________________
मनया परिगृहीतम्, किं पुनरमुनोपचारफल्गुना वचसा सदेहदोलामारोप्यते' इति । स्थित्वा च कंचित्कालं कृतप्रस्तावा 'कथं राजा तारापीडः, कथं देवी विलासवती, कथमार्यः शुकनासः, कीदृशी चोज्जयिनी, कियत्यध्वनि सा च, कीदृग्भारतं वर्षम्, रमणीयो वा मर्त्यलोकः' इत्यशेषं पप्रच्छ । एवंविधाभिश्च कथाभिः सुचिरं स्थित्वोत्थाय कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं समादिश्य परिजनं च शयनसौधशिखरमारुरोह । तत्र च सितदुकूलवितानतलास्तीर्ण शयनीयमलंचकार । चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निरभिमानतामभिरूपतामतिगम्भीरतां च कादम्बर्याः निष्कारणवत्सलतां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां च किंपुरुषदेशस्य मनसा भावयन्केयूरकेण संवाह्यमानचरणः क्षणादिव क्षणदां क्षपितवान् ।
अथ क्रमेण कादम्बरीदर्शनजागरखिन्नः स्वप्नुमिव तालतमालतालीकदलीकन्दलिनी प्रेविरलकल्लोलानिलशीतलां वेलावनराजिमवततार तारापतिः । अभ्यर्णविरहविधुरस्य च कामिनीजनस्य निःश्वसितैरिवोष्णैानिमनीयत चन्द्रिका । चन्द्रापीडविलोकनारूढमदनेव -
***********
मात्तम् । किं पुनरमुनोपचारेण फल्गुना निरर्थकेन वचसा किं वचनव्यापारेण संदेहदोलामारोप्यते । मन इति शेषः । इत्युक्तप्रकारेण कंचित्कालं स्थित्वा विलम्ब्य च कृतो विहितः अर्थात्प्रश्नस्य प्रस्तावोऽवसरो यया सैवंविधा सतीत्यशेषं समग्रं पप्रच्छापृच्छत् । इतिशब्दयोत्यमाह - कथमिति । कथं केन प्रकारेण राजा तारापीडः । देवी विलासवती कथम् । कथं आर्यः शुकनासः । कीदृशी चौज्जयिनी विशाला । सा चोजयिनीतः कियत्यध्वनि मार्गे । कीदृग्भारतं वर्षं क्षेत्रम् । रमणीयो वा मनोहरो वा मर्त्यलोको मनुष्यलोकः । एवमिति । एवंविधाभिरेवंप्रकाराभिः कथाभिर्वार्ताभिः सुचिरं बहुकालं स्थित्वावस्थानं कृत्वोत्थाय कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं परिजनं च समादिश्यादेशं दत्त्वा शयनयोग्यं यत्सौधशिखरं तदारुरोहारूढवती । तत्रेति । तत्र तस्मिन्सौधतले सितं शुभ्रं यदुकूलं दुगूलं तस्य वितानं चन्द्रोदयस्तस्य तलमधोभागस्तत्रास्तीर्णं स्थापितं शयनीयं शय्यामलंचकारालंकृतवती । चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निरभिमानतां निर्गर्वतामभिरूपतां विचक्षणतामतिगम्भीरतां च कादम्बर्याः निष्कारणवत्सलतां च निर्हेतुकहितकारितां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां मनोहरतां च किंपुरुषदेशस्य मनसा भावयश्चिन्तयन्केयूरकेण संवाह्यमानौ लाल्यमानौ चरणौ पादौ यस्यैवंभूतः क्षणादिव क्षणमात्रेणेव क्षणदां त्रियामां क्षपितवान्क्षयं नीतवान् ।
इदानीं रात्रिशेषं चन्द्रास्तं सूर्योदयं च वर्णयश्चन्द्रापीडकर्तव्यतामाह - अथेति । क्षणदाक्षयानन्तरं कादम्बर्या यत् दर्शनं अवलोकन तेन जागरणं तेन खिन्नो रीणः स्वप्नुमिव शयनं कर्तुमिव तारापतिश्चन्द्रः । वेलेति । वेलाम्भसां वृद्धिस्तस्या वनराजि कान्तारश्रेणिमवततारावतीर्णवान् । अथ वनराजिं वर्णयन्नाह - तालेति । तालस्तालवृक्षः, तमालस्तापिच्छः, ताली वृक्षविशेषः, कदली रम्भा, आसां कन्दैलो विद्यते यस्यां सा ताम् । प्रविरलेति । प्रविरलाः स्तोका ये कल्लोलास्तरंगास्तेषामनिलो वायुस्तेन शीतलां सुशीताम् । अभ्यर्णेति । अभ्यर्णस्तत्कालीनो यो विरहो वियोगस्तेन विधुरस्य दुःखितस्य कामिनीजनस्योष्णैनिःश्वसितैनिःश्वासैरिव म्लानिं मलिनतां चन्द्रिका चन्द्रगोलिकानीयत प्राप्यत । चन्द्रेति । चन्द्रापीडविलोकनेन आरूढः प्राप्तो मदनो -
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 इतः कियहूरे वर्तत इति तात्पर्यम् । 2 समूहः । 3 रात्रिसमाप्त्या कामिनोविच्छेदो जात इत्याशयः।
पाठा०.१ प्रजागर. २ अविरल.
(काद०चन्द्रापी० प्रीतिवर्धक उपचारः
पूर्वभागः ।
425