________________
तया कदाचिद्दुर्न्यस्ताष्टेपुष्पिकापातोत्पादितक्रोधेन चण्डिकामपि मुखभङ्गिविकारैर्भृशमुपहसता, कैदाचिन्निवार्यमाणावासरुषिताध्वगारब्धबहुबाहुयुद्धपातभग्नपृष्ठकेन, कदाचित्कृतापराधबालकपलायनामर्षपश्चात्प्रधावितस्खलिताधोमुखनिपातोपलस्फुटितशिरःकपालभुग्नग्रीवेण, कदाचिज्जैनपदकृतनवागतपरमधार्मिकादरमत्सरोद्बद्धात्मना, निःसंस्कारतया यत्किंचनकारिणा, खञ्जतया मन्दं मन्दं संचारिणा, बधिरतया संज्ञाव्यवहारिणा, रात्र्यन्धतयादिवाविहारिणा, लम्बो - दरतया प्रभूताहारिणा, अनेकशः फलपातनकुपितवानरनखोल्लेखच्छिद्रितनासापुटेन, बहुशः कुसुमावचयचलितभ्रमरसहस्रदंशशीर्णीकृतशरीरेण, सहस्रशः शयनीकृतासंस्कृतशून्यदेवकुलकालसर्पदष्टेन, शतशः श्रीफलतरुशिखरच्युतिचूर्णितोत्तमाङ्गेन, असकृदुत्सन्नदेवमातृगृहवास्यृक्षनॅखजर्जरितकपोलेन, सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तखण्डख
***********
त्वाच्चण्डिकामपि मुखभङ्गिविकारैर्भृशमत्यर्थमुपर्हसता हास्यं कुर्वता । कदाचिदिति । कदाचित्कस्मिंश्चित्समये निवार्यमाणो य आवासो निवासस्तेन रुषिताः क्रोधं प्राप्ता येऽध्वगाः पान्यास्तैरारब्धं यद्बहुबाहुयुद्धं तेन पातः पतनं तस्माद्भग्नं स्फुटितं पृष्ठकं यस्य स तेन । कदाचिदिति । कृतापराधा विहितागसो ये बालकाः स्तनंधयास्तेषां पलायनं तस्मादमर्षः क्रोधसंभवस्तेन पश्चात्पृष्ठे प्रधावितः सन्स्खलितस्तेनाधोमुखनिपातस्तेनोपलेऽश्मनि स्फुटितं स्फोट प्राप्तं शिरःकपालं भुग्ना वक्रा ग्रीवा च यस्य स तेन । कदाचिदिति । जनपदेनाधाराधेययोरैक्याज्ञ्जनपदस्थलोकेन कृतो नवागतपरमधार्मिकस्यादरस्तस्मिन्मत्सरस्तत्रोद्धद्ध आत्मा येन । निःसंस्कारेति । निर्गतो दूरीभूतो वर्णसंस्कारो यस्मिंस्तस्य भावस्तत्ता तया । यत्किंचनकारिणा । अविहितकृत्यकारिणेत्यर्थः । खञ्जेति । खञ्जतया खोडतया मन्दं मन्दं यथा स्यात्तथा संचारिणा संचरणशीलेन । बधिरेति । बधिरतयाऽकर्णतया संज्ञया हस्तचालनादिकया व्यवहारिणा व्यवहरणशीलेन । रात्र्येति । रात्र्यन्धतया रजन्यामनवीक्षकत्वेन दिवाविहारिणा दिवससंचारिणा । लम्बेति । लम्बोदरतयाप्रलम्बोदरतया प्रभूताहारिणा प्रचुरान्नभक्षकेण । अनेकश इति । अनेकोपायैर्वृक्षान्दोलनाद्युपायैः फलपातनं तेन कुपिताः कोपं प्राप्ता ये वानराः शाखामृगास्तेषां नखोल्लेखस्तेन छिद्रितं नासापुटं येन । बहुश इति । बहुशो बहुप्रकारेण कुसुमानां स्वभोगार्थमवचयश्श्रुण्टनं तेन चलिता भ्रमरा भृङ्गास्तेषां सहस्रं तस्य दंशा भक्षणानि तैः शीर्णीकृतं जीर्णीकृतं शरीरं यस्य स तेन । सहस्रश इति । सहस्रशः सहस्रवारं शयनीकृतान्यसंस्कृतान्यशोधितानि शून्यानि जनरहितानि देवकुलानि तेषु ये कालसर्पाः कृष्णनागास्तैर्दष्टेन भक्षितेन । शतश इति । श्रीफलतरुबिल्वतरुस्तस्य शिखरमग्रं तस्माच्युतिः पातः । फैलस्येति शेषः । तेन चूर्णितमुत्तमाङ्गं शिरो यस्य स तेन । असकृदिति । असकृद्वारंवारमुत्सन्नमुद्धसं यद्देवमातृगृहं तद्वासिनो ये ऋक्षा भल्लूकास्तेषां नखैर्जर्जरितौ कपोलौ यस्य स तेन । सर्वदेति । सर्वदा सर्वकालं वसन्तंक्रीडिना सुरभिक्रीडाकारिणा जनेनोत्क्षिप्ता या खण्डा भग्ना खट्वा पल्यङ्कस्तस्यामारोपिता स्थापिता या वृद्धा जीर्णा दासी कूटहारिका तया सह यो
-
टिप्पo - 1 अष्टानां पुष्पाणां समाहारः अष्टपुष्पी, अज्ञाता अष्टपुष्पी अष्टपुष्पिका ( 'क' प्रत्ययः) । अज्ञातानि यानि कानिचिदष्टौ पुष्पाणि चण्डिकायाः पीठे दुःप्रकारेण विहितानि । तानि पुष्पाणि दैवात्पतितानि, कौतुकाय केनचित्पातितानि वा । ततस्तदुपरि द्रविडस्य क्रोधश्चण्डिकाया उपरि भवति यत्त्वं पुष्पाण्यपि रक्षितुं नापारयः, अत एव मुखभङ्गिविकारैस्तामुपहसतीत्याशयः । 2 शिक्षा - सत्सङ्गादिजनितसाधुवासनाहीनत्वेन अकार्येष्वपि प्रवृत्तेनेत्युचि - तोर्थः । 3 फलादिग्रहणार्थमारूढस्य स्वस्यैव । लोलुपत्वातिशयस्य विवक्षणात् । 5 वसन्तक्रीडा 'होलिका' महोत्सवः । तत्र ह्येवंविधविरूपरूपकाणि ( ' वग') कौतुकभिर्निस्सार्यन्ते ।
पाठा० - १ आखुपुष्पिका. २ कदाचिन्निवार्यमाणावासिताध्वगारब्धबहुबाहुयुद्धपातभग्नपृष्ठेन कदाचिदनवरतभुजशिखरलोहिना शिरः कम्पनवक्रितग्रीवेण ३ जानपद. ४ असारीकृत.
५ क्षतज.
462
कादम्बरी |
कथायाम्