः ।
पाठा० - १ महाश्वेतया. २ तरलिका. ३ अनुप्रेषिता. ४ उच्यते. ५ कथयितुम्. ६ ग्रहणस्याग्रहणस्य. ७ गता. ८ अनिविष्टेषु. ९ निर्दाक्षिण्यमपि. १० अनतिचिरम्. ११ पर्वतक. १२ उदयगताम्. १३ उत्सारित. १४ परिजनानुगमना.
कादम्बरीप्रहितोपहारसमर्पणम्
पूर्वभागः ।
1419)