________________
चन्द्रापीडेन, तत्परित्यागसंकल्पसमकालप्रस्थितेन कण्ठलग्नेन पृष्टेव जीवितेन, ‘अविशेषज्ञ, पुनरपि प्रक्षालितलोचनया दृश्यतामसौ जनः, प्रत्याख्यानयोग्यो न वा' इति तत्कालागतेनाभिहितेव बाष्पेण, 'अपनयामि ते सहासुभिधैर्यावलेपमिति निर्भसिंतेव मनोभुवा, पुनरपि तथैव चन्द्रापीडाभिमुखहृदया बभूव ।
तदेवमस्तमितप्रतिसमाधानबलात्प्रेमावेशेनास्वतन्त्रीकृता परवशेवोत्थाय जालवातायनेन तमेव क्रीडापर्वतकमवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्विग्नेव स्मृत्या ददर्श, न चक्षुषा । अङ्गुलीगलितस्वेदपरामर्शभीतेव चिन्तया लिलेख, न चित्रतूलिकया । रोमाञ्चतिरोधानशङ्कितेव हृदयेनालिलिङ्ग, न वक्षसा । तत्संगमकालातिपातासहेव मनो गमाय नियुक्तवती, न परिजनम् । चन्द्रापीडोऽपि प्रविश्य स्वच्छन्दं कादम्बरीहृदयमिव द्वितीयं -
*********** कल्पस्तदध्यवसायस्तत्समकालं प्रस्थितेन चलितेन कण्ठलग्नेन जीवितेन पृष्टेव प्रश्नविषयीकृतेव । अन्योऽपि यः प्रस्थानं करोति सोऽपि कण्ठे लगित्वा गच्छामीति प्रश्नपूर्वकं व्रजति । तत्कालागतेन तत्समयावच्छेदेन प्रादुर्भूतेन बाष्पेन नेत्राम्बुनेत्यभिहितेवेति कथितेव । इतिवाच्यमाह - अविशेषेति । हे अविशेषज्ञ, पुनरपि प्रक्षालितलोचनया त्वयासौ जनो दृश्यतामालोक्यताम् । न चाप्रत्याख्यानयोग्यो निराकरणयोग्यः । इतीति । इति मनोभुवा कंदर्पण निर्भसिंतेवाधिक्षिप्तेव । इतियोत्यमाह - अपेति । ते तवासुभिः प्राणैः सह धैर्यावलेपं धीरिमाहंकारमपनयामि दूरीकरोमि । पुनरपीति । तथैव पूर्वोक्तप्रकारेणैव चन्द्रापीडस्याभिमुखं हृदयं यस्या एवंभूता पुनरपि बभूव जज्ञे ।
उत्कण्ठातिशयेन रतिभावं पुनः मो(पो)षयन्नाह - तदेवमिति । तदेवं पूर्वोक्तप्रकारेणास्तमितमस्ततां प्राप्तं सत्समाधानं किमनेन चपलेन कार्यमित्यादि निर्वेदरूपं तदेव बलं तस्मात्प्रेमा चन्द्रापीडविषयकः स्मृतिरूपस्तस्यावेशेन प्रवेशेनास्वतन्त्रीकृता परायत्तीकृता परवशेव पराधीनेवोत्थायोत्थानं कृत्वा जालवातायनेन जालगवाक्षेण तमेव क्रीडापर्वतकमवलोकयन्ती पश्यन्त्यतिष्ठदासीत् । पुनर्भावानेवाह - तत्रस्थेति । तत्रस्था वातायनोपविष्टा सा तं चन्द्रापीडमानन्दजलेन हर्षाश्रुणा यद्व्यवधानं तेनोद्विग्नेवोद्वेगं प्राप्तेव स्मृत्यानुभवव्यतिरिक्तज्ञानेन ददर्शालोकयांचकार न चक्षुषा । अङ्गुलिभ्यो गलितो यः स्वेदस्तस्य परामर्शः संश्लेषस्तेन भीतेव त्रस्तेव चिन्तया लिलेख, न चित्तूलिकया । तदाकृतिं भावनया भावितवती, न कूर्चिकया लिखितवतीत्यर्थः । रोमाञ्च इति । रोमाञ्चो रोमोद्गमस्तेन तिरोधानमाच्छादनं तेन शङ्कितेव हृदयेन चित्तेनालिलिङ्गाश्लेषं कृतवती । वक्षसा भुजान्तरेण । तस्येति । तस्य चन्द्रापीडस्य यः संगमः संश्लेषस्तत्र कालातिपातः कालविलम्बस्तं सोढुमसहेवाशक्तेव गाय तदालिङ्गनाय मनो नियुक्तवती प्रेषितवती । न परिजनम् । अत्रायमभिप्रायः - आनन्दजलं व्यवधायकमिति न चक्षुषा तथादर्शनमित्युद्धेगः । अङ्गुलीगलितस्वेदेन चित्रतूलिकाविलिखनस्य विलोपो भयहेतुर्वक्षसालिङ्गनेन च रोमाञ्च एव व्यवधायक इति सर्वथा नानन्तरितालिङ्गनमिति शङ्काहेतुः । मनसः सत्वरगतिं मत्वा तस्य परिजनस्य तथात्वभावात्कालातिपातः । अत्र चानन्दजलादीनां स्मृत्यादीनां चातिशया व्यङ्ग्याः । नायिकामालम्ब्य भावशबलत्वमुक्त्वा नायकमाश्रित्य भावशबलत्वमाह - चन्द्रापीडोऽपीति । स्वच्छन्दं यत्कादम्बरीहृदयं तद्वदिव द्वितीयं मणिगृहं प्रविश्य शिलातल आस्तीर्णायां विस्तारितायामुभयतः पार्थद्वय - टिप्प० - 1 'तदेवमस्तमितप्रतिसमाधानबला बलात्प्रेमावे० इत्यपि पाठः । अस्तमितं प्रतिसमाधानबलं धैर्यावलम्बनसामर्थ्य यस्याः, अतएव प्रेमावेशेन बलात् अस्वतन्त्रीकृता, अत एव परवशेव उत्थाय, इति तदर्थः । 2 'गमागमाय' इत्यपि पाठः । चन्द्रापीडान्तिके यातायाताय मनो नियुयोज, मनसो द्रुतगामित्वात् ।
पाठा०.१ चन्द्रापीडेन तत्परित्याग. २ बलाबलात्. ३ पर्वतम्. ४ गमागमाय; गमनागमने. ५ स्वच्छम्.
चन्द्रापीडस्य मनसि विचाराः
पूर्वभागः।