________________
पाण्डुरधारासहसाणि धारागृहाणि मुक्तानि, आहोस्विदनिलविकीर्यमाणासीकरधवलितभुवनाम्बरसिन्धुः कुतूहलाद्धरातलमवतीर्णा' इति । 'आलोकानुसारप्रहितचक्षुरद्राक्षीदनल्पकन्यकाकदम्बपरिवृतां ध्रियमाणधवलातपत्रामुद्भूयमानचामरद्वयां कादम्बरी प्रतीहार्या वामपाणिना वेत्रलतागर्भेणार्द्रवस्त्रशकलावच्छन्नमुखं चन्दनानुलेपनसनाथं नालिकेरसमुद्गकमुद्वहन्त्या दक्षिणकरेण दत्तहस्तावलम्बाम्, केयूरकेण च निःश्वासहार्ये निर्मोकशुचिनी धौते कल्पलतादुकूले दधता निवेद्यमानमार्गाम्, मालतीकुसुमदामाधिष्ठितकरतलया च तमालिकयानुगम्यमानामागच्छन्तीं मदलेखाम्, तस्याश्च समीपे तरलिकाम्, तया च सितांशुकोपच्छदे पटलके गृहीतं धवलताकारणमिव क्षीरोदस्य, सहभुवमिव चन्द्रमसः, मृणालदण्डमिव नारायणनाभिपुण्डरीकस्य, मन्दरक्षोभविक्षिप्तमिवामृ -
*********** विशरारुतां प्राप्यमाणानि पाण्डुरधाराणां सहसाणि येष्वेवंविधानि धारागृहाणि मुक्तानि । आहोस्विदिति वितर्के । अनिलेन वायुना विकीर्यमाणा विक्षिप्यमाणा ये सीकरा वातास्तवारीणि तैर्धवलितं शुभ्रीकृतं भुवनं यया सैवंविधाम्बरसिन्धुर्गङ्गा कुतूहलाद्धरातलं पृथ्वीतलमवतीर्णागता।
आलोकस्यानुसारेण प्रहितं प्रेषितं चक्षुर्येनैवंभूतश्चन्द्रापीडः कादम्बरीम्, अथ चागच्छती मदलेखाम्, अथ च तस्याः समीपे तरलिकाम्, तया च सिताशुकं श्वेतवस्त्रमुपच्छदं यस्मिन्नेतादृशे पटलके पात्रविशेषे गृहीतं हारं चाद्राक्षीत् । अथ कादम्बरी विशिनष्टि - अनल्पेति । अनल्पा बढ्यो याः कन्यकाः कुमार्यस्तासां कदम्बः समूहस्तेन परिवृता सहिताम् । ध्रियमाणेति । ध्रियमाणं धवलं शुभ्रमातपत्रं छत्रं यस्याः सा ताम् । उद्भूयमानं वीज्यमानं चामरद्वयं यस्याः सा ताम् । प्रतीहार्या द्वारागतजननिवेदनकारिण्या । वामेति । वेत्रलता गर्थे मध्ये यस्यैवंविधेन वामपाणिनापसव्यहस्तेन कृत्वा यद्वस्त्रं तस्य शकलं खण्डं तेनावच्छन्नमाच्छादितं मुखं यस्यैवंभूतं चन्दनस्यानुलेपनेन सनाथं सहितं नालिकेरसमुद्गकं श्रीफलमध्यवर्तिगोलकमुद्वहन्त्या दक्षिणेन करेणापसव्यपाणिना दत्तो हस्ताबलम्बो यस्याः सा ताम् । केयूरकेणेति । निःश्वासेन श्वासवातेन हार्ये हर्तुं योग्ये निर्मोकः कञ्चुकस्तद्वच्छुचिनी निर्मले धौते क्षालिते कल्पलतादुकूले दधता धारयतैवंविधेन केयूरकेण च निवेद्यमानो मार्गो यस्याः सा ताम् । अथ मदलेखां विशेषयन्नाह - मालतीति । मालती जाती तस्याः कुसुमानि पुष्पाणि तेषां दाम् सक् तेन अधिष्ठितं अधिश्रितं करतलं यस्या एतादृश्या तमालिकया भुजिष्ययानुगम्यमानाम् । अथ हारस्य धेतत्वप्रकर्षमाश्रित्योत्प्रेक्षते - धवलतेति । क्षीरोदस्य क्षीरसमुद्रस्य या धवलता शुभ्रता तस्याः कारणमिव निमित्तमिव । एतेन क्षीरोदस्य स्वाभाविकी धवलता न, किं तु तद्भवलताया हेतुरेवायम् । क्षीरोदस्य हारगर्भत्वस्य वक्ष्यमाणत्वादन्तर्गतस्य हारस्येत्यर्थः । चन्द्रमसः शशिनः सहभुवमिव सहसमुत्पन्नमिव । नारायणेति । नारायणो विष्णुस्तस्य नाभिपुण्डरीकस्य तुन्दकूपिकासिताम्भोजस्य मृणालदण्डमिव । मन्दरो मेरुस्तस्य क्षोभेण विक्षिप्तं दूरीकृतममृतस्य पीयूषस्य फेनपिण्डो - - - - - - - - - -
- - - - - - - - - - - टिप्प० - 1 पाण्डुरवर्णानां जलधाराणाम् । 2 जलयन्त्र ('महारा' इति भाषा) गृहाणि । 3 हारोपहरणाय न स्वयं कादम्बर्यागच्छत्, न चेदमनुरूपमपि । हारपरिचये प्रोच्यते - 'गन्धर्वराजेनापि कादम्ब (दत्तः) । अपि कादम्बरी स्वयमेवं वदेत् ? अस्तु. वाचयतां स्पष्टमग्रे भवेद्यत् सतरलिका मदलेखैवानुप्रेषिताऽत्र । तस्मात् - 'कादम्बरीप्रतीहार्या' इत्येव पाठः । वेत्रलतागर्भेण वामपाणिना नारिकेलसमुद्गकमुदहन्त्या कादम्बरीप्रतिहार्या दत्तहस्तावलम्बामित्यर्थः । 4 मदलेखां विशिनष्टीति बोध्यम् ।
पाठा० - १ पारदरसधाराः, जलधाराः. २ सिन्धुर्धरातलमवतीर्णा कुतूहलाच्चालोक. ३ कादम्बरीप्रतीहार्या. ४ नारिकेल.
(414
कादम्बरी।
कथायाम्