________________
णानसंख्यान, शुण्वन्तीनां प्रियतमकथामबहुभाषिणी सरस्वतीम्, ध्यायन्तीनां प्राणसमसमागमसुखानि ह्रसीयान्कालो हृदयस्यापतति' इति ।
एतदाकर्ण्य च क्षणं विचिन्त्य प्रत्यवादीत् - 'पत्रलेखे, यथा कथयसि तथा जनोऽयं कारितः कुमारे पक्षपातं पञ्चेषुणा । यान्यस्यैतानि रूपाणि समधिकानि वा तानि मयि वर्तन्ते । हृदयादव्यतिरिक्तासीदानी भवतीमेव पृच्छामि । उपदिश त्वं यदत्र मे सांप्रतम् । एवंविधानां वृत्तान्तानामनभिज्ञास्मि । अपि च मे गुरुजनवक्तव्यता नीताया नितरां लज्जिताया जीवितान्मरणमेव श्रेयः पश्यति हृदयम्' इति ।
एवंवादिनीं भूयस्तामहमेवमवोचम् - 'अलमलमिदानी देवी, किमनेनाकारणमरणानुबन्धेन । वरोरु, अनाराधितप्रसनेन कुसुमशरेण भगवता ते वरो दत्तः । का वात्र गुरुजनवक्तव्यता ? यदा खलु कन्यकां गुरुरिव पञ्चशरः संकल्पयति, मातेवानुमोदते, पितेवं ददाति, सखीवोत्कण्ठां जनयति, धात्रीव तरुणतायां रत्युपचारं शिक्षयति । किमि कथयामि ते याः स्वयं वृतवत्यः पतीन् । यदि च नैवम्, अनर्थक एव तर्हि धर्मशास्त्रोपदिष्टः स्वयंवरविधिः ।
*********** तीनाम् । तथा प्रियतमकथा अबहुभाषत इत्येवंशीलां सरस्वतीं श्रृणवन्तीनामाकर्णयन्तीनाम् । तथा प्राणसमस्य भर्तुर्यः समागमस्तस्य सुखानि ध्यायन्तीनां चिन्तयन्तीनाम् ।
इत्येतदाकर्ण्य च क्षणं विचिन्त्य प्रत्यवादीप्रत्यवोचत् । किं तदित्याह - पत्रलेखेति । हे पत्रलेखे, यथा त्वं कथयसि तथायं जनः पञ्चेषुणा कंदर्पण कुमारे पक्षपातं कारितः । तदेव स्पष्टीकरोति - यानीति । यानि त्वया कथितान्यस्य कंदर्पस्य रूपाणि तदपेक्षया समधिकानि मयि कादम्बर्या वर्तन्त इत्यर्थः । अतिनिगूढत्वं यन्मम हृदि वर्तते तदपि भवतीमेव पृच्छामीत्याशयेनाह - भवतीमिति । भवतीं त्वामेव वा पृच्छामि प्रश्नं करोमि । अत्रार्थे हेतुमाह - हृदयेति । इदानीं सांप्रतं मम हृदयात्त्वमव्यतिरिक्ताभिन्नासि । अत एव त्वां पृच्छामीत्यर्थः । ततो यदत्र मे मम सांप्रतं युक्तं तदुपदिश कथय । अत्र हेतुमाह - एवमिति । एवंविधानां पूर्वोद्दिष्टानां वृत्तान्तानामहमनभिज्ञास्म्यकुशला । तस्मात्त्वदीयोपदेशस्यैव प्रतीक्षा क्रियते । मम त्वेतदेव प्रतिभातमित्याह - गुरुजनेति । गुरुजनेन मातृपित्रादिजनेन वक्तव्यतां वचनीयता नीतायाः प्रापिताया नितरामत्यर्थः लज्जिताया मे मम मरणमेव श्रेय इति हृदयं चेतः पश्यति । जानातीत्यर्थः ।
इत्येवंवादिनीं भूयस्तामहमेवमवोचमब्रुवम् । हे देवि, अलमलं कृतम् । किमनेन व्यर्थेनाकारणमरणानुबन्धेन निष्प्रयोजनमृत्युप्रयासेन । वरेति । हे वरोरु, भगवता कसमशरेण ते तव वरो भर्ता दत्तः । भगवान्देव आराधित एव प्रसन्नः स्यात् । अयं तु न तथेत्याह - अनाराधितेति । अनाराधितप्रसन्नेन । कावेति । अत्र गुरुजने का वक्तव्यता का वचनीयता । यदेति । खलु निश्चितम् । यदा गुरुरिव पञ्चशरः कंदर्पः कन्यका संकल्पयति दानेच्छाविषयीकरोति । मातेव जननीवानुमोदते एतत्सुष्टु विहितमिति श्लाघते । पितेव जनक इव ददाति प्रयच्छति । सखीव वयस्येवोत्कण्ठामुत्कलिकां जनयत्युत्पादयती । धात्रीवोपमातेव तरुणतायां तारुण्यविषये रतिविषयको य उपचारो विभ्रमादिस्तं शिक्षयत्यभ्यासं कारयति । न च काश्चन स्वेच्छया पतिवरणं कुर्वन्तीत्याशयेनाह - या इति । याः पतीन्स्वयं वृतवत्यस्ता अपि कन्यकाः सन्ति । अतस्ते तव किमिव कथयामि किं ब्रवीमि । इदं त्वयापि समाचरणीयमिति ध्वनितम् । न चेदमाचरणीयमित्याशयेनाह - यदि चेति । यदीदं पत्युः स्वयंवरणं न कर्तव्यं तर्हि धर्मशास्त्रे स्मृत्यादावुपदिष्टः कथितः - टिप्प० -1 सन्तापजनकत्वादीनि (पूर्वोक्तानि)। 2 'भ्रातेव ददाति' इत्युचितः पाठः, गुरुरिवेतिपूर्वमुक्तत्वात् । 3 'कति वा कथयामि' इत्युचितः पाठः अन्यथा 'याः' इत्यस्य समन्वयो यथावन्न भवति । याः स्वयंवृतवत्यस्ताः कति कथयामि, बह्वयः सन्तीति तदर्थः । पाठा० -१ कुमारपक्षपातिना पञ्चशरेण. २ मे. ३ इदमपि च. ४ भ्रातेव. ५ तरुणतारत्युपचारम्. ६ कति च; कति वा.
(478)
कादम्बरी ।
कथायाम