________________
पराधैर्देवं दूषयितुम् । एतानि खलु कुसुमचापस्य चापलानि शठस्य, न देवस्य' इत्येवमुक्तवती मां पुनः सकुतूहला सा प्रत्यभाषत - 'योऽयं कामः कोऽपि वा, कथय कानि कान्यस्य रूपाणि' इति । तामहं व्यजिज्ञपम् - 'देवि, कुतोऽस्य रूपम् । अतनुरेष हुताशनः । तथाहि । अप्रकाशयज्वालावलीः संतापं जनयति, अप्रकटयन्धूमपटलमश्रु पातयति, अदर्शयन्भस्मरजोनिकरं पाण्डुतामाविर्भावयति । न च तद्भूतमेतावति त्रिभुवनेऽस्य शरशरव्यतां यन्न यातं याति यास्यति वा । को वोस्मान त्रसति । गृहीतकुसुमकार्मुको बाणैर्बलवन्तमपि विध्यति । अपि चानेनाधिष्ठितानां कामिनीनां पश्यन्तीनां चिन्ताप्रियमुखसहससंकटमम्बरतलम्, लिखन्तीनां दयिताकारानविस्तीर्णं महीमण्डलम्, गणयन्तीनां वल्लभगु -
***********
प्रसीद प्रसन्ना भव । कामापराधैर्देवं दूषयितुं नार्हसि न योग्या भवसि । एतानीति । एतानि पूर्वोक्तानि खलु निश्चितं कुसुमचापस्य कंदर्पस्य चापलानि चेष्टितानि शठस्य, न देवस्य चन्द्रापीडस्य । इत्येवमुक्तवती मां पुनर्भूयः सुकुतूहला सकौतुका सा इति प्रत्यभाषत प्रत्यवोचत् । इतिशब्दद्योत्यमाह - योऽयमिति । कोऽपि वा योऽयं कामः, कथय प्रतिपादय, कानि कान्यस्य रूपाणि । ततोऽहं तां कादम्बरी व्यजिज्ञपं विज्ञप्तिमकरवम् । कुतोऽस्य रूपम् । एषोऽतनुर्महान्दृश्यमानवढेविलक्षणो हुताशनः । तदेव दर्शयति - तथाहीति । ज्वालावलीः शिखाश्रेणीरप्रकाशयन्नप्रकटीकुर्वन्संतापं जनयति । अप्रकटयन्नप्रकाशयन्धूमपटलमश्रु पातयत्यश्रुपातं करोति । अदर्शयन्नप्रकटयन्भस्मलक्षणं रजोनिकरं पाण्डुतां पाण्डुरतामाविर्भावयति प्रकटयति । एतावति त्रिभुवने तन्न भूतम् । यत्तदोर्नित्याभिसंबन्धादाह -यदिति । यदस्य मदनस्य शराणां बाणानां शरव्यतां वेध्यतां न यातं प्राप्तम् । न कोऽपि सांप्रतं शरव्यतां याति । कोऽप्यग्रे यास्यति । कोऽपि नास्मास्त्रसति । गृहीतेति । गृहीतमात्तं कुसुमानां कार्मुकं धनुर्येनैवंविधो मदनो बाणैः शरैर्बलवन्तमपि विध्यति । अपिचेति युक्त्यन्तरे । अनेनेति । अनेन कंदर्पणाधिष्ठितानामाश्रितानां कामिनीनां हृदयस्य हैसीयान्हासकृत्काल आपतति । अकस्मादागच्छतीत्यर्थः । अथ कामिनीनां विशेषणानि - किं कुर्वन्तीनाम् । चिन्ताजनितं यत्प्रियमुखसहसं तेन संकटं संकीर्णं यदम्बरतलं तत्पश्यन्तीनां विलोकयन्तीनाम् । दयितस्य भर्तुर्य आकार आकृतिस्तेनाविस्तीर्णं संकुचितं यन्महीमण्डलं तल्लिखन्तीनाम् । तथासंख्याननेकान्वल्लभगुणान्गणयन्तीनां गणना विदध - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -- - टिप्प० - 1 तद् भूतं न, स प्राणी नास्तीत्यर्थः । 2 अस्मात् को वा न त्रस्यति, अपि तु सर्वस्त्रस्यति । 3 ह्रसीयान् काल इति न सर्ववाक्यान्वयि । किञ्च 'चिन्तया प्रियमुखचन्द्रसहसाणि' इति पाठः । प्रियगतचिन्तया (चिन्तावशात्) प्रियमुखखचन्द्रसहसाणि पश्यन्तीनां कामिनीनां कृते अम्बरतलं संकटं संबाधं (मुखचन्द्रसहससंकीर्णतया) । 'लिखन्तीनां दयिताकारानविस्तीर्णं महीमण्डलम्,' (अनेनाधिष्ठितानाम् अत एव विनोदार्थं दयितस्य प्रतिकृतिर्लिखन्तीनाम् (कामिनीनाम् हृदये) महीमण्डलमविशालम्, यतो हि तच्चित्रिता दयिताऽऽकारास्तत्र न मान्ति ।) 'वल्लभगुणान् गणयन्तीनामल्पीयसी संख्या' (गुणगणनाकाले परार्धान्तापि संख्या अपर्याप्ता भवतीत्यर्थः ।) 'शृण्वतीनां प्रियतमकथामबहुभाषिणी सरस्वती', (प्रियतमकथां शृण्वतीनां कामिनीनां कृते वाग्देवतात्वेन प्रसिद्धापि सरस्वती न्यूनभाषिणी । अनन्तयापि कथया तासां श्रवणाशा न पूर्यत इत्यर्थः ।) 'ध्यायन्तीनां प्राणसमसमागमसुखानि ह्रसीयान् कालो हृदयस्यापतति (ध्यानवेलायां कालः सहसैव समाप्यत इत्यर्थः ।)
पाठा० - १ खलु खलस्य. २ कामो वा; कामोऽपि. ३ प्रकाशयन्. ४ शरव्यताम्. ५ वास्य भ्रश्यति. ६ चिन्तया प्रिया. ७ चन्द्रसहसाणि. ८ वल्लभगुणानल्पीयसी संख्या.
कादम्बरीवृत्तश्रवणम्
पूर्वभागः ।