________________
कल्पितयामिके सुषुप्सति सैनिकजने, कृतबहुपावकप्रभापीततमसि दिवस इव विराजमाने सेनानिवेशे चन्द्रापीडः परिजनेनैकदेशे संयतस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारनिवेदितं शयनीयमगात् । निषण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखासिका हृदयम् । अरतिगृहीतश्च विसर्जयांबभूव राजलोकम् । अतिवल्लभानपि नाललाप पार्श्वस्थान् । निमीलितलोचनो मुहुर्मुहुर्मनसा जगाम किंपुरुषविषयम् । अनन्यचेताः सस्मार हेमकूटस्य । निष्कारणबान्धवतीमचिन्तयन्महाश्वेतापादानाम् । जीवितफलमभिललाष पुनः पुनः कादम्बरीदर्शनम् । अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय । तमालिकां द्रष्टुमाचकाङ्क्ष । केयूरकागमनमुत्प्रेक्षत । हिमगृहकमपश्यत् । उष्णमायतं पुनरुक्तं निशश्वास । बबन्ध बान्धवेभ्यश्चाधिकां प्रीति शेषहारे । पश्चात्स्थितां पुण्यभागिनीममन्यत पत्रलेखाम् । एवं चानुपजातनिद्र एव तामनयन्निशाम् । उषसि चोत्थाय तस्य जरद्रविडधार्मिकस्यैच्छया निसृष्टैर्धनविसरैः पूरयित्वा मनोरथमभिमतमभिरमणीयेषु प्रदेशेषु निवसन्नत्परेवाहोभिरुज्जयिनीमा -
***********
यामिका यस्मिन्नेवंविधे सैनिकजने सुषुप्सति स्वपितुमिच्छति सति । कृतो विहितो यो बहुपावकः प्रभूताग्निस्तस्य प्रभया पीतं तमो यस्मिन्नेवंविधे दिनावसाने दिवस इव विराजमाने सेनानिवेशे सति । निषण्णस्य चेति । अस्य चन्द्रापीडस्य निषण्णस्योपविष्टस्य तत्क्षणमेव दुःखमासतेऽस्यामिति दुःखासिका रतिर्हदयं पस्पर्श स्पृष्टवती । अरतीति । अरत्योद्वेगेन गृहीत आक्रान्तश्च राजलोक विसर्जयांबभूव शयनायानुज्ञा प्रदत्तवान् । अतीति । अतिवल्लभानप्यतिप्रियानपि पार्थस्थान्समीपवर्तिनो नाललाप न बभाषे । निमीलिते लोचने यस्यैवंभूतो मुहुर्मुहुः किंपुरुषविषयं मनसा चेतसा कृत्वा जगाम गतवान् । अनन्येति । न विद्यतेऽन्यस्मिन् चेतः । चित्तं यस्यैवंभूतो हेमकूटस्य सस्मार स्मरणं चकार । 'मातुः स्मरति' इतिवत् हेमकूटस्येति षष्ठी । निष्कारणेति । महाश्वेतापादानां निष्कारणबान्धवतां निर्हेतुकस्वजनतामचिन्तयत् । पुनःपुनरिवारं कादम्बरीदर्शनमभिललाष वाञ्छयामास । कीदृशम् । जीवितस्य फलमिव फलम् । अपगतेति । अपगतो दूरीभूतो योऽभिमानो गर्वस्तेन पेशलाय हृद्याय । 'पेशलं हृद्य सुन्दरम् इति कोशः । मदेति । मदलेखया सह यः परिचयः संस्तवस्तस्मै नितरां अस्पृहयत्स्पृहां चकार । तमालिका द्रष्टुं विलोकयितुमाचकाङ्क्षाभिललाष । केयूरकस्यागमनमुंप्रेक्षतोट्टङ्कयत । हिमगृहकमपश्यत् । उष्णमुष्णमायतं विस्तीर्णं पुनरुक्तं वारंवारं निशचास निश्वासान्मुमोच । बान्धवेभ्यः स्वजनेभ्योधिकां प्रीति शेषाभिधाने हारे बबन्ध बन्धितवान् । तदर्पितत्वेन तदुपरि रागाधिक्यमिति भावः । पश्चादिति । पश्चात्स्थितां पुण्यभागिनी पत्रलेखाममन्यत ज्ञातवान् । एवं चेति । एवममुना प्रकारेण अनुपजातानागता निद्रा प्रमीला यस्यैवंभूत एव निशां रात्रिमनयद्यापितवान् । उषसि च प्रभात उत्थाय तस्य पूर्वव्यावर्णितस्वरूपस्य जरद्रविडधार्मिकस्येच्छया निसृष्टैर्दत्तैर्धनविसरैर्द्रव्यसमूहैमनोरथमभिलाषं पूरयित्वाभिरमणीयेषु प्रदेशेषु निवसन्निवासं कुर्वनल्परहोभिरेव स्तोकैरेव दिनैरुज्जयिनीं विशा -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 अरतिरिति स्यात् । वस्तुतस्तु दुःखस्य आसनम् आसिका अर्थात् दुःखप्राप्तिरित्यर्थः, 'पर्यायाहर्णोत्पत्तिषु ण्वुच् इति ण्वुच् । 2 तपस्वितया गौरववशात्पादशब्दयोगो बहुत्वं च । वस्तुतस्तु - 'प्रसादानाम् इत्युचित इव प्रतिभाति । 3 ववाञ्छेत्येवोचितम्, किमु स्वार्थे णिच् ? 4 स्वस्य दशया कादम्बर्या अपि दशां कल्पयित्वा तत् (काद०) द्वारा तत्प्रेषणं स्वमनसैव समभावयदित्यर्थः ।
पाटा० - १ प्रभाप्रणाशिततमसि दिवसायमाने सेनानिवेशे. २ हेमकूट; हेमकूटस्य रम्यताम्. ३ उत्कण्ठितोऽचिन्तयत्. ४ प्रसादानाम्. ५ जीवितमिव. ६ च मुहुर्निशवास. ७ स्वेच्छाविसृष्टः, ८ मनोरथानभिमतेष्वतिरमणीयेषु; मनोरथमभिमतेष्वतिरमणीयेषु.
उज्जयिनीप्रवेशः
पूर्वभागः ।।
465