________________
कुमुददलोपनीतनिशा पङ्कजेषु निपपात लक्ष्मीः । क्षणदापगमे च स्मृत्वा कामिनीकर्णोत्पलप्रेहारानुत्कण्ठितेष्विव क्षामतां व्रजत्सु पाण्डुतनुषु गृहप्रदीपेषु, अनवरतशरक्षेपखिन्नानङ्गनिःश्वासविभ्रमेषु व॑हत्सु लेताकुसुमपरिमलेषु प्रभातमातरिश्वसु, सुमन्दरलतागृहगहनानि च भियेव भजन्तीष्वरुणोदयोपप्लविनीषु तारकासु, क्रमेण च समुद्गते चक्रवाकहृदयनिवासलग्नानुरागमिव लोहितं मण्डलमुदहति सवितरि, शिलातलादुत्थाय चन्द्रापीडः प्रक्षालितमुखकमलः कृतसंध्यानमस्कृतिर्गृहीतताम्बूलः ‘केयूरक, विलोकय देवी कादम्बरी प्रबुद्धा न वा, क्व वा तिष्ठति' इत्यवोचत् ।
गतप्रतिनिवृत्तेन च तेन 'देव, मन्दरप्रासादस्याधस्तादङ्गणसौधवेदिकायां महाश्वेतया सहावतिष्ठते' इत्यावेदिते गन्धर्वराजतनयामालोकयितुमाजगाम । ददर्श च धवलभस्मललाटिकाभिरक्षमालापरिवर्तनप्रचलकरतलाभिः पाशुपतव्रतधौरिणीभिर्धातुरागारुणाम्बराभिश्च परि -
***********
यस्या एवंभूतेव । आरूढमदनतायास्तु शीतलस्थानावस्थितिः प्रजागरश्च स्यादित्याशयेनाह - कुमुदेति । कुमुददलानां कैरवपत्राणां उदरे मध्ये नीता परिकलिता निशा रात्रिर्यया सा । तेषां विकसितत्वात् । तदनन्तरमेव पङ्कजेषु कमलेषु लक्ष्मीनिपपात । क्षणदेति । क्षणदाया निशाया अपगमे कामिनीनां रते याकर्णोत्पलप्रहारान् अथ वान्यानपि क्रीडाविलासान्स्मृत्वा स्मरणं कृत्वा पुनर्द्रष्टुमुत्कण्ठितेष्विवात एवोत्कण्ठापरिपूर्त्या क्षामतां कृशतां व्रजत्सु गच्छत्सु तत एव पाण्डुतनुषु गृहदीपकेषु सत्सु । अनवरतेति । अनवरतं निरन्तरं यः शरक्षेपो बाणप्रक्षेपस्तेन खिन्नो रीणो योऽनङ्गः कंदर्पस्तस्य निःश्वासास्तेषां विभ्रमेषु, लता वल्यस्तासां कुसुमानां पुष्पाणां परिमलो येष्वेवंविधेषु प्रभातमातरिश्वसु प्रत्यूषसमीरेषु वहत्सु । अरुणोदयेन उपप्लव उपद्रवो विद्यते यासामेवंविधासु तारकासु तारासु भियेव भीत्येव सुमन्दरो मेरुस्तस्य लता वीरुधस्ता इव (एव) गृहास्तेषां गहनान्यरण्यानि च भजन्तीष्वाश्रयन्तीषु । क्रमेण परिपाट्या चक्रवाको रथाङ्गाह्वयस्तस्य । हृदयं तेन सह निवासस्तत्र लग्नोऽनुरागो यस्यैवंविधमिव लोहितं मण्डलं बिम्बमुदहति धारयति सवितरि सूर्ये च समुद्गत उदिते सति । शिलातलादुत्थाय प्रक्षालितं मुखकमलं येन सः, कृता संध्याया नमस्कृतिर्येन सः, गृहीतं भक्षितं ताम्बूलं येन सः, हे केयूरक, विलोकय देवी कादम्बरी प्रबुद्धा न वा । क्व वा तिष्ठतीत्यवोचत् ।
गतप्रतिनिवृत्तेन च तेन केयूरकेण हे देव, मन्दरप्रासादस्याधस्तादङ्गणं तत्र यत्सौधं तस्य वेदिकायां महाश्वेतया सहावतिष्ठते इत्यावेदिते कथिते सति गन्धर्वराजतनयामालोकयितुं वीक्षितुमाजगाम । तदनन्तरं महाश्वेता कादम्बरी च ददर्शावलोकयामास । अथ महाश्वेता विशिनष्टि - साक्षादिति । साक्षान्मन्त्रदेवताभिरिव पब्रिाजिकाभिस्तापसीभिरूपास्यमानाम् । ता विशिनष्टि - धवलेति । धवल शुभ्रं यद्भस्म भूतिस्तस्य ललाटिका यासां ताभिः । अक्षेति । अक्षमाला जपमालास्तासां परिवर्तनं तेन प्रचलानि कम्प्राणि करतलानि यासा ताभिः । पशुपतेरीश्वरस्येदं पाशुपतं यव्रतं नियमविशेषस्तद्धारयन्तीत्येवंशीलास्ताभिर्धातुरागेण गैरिकेणारुणान्यम्बराणि यासां ताभिः । परिणता ये तालफलास्तेषां वल्कलानि तान्येव लोहितानि रक्तानि वस्त्राणि यासा -
- टिप्प. - 1 रतार्थमपनीयमाने वस्त्रे प्रदीपोपशमार्थ कामिन्यः कर्णोत्पलं तदुपरि क्षिपन्ति, तं स्मृत्वा पुनस्तादृशप्रहारप्राप्त्यर्थमुत्कण्ठा प्रदीपानामित्याशयः । 2 कंदपनिःश्वासानां विभ्रमा इव विभ्रमाः (विलासाः) येषां तादृशेषु । कामनिःश्वासायितेष्विति यावत् । 3 परिणतं यत्तालफलं तस्य यद्वल्कलं (त्वक्) तद्वत् लोहितानि ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ स्मृतकामिनीकर्णोत्पलप्रहारेषु. २ प्रहाराणाम्. ३ वासगृह. ४ भ्रमत्सु. ५ तरुलता. ६ आमोदिषु. ७ मन्दरगिरिलता. ८ समुद्गतचक्रवाक. ९ आलोहितम्. १० अवतिष्ठति. ११. भस्मकृत्. १२ मालिका. १३ चारिणीभिः.
426
कादम्बरी ।
कथायाम्