________________
वाजिकाभिः, परिणततालफलवल्कललोहितवस्त्राभिश्च रक्तपटव्रतवाहिनीभिः सितवसननिबिडनिबद्धस्तनपरिकराभिश्च धेतपटव्यजनाभिर्जटाजिनवल्कलाषाढधारिणीभिर्वणिचिह्नाभिस्तापसीभिः, साक्षादिव मन्त्रदेवताभिः पठन्तीभिर्भगेवतस्त्र्यम्बकस्याम्बिकायाः कार्तिकेयस्य विश्रवणस्य कृष्णस्यार्यविलोकितेश्वरस्याहतो विरिञ्चस्य पुण्याः स्तुतीरुपास्यमानाम्, अन्तःपुराभ्यर्हिताश्च सादरं नमस्कारैराभाषणैरभ्युत्थानैरासन्नवेत्रासनदानैश्च गन्धर्वराजबान्धववृद्धाः समानयन्ती महाश्वेताम्, पृष्ठतश्च समुपविष्टेन किंनरमिथुनेन मधुकरमधुराभ्यां वंशाभ्यां दत्ते ताने कलगिरा गायन्त्या नारदहिव्या पठ्यमाने च सर्वमङ्गलमहीयसि महाभारते दत्तावधानां पुरो धृते च दर्पणे ताम्बूलरागबद्धकृष्णिकान्धकारिताभ्यन्तरं दशनज्योत्स्नासिक्तमुत्सृष्टमधूच्छिष्टपट्टपाण्डुरमधरं विलोकयन्ती शैवलतृष्णया कर्णपूरशिरीषप्रेषितोत्तानवि -
***********
ताभिः । रक्तेति । रक्तो यः पटस्तस्य यव्रतं तद्वाहिनीभिस्तनिर्वाहकारिणीभिः । अथ तापसी विशिनष्टि - सितेति । सितवसनेन श्वेतवस्त्रेण निबिडं यथा स्यात्तथा निबद्धः स्तनपरिकरः कुचाभोगो याभिः । श्वेतपटस्य व्यजनानि तालवृन्तानि यासां ताभिः । जटेति । जटाः सटाः, अजिनं मृगचर्म, वल्कलं चोचम्, आषाढः पालाशः, एतान्धारयन्तीत्येवंशीलास्ताभिः । वर्णी ब्रह्मचारी तस्य चिह्न यासां ताभिः । किं कुर्वन्तीभिरेताभिः । पठन्तीभिरुच्चारयन्तीभिः । काः । भगवतस्त्र्यम्बकस्येश्वरस्य, अम्बिकाया गौर्याः कार्तिकेयस्य स्कन्दस्य विश्रवणस्य विश्रवसः, कृष्णस्य जिनस्य, आर्यविलोकितेश्वरस्य बौद्धस्य, अर्हतस्तीर्थंकरस्य, विरिञ्चस्य ब्रह्मणः, पुण्याः पवित्राः स्तुतीनुतीः । पुनः किं कुर्वन्तीम् । अन्तःपुरेऽभ्यर्हिताः श्रेष्ठा गन्धर्वराजस्य बान्धवाः स्वजनास्तेषां वृद्धाः स्थविराः सादरं सत्कारपूर्वकं नमस्कारैः प्रणामैराभाषणैर्जल्पनैरभ्युत्थानैरुत्तिष्ठनैरासने समीपे वेत्रासनस्यासन्या दानैश्च कृत्वा समानयन्ती सत्कारं कुर्वन्ती महाश्वेताम् । पुनः कीदृशी कादम्बरीम् । पृष्ठतः समुपविष्टेन पश्चाद्भागस्थितेन किंनरमिथुनेन किंपुरुषयुग्मेन मधुकरवन्मधुराभ्यां वंशाभ्यामुपाङ्गाभ्यां ताने स्वरे दत्ते सति । नारदो देवब्रह्मा तस्य दुहित्र्या पुत्र्या मद्राभिधानया कलगिरा मनोज्ञवाण्या गायन्त्या गानं कुर्वन्त्या । पठ्यमाने गानद्वारा कथ्यमाने च सर्वमङ्गलैः समग्रश्रेयोभिर्महीयसि महाभारते दत्तावधानां न्यस्तचित्ताम् । पुनः किं कुर्वन्तीम् । पुरो धृतेऽग्रे स्थापिते दर्पणेऽधरं दन्तच्छदं विलोकयन्तीं पश्यन्तीम् । अथाधरं विशेषयन्नाह - ताम्बूलेति । ताम्बूलं नागवल्लीदलं तस्य रागस्तेन बद्धा या कृष्णिका श्यामता तयान्धकारितमन्धकारवदाचरितमभ्यन्तरं मध्यभागो यस्य तत् । दशनेति । दशनानां दन्तानां या ज्योत्स्ना चन्द्रिका तया सिक्तं सिञ्चितम् । उत्सृष्टेति । उत्सृष्टमुज्झितं मधु क्षौद्रं येनैवंविधो य उच्छिष्टपट्टो मदनैपिण्डस्तद्वत्पाण्डुरं श्वेतरक्तम् । बद्धेति । बद्धमण्डलं यथा स्यात्तथा भ्रमता भ्रमणं कुर्वता भवनकलहंसेन गृहकलहंसेन प्रभातकालीनो यः शशी चन्द्रस्तेनेव क्रियमाणा विधीयमाना गमनसमये प्रणामयुक्ता प्रदक्षिणा यस्याः सा ताम् । कलहंसान्विशेषयन्नाह - शैवलेति । शैवलं शैवालं तस्य तृष्णया गर्थेन कर्णपूरीकृतं यच्छिरीषपुष्पं तस्मिन्प्रेषित उत्तान ऊर्ध्वमुखे -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० . 1 कृष्णस्य - वासुदेवस्य । 2 उत्थानैरित्येव भवति, न उत्तिष्ठनैरिति बोध्यं छात्रैः । 3 वेणुभ्याम्, 'बंसी इति भाषा । 4 'मोम' इति ख्यातस्य पिण्डः । 5 भवनकलहंसेन क्रियमाणाः गमनं प्रणामः प्रदक्षिणाश्च यस्यास्ताम् । हंसः समीपे गमनं प्रणाम प्रदक्षिणां च कृत्वा कर्णपूरशिरीषं याचत इत्यर्थः । 6 कलहंसमित्येकवचनमेव योग्यम् ।
पाठा० - १ मौजीवल्कल. २ शौद्धोदने. ३ विष्टरश्रवसो जिनस्यार्य. ४ अर्हतो वैश्वदेवस्य मार्तण्डस्य. ५ दर्शनागतगन्धर्व. ६ मिथुनकेन. ७ मधुराभ्याम्. ८ स्थानके ताले. ९ नारददुहित्रा च सावित्र्या. १० पुरोविधृते परिजनेन. ११ मणिदर्पणे. १२ उत्सृष्ट. १३ पाटलम्.
(चन्द्रापीडस्य कादम्बर्युपगमनम्
पूर्वभागः ।