________________
प्रणम्य प्रशान्तोद्देशदर्शनकुतूहलेन परिभ्रमन्नुच्चैरारटन्तमाक्रोशन्तं च कुपितं द्रविडधार्मिकमेकदेशे ददर्श । दृष्ट्वा च कादम्बरीविरहोत्कण्ठोद्वेगदूयमानोऽपि सुचिरं जहास । न्यवारयच्च तेन सार्धं प्रारब्धकलहानुपहसतः स्वसैनिकान् । उपसान्त्वनैश्च कथमपि प्रियालापशतानुनयैः प्रशममुपनीय क्रमेण जन्मभूमिं जातिं विद्यां च कलत्रमपत्यानि विभवं वयःप्रमाणं प्रव्रज्यायाश्च कारणं स्वयमेव पप्रच्छ । पृष्टश्चासाववर्णयदात्मानम् । अतीतस्वशौर्यरूपविभववर्णनवाचालेन तेन सुतरामरज्यत राजपुत्रः । विरहातुरहृदयस्य विनोदनतामिवागात् । उपजातपरिचयश्चास्मै ताम्बूलमदापयत् । अस्तमुपगते च भगवति सप्तसप्तौ, आवासितेषु यथासंपन्नपादपतलेषु राजसूनुषु, शाखावसक्तर्तपनीयपर्याणेषु क्षितितललुठनपांसुलसटावधूननानुमितोत्साहेषु गृहीतकतिपयशष्पकवलेषु पीतोदकेषु स्नानार्द्रपृष्ठतया विगतश्रमेषु पुरोनिखातकुन्तयष्टिषु संयतेषु वाजिषु, वाजिसमीपविरचितपर्णर्प्रस्तरे च दिवसगमनखिन्नपरि -
***
*****
शान्तो य उद्देशस्तस्य दर्शनस्य यत्कुतूहलं तेन परिभ्रमन्नितस्ततः संचरन् । उच्चैरुच्चस्वरेणारटन्तं पूत्कुर्वन्तमाक्रोशन्तं च कुपितं द्रविडधार्मिकमेकदेश एकस्मिन्प्रदेशे ददर्शेक्षांचक्रे । दृष्ट्वा विलोक्य । कादम्बरीति । कादम्बर्या विरहे योत्कण्टा तज्ञ्जनितो य उद्वेगस्तेन दूयमानोऽपि पीड्यमानोऽपि सुचिरं चिरकालं यावज्जहास हास्यं चक्रे । न्यवारयच्च निवारणं कृतवांश्च । तेनेति । द्रविडधार्मिकेण सार्धं प्रारब्धकलहान्स्वसैनिकानुपहसतः । उपेति । उपसान्त्वनैः सामभिः प्रियालापानामिष्टवचनानां शतेनानुनयैरनुकूलनैश्च कथमपि महता कष्टेन प्रशमं शान्तभावमुपनीय प्राप्य जन्मभूमिमुत्पत्तिस्थलम्, जातिं ब्राह्मणत्वादिकाम्, विद्यां वेदाध्ययनादिरूपाम्, कलत्रं स्त्री, अपत्यानि पुत्रपुत्रीरूपाणि, विभवमैश्वर्यम्, वयः प्रमाणं वर्षपरिमाणम्, प्रव्रज्यायाश्च दीक्षायाश्च कारणं निदानम्, एतानि स्वयमेव पप्रच्छ प्रश्नविषयीचक्रे । पृष्टश्चासौ द्रविडधार्मिक आत्मानं स्वमवर्णयद्वर्णितवान् । अतीति । अतीतं व्यतिक्रान्तं यत्स्वकीयं शौर्यं पराक्रमः, रूपं सौन्दर्यम्, विभव ऐश्वर्यं, तेषां वर्णनं तत्र वाचालेन वाचाटेन तेन द्रविडधार्मिकेण राजपुत्रञ्चन्द्रापीडः सुतरामतिशयेनारज्यतानुरक्तो बभूव । विरहेति । विरहेणारं हृदयं यस्यैवंभूतस्य राज्ञो विनोदनस्य भावो विनोदनता तामिव सोऽगात् । राज्ञश्चित्तविश्रान्तिस्थान ( ग ) तां जगामेत्यर्थः । उपेति । उपजातः प्राप्तः परिचयो यस्यैवंविधोऽस्मै द्रविडधार्मिकाय ताम्बूलं नागवल्लीदलमदापयद्दापितवान् । अथ च भगवति सप्तसप्तौ सूर्येऽस्तमुपगते सति चन्द्रापीडः परिजनेन सेवकजनेनैकदेश एकत्रस्थले संयतस्य बद्धस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारेण निवेदितं ज्ञापितं शयनीयं तल्पमगादित्यन्वयः । केषु सत्सु । राजसूनुषु नृपपुत्रेषु यथासंपन्नाः पुष्पफलसमृद्धा ये पादपा वृक्षास्तेषां तलेष्वावासितेषु वसतिं प्रापितेषु सत्सु । पुनः केषु सत्सु । वाजिषु तुरङ्गमेषु संयतेषु बद्धेषु सत्सु । अथ वाजिविशेषणानि - शाखेति । शाखायामवसक्तान्यवलम्बितानि तपनीयस्य सुवर्णस्य पर्याणानि पल्ययनानि येषां तेषु । क्षितीति । क्षितितलं पृथ्वीतलं तत्र लुटनेन पांसुला याः सटाः केशसंहतयस्तासामवधूननेन कम्पेनानुमित उत्साहो येषां तेषु । गृहीतेति । गृहीताः कतिपये कियन्तः शष्पकवला बालतृणग्रासा यैस्तेषु । पीतान्युदकानि यैस्तेषु । स्नानेति । स्नानेनार्द्र पृष्ठं येषां तेषां भावस्तत्ता तया विगतो दूरीभूतः श्रमो येषां तेषु । पुर इति । पुरोनिखाता अग्रे स्थापिताः कुन्तयष्टयो येषां तेषु । पुनः कस्मिन्सति । वाजिसमीपेऽश्वसविधे विरचितः कल्पितः पर्णानां पत्राणां प्रस्तरः संस्तरो येन तस्मिन् । दिवसं यावद्गमनेन खिन्ना पदातिजनाः परिकल्पिताः प्रथमप्रहरक्रमेण संस्थापिता
464
टिप्प०
- 1 यथा प्राप्ता इत्यर्थः । 2 'परिवर्तितयामिके' इत्युचितम् । गमनेन केचित्खिन्ना अत एवान्ये परिवर्तिता यामिका येन तस्मिन्निति तदर्थः ।
पाटा० - १ प्रशस्तदेवादर्शन. २ संरब्धः समारब्ध. ३ अतीतस्वसौन्दर्यरूपविभववर्णनावाचालेन. ४ तच्चरितं विनोदनताम् ५ अपनीत. ६ सस्तरे. ७ खित्रे.
-
कादम्बरी |
कथायाम्