________________
ट्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन, अनेकायतनप्रतिशयितनिष्फलोत्थानेन, दौस्थित्यमपि विविधव्याधिपरिवृतं स्वकुटुम्बमिवोद्वहता, मूर्खतामपि बहुव्यसनानुगतां प्रसूतानेकापत्यामिव दर्शयता, क्रोधमप्यनेकदण्डाभिघातनिर्मितबहुगात्रगेण्डूकं फलितमिव प्रकाशयता, क्लेशमपि सर्वावयवचलितदीपिकादाहव्रणविभावितं बहमुखमिव प्रकटयता, परिभवमपि निष्कारणाकृष्टजनपददत्तपदाकृष्टिशतं प्रवाहमिव दधानेन, शुष्कवनलताविनिर्मितबृहत्कुसुमकरण्डकेन, वेणुलतारचितपुष्पपातनाङ्कुशिकेन, क्षणमप्यमुक्तकालकम्बलखण्डखोलेन जरद्रविडधार्मिकेणाधिष्ठितां चण्डिकामपश्यत् । तस्यामेव च वासमरचयत् ।
अथावतीर्य तुरगात्प्रविश्य भक्तिप्रवणेन चेतसा तां प्रणनाम । कृतप्रदक्षिणश्च पुनः -
***********
विवाह उद्वाहस्तेन प्राप्तं विडम्बनं कदर्थनं यस्य स तेन । अनेकेति । अनेकेष्वायतनेषु चैत्येषु प्रतिशयितं किंचित्फलप्राप्तिबुझ्या स्वापः कृतस्तेन तस्माद्वा निष्फलमुत्थानं जागरणं यस्य स तेन । एतेन वार्धकेऽप्यत्यन्तमुद्योगः सूचितः । दुःस्थितेति । दुःस्थितस्य भावो दौःस्थित्यमप्यसदृत्तमपि विविधा अनेकप्रकारा ये व्याधयः पीडास्तैः परिवृतम् । अनेनासवृत्तपरम्परा सर्वदा वर्तमानैवेति सूचितम् । यथा व्याधिरपि व्याध्यन्तरेण परिवृतो वृद्धिमेव जनयति तद्दौःस्थित्यवृद्धिरेव सूचिता । अत एव तस्य विच्छेद एव नास्तीत्याह -स्वकुटुम्बेति । स्वकीयं कुटुम्बमिवात्मीयस्वजनमिवोद्वहतोद्वहनं कुर्वता । मूर्खतेति । मूर्खस्य भावो मूर्खता तामपि बहुभिर्व्यसनैरासक्तिभिरनुगता सहिताम् । अतएव मूर्खताया व्यसनजनकत्वादाह - प्रसूतेति । प्रसूतानि जनितान्यनेकान्यपत्यानि ययैवंविधामिव दर्शयतान्येभ्यः प्रकाशयता । क्रोधमिति । क्रोधं कोपमप्यनेके दण्डास्तेषां कलहावसरे योऽभिघातस्तैर्निर्मितो बहुगात्राणां गण्डूकः पिटको येन स तम् । अत एवाह - फलितमिव प्रकाशयताविष्कुर्वता । क्लेशमिति । क्लेशः परिश्रमस्तमपि सर्वेष्ववयवेषु ज्वलिता या दीपिकास्तासां दाह इव यो दाहस्तस्माद्यानि व्रणानि देहविकृतिरूपाणि तैर्विभावितं लक्षितम् । अतएव बहुच्छिद्रवत्त्वाद्बहुमुखमिव प्रकटयता प्रकाशयता । परीति । परिभवमपि तिरस्कारमपि निष्कारणं निष्प्रयोजनमाकृष्ट आकर्षितो यो जनस्य पदोऽमिस्तेन दत्तं पदाकृष्टिशतं चरणप्रहारशतं यस्मिन् । अविच्छिन्नगतिमत्त्वात्प्रवाहमिव दधानेन बिभ्रता । शुष्केति । शुष्का या वनलता तया विनिर्मितो निष्पादितो बृहत्कुसुमकरण्डः पुष्पसंस्थापनस्थलं येन । वेण्विति । वेणुलतया रचिताः पुष्पपातनार्थमङ्कुशिका येन । क्षणेति । क्षणमप्यमुक्तोऽत्यक्तः कालकम्बलखण्डस्य कृष्णरल्लकप्रदेशस्य खोलों येन । अन्वयस्तु प्रागेवोक्तः । तस्यामिति । तस्यामेव भूमौ वासं निवासमरचयद्रचितवान् ।
अथेति । तदनन्तरं तुरगादश्चादवतीर्य प्रविश्य च । चण्डिकायतनमिति शेषः । भक्तिप्रवणेन चेतसा तां प्रणनाम नमश्चक्रे । कृतेति । कृता विहिता प्रदक्षिणा येनैवंविधश्च पुनरपि प्रणम्य नमस्कारं कृत्वा प्र -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 अनेकवारान् अभोजनं देवाग्रे शयनसाहसं कृतं किन्तु तनिष्फलमेव जातमित्यर्थः । 2 व्यसनान्येव मूर्खताया अपत्यानीत्युप्रेक्षाशयः । 3 बहुत्वमुचितं न ह्यनेकदण्डाभिघातैरेकगण्डकोत्पादने स्वारस्यम् । 'गात्रगण्डक' मित्येव च पाठः । गण्डका गात्रव्रण ('गूमडा') विशेषाः । गण्डका एव क्रोधस्य फलरूपा इत्युत्प्रेक्षातात्पर्यम् । 4 द्रविडोत्पीडितजनैस्तदङ्गेषु प्रज्वालिताः (दाहार्थम्) । 5 'आकृष्ट' इत्येव पाठ उचितः । निष्कारणम् आकृष्टः शापादिभिस्तिरस्कृतो यो जनस्तस्य । 6 शिरस्त्राणायितमावरणम्, 'खोळ' इति जयपुरग्रामभाषायाम् । 'खोलकः पाकवल्मीकपूगकोषशिरस्त्रके इति विश्वः ।
पाठा० - १ घात. २ गण्डकम्. ३ बहुसुखम्. ४ सप्रवाहमिव; शतसंप्रवाहमिव. ५ आमुक्त. ६ खण्डलोलेन. ७ आवासम्. ८ अरोचयत्.
द्रविडधार्मिकपरिचयः
पूर्वभागः ।
463